००४ राम-लक्ष्मणयोः सुग्रीवान्तिके नयनम्

तद्वचः “सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥ " इति रामवचः “महात्मनः” इति सोपचारप्रयोगतः सुग्रीवविषये मधुरभावं सौम्यभावं श्रुत्वा “तमेव काङ्क्षमाणः” इत्यनेन सुग्रीवे रामः किञ्चित्कृत्यवानिति विज्ञाय प्रहृष्टः सुग्रीवं सुग्रीवाभिमतसिद्धिं मनसा गतो दृष्टवान् ॥

४।४।१ ॥

तदेव विवृणोति भाव्य इति । अवश्यंभावीत्यर्थः । यदयं महापुरुषः कृत्यवान्, प्रयोजनसापेक्षः प्राप्तः एतत्कृत्यं चोपागतं सुग्रीवं प्राप्तमित्यर्थः ॥ ४।४।२ ॥

एवं सुहृदयत्वमवगत्य स्वस्वाम्युक्तं पृच्छति तत इति ॥ ४।४।३ ॥

पम्पाकाननेन मण्डितमूलंकृतं घोरमन्यदिति शेषः ॥ ४।४।४ ॥

रामचोदितः इङ्गितेनेति शेषः । आचचक्षे बोधितवान् ॥ ४।४।५,६ ॥

पितामह इव पालकत्वेनेत्यर्थः ॥ ४।४।७,८ ॥

निर्देशो नियोगस्तत्पारगः । तस्य समाप्तकल्पत्वादेवमुक्तम् ॥ ४।४।९ ॥

संयुक्तः संयुज्यमानः । भ्रष्टः किञ्चिन्निमित्तवशात् ॥ ४।४।१०,११ ॥

अवरः कनीयान् दास्यमुपागतः अस्येति शेषः ॥ ४।४।१२,१३ ॥

रहिते आवाभ्यां रहिते काले न ज्ञायते विशिष्येति शेषः ॥ ४।४।१४ ॥

दनुः कबन्धः “स ज्ञास्यति” इत्याख्यातः ॥ ४।४।१५ ॥

स्वर्गं गन्तुं दिवमाकाशं गत उत्पतितः ॥ ४।४।१६,१७ ॥

नाथं रक्षकमिच्छति दैवगत्येति शेषः ॥ ४।४।१८ ॥

यः शरण्यो धर्मवत्सलश्चासीदित्यर्थः ॥ ४।४।१९२१ ॥

सर्वगुणोपेताः मूर्धाभिषिक्ता इति यावत् । सदा प्रतिदिनम् सततमनुक्षणम् ॥ ४।४।२२,२३ ॥

शोकाभिभूते शोकाविष्टे । शोकार्ते शोकपीडिते ॥ ४।४।२४ ॥

साश्रुपातनमस्माकमप्यन्यशरणापेक्षेत्यश्रुपातनसहितम् ॥ ४।४।२५ ॥

द्रष्टव्या द्रष्टुं योग्याः ॥ ४।४।२६ ॥

स हीत्यनेन तस्यापि सहायापेक्षत्वं दर्शितम् ॥ ४।४।२७ ॥

यदेवम्, अतः परिमार्गणे साहाय्यं करिष्यतीत्यन्वयः ॥ ४।४।२८३० ॥

सो ऽपि त्वया कृत्यवानिति यथा कथयते तथा जाने । एनं देशं संप्राप्तस्त्वं कृतकृत्यो ऽसीत्यर्थः ॥ ४।४।३१ ॥

उक्तं समर्थयते– प्रसन्नेति । मुखवर्णो मुखशोभा ॥ ४।४।३२,३३ ॥

वानरं वानरस्येदम् । आर्षो ऽण् ॥ ४।४।३४ ॥

उक्तं सङ्गृह्णाति– स त्विति । कृतकृत्यवत्तदर्हम् । गिरिवरं ऋष्यमूकम् ॥ ४।४।३५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४।४ ॥