००३ हनुमता सुग्रीववृत्तान्तकथनम्

विज्ञाय तात्पर्यतो ज्ञात्वा ॥ ४।३।१ ॥

भिक्षुरूपं प्राकृततापसरूपम् । शठबुद्धितया ऽविश्वस्तबुद्धितया ॥ ४।३।२ ॥

विनीतवद्विनीतयोग्यम् ॥ ४।३।३ ॥

यथावत्प्रशशंस न तु मिथ्यास्तुतिरित्यर्थः । आबभाषे वक्तुमभिमुखीचकार । संपूज्य वाचा प्रशस्य ॥ ४।३।४ ॥

कामतः सुग्रीवोपदेशाविरुद्धस्वेच्छातः । राजर्षी च देवौ च तत्प्रतिमौ ॥ ४।३।५ ॥

वरवर्णिनौ ब्रह्मचारिश्रेष्ठौ । अन्यांश्च रक्षोसुरादीन् ॥ ४।३।६ ॥

समन्ततो वीक्षमाणौ । किञ्चिद्वस्त्वन्वेषमाणाविवेत्यर्थः । इमां नदीमिति सरस्यपि विस्तृतत्वेन नदीत्वोपचार इति केचित्, नद्येवेत्यन्ये ॥ ४।३।७ ॥

शोभनो वर्ण आभा कान्तिश्च ययोस्तौ निःश्वसन्तौ किञ्चिद्दुःखवशेनेति शेषः । इमा वन्याः प्रजाः पीडयन्तौ स्वरूपमात्रेणेति शेषः ॥ ४।३।८,९ ॥

हस्तः शुण्डादण्डः ॥ ४।३।१० ॥

राज्यार्हौ देवतुल्यौ देशं हित्वा कथमिहागतावित्यर्थः । आकारतो महाराजत्वनिश्चयादेवमुक्तिः ॥ ४।३।११ ॥

देवलोकादिह भूतल आगताविव ॥ ४।३।१२,१३ ॥

समदौ हृष्टौ गौवृषौ तरुणवृषभाविव ॥ ४।३।१४,१५ ॥

चित्रमनुलेपनं स्वर्णजलरूषणं ययोस्ते ॥ ४।३।१६ ॥

हेमभूषिते वज्रे यथा ॥ ४।३।१७,१८ ॥

निर्मुक्तौ मुक्तकञ्चुकौ । कस्माद्वै कस्माद्धेतोर्नाभिभाषथः प्रत्युत्तरमिति शेषः ॥ ४।३।१९ ॥

ननु कस्त्वं कस्य वा यस्यास्माभिः प्रत्युत्तरं देयम्, तत्राह सुग्रीव इति । सुग्रीवस्याक्षुद्रत्वबोधनाय तत्स्तुतिपूर्वकमुक्तिः । विनिकृतो निरस्तः ॥ ४।३।२०,२१ ॥

ननु त्वद्राज्ञा ऽस्मत्समीपे प्रेषणं किमर्थम्, तत्राह युवाभ्यामिति ॥ ४।३।२२ ॥

वानरराजसचिवस्य मानुषं रूपं कुतस्तत्राह भिक्षुरूपेति । अनेन शुद्धं वानरत्वमेव नेत्यपि बोधितम् । ईदृशं वित्तमिति प्राक्तनेनान्वयः ॥ ४।३।२३२५ ॥

तमेव सुग्रीवमेव । काङ्क्षमाणस्येच्छत इत्यर्थः ॥ ४।३।२६ ॥

तमभ्यभाषाभिभाषस्वेति यावत् । वाक्येति । वाक्यज्ञं वाक्यरचनाभिज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमभ्यभाषेत्यन्वयः ॥ ४।३।२७ ॥

विनयः प्रातिशाख्यादिज्ञानपूर्वकाभ्यासः ऋग्वेदविषये तद्धीनो यो न भवति तेन । एकैकानुवाके ऽनुवाकान्तरसाङ्कर्येण तद्धारणस्य दुष्करत्वाद्यजुर्वेदधारणाहीनभिन्नेन । गायनविषयोहादेर्दुर्ज्ञेयत्वात्सामवेदज्ञानहीनभिन्नेनैवं प्रभाषितुं शक्यं न तद्धीनेनेत्यर्थः । षष्ठ्यार्षी, शेषे वा । यद्वा तद्धीनैरेवं प्रभाषितुं न शक्यम् अशक्यमित्यर्थः । तेनायं सर्वथा तज्ज्ञ इति नोपेक्षार्ह इति व्यङ्ग्यम् ॥ ४।३।२८ ॥

ननु वेदमात्राध्यायिना न किञ्चिद्राजमन्वादि ज्ञातुं शक्यं तत्राह नूनमिति । कृत्स्नं पदतदर्थस्वरूपनिर्णयोपयोगिन्यायसहितं व्याकरणबोध्यसाधुत्वस्यार्थघटितत्वात् । अनेन सर्वज्ञत्वं सूचितम् । तथाश्रवणे हेतुमाह बह्विति ॥ ४।३।२९ ॥

इङ्गितैरप्यसौ विश्वासयोग्य इत्याह न मुखे इति । दोषः संविदितः व्यवहारकाले इति शेषः ॥ ४।३।३० ॥

अथ वचनरचनासौष्ठवमाह अविस्तरमिति । नातिविस्तारमित्यर्थः । असन्दिग्धमसन्दिग्धार्थमसन्दिग्धाक्षरं च । अविलम्बितम् अनेनास्खलद्गीष्ट्वम् । अव्यथं न विद्यते श्रोतृश्रुतेर्व्यथा यस्मात्तादृशं तेनाश्रुतिकटुवर्णमित्यर्थः । उरस्थं मध्यमारूपेण, कण्ठगं वैखरीरूपेण कण्टविवराच्छ्रोतृश्रोत्रं गतम्, अत एव मध्यमस्वरं नात्युच्चैर्नातिनीचैः ॥ ४।३।३१ ॥

संस्कारक्रमसंपन्नां संस्काराणां क्रमे क्रमेण जनने संपन्नां समर्थाम् “विशिष्टानुपूर्वीविशेषरूपेण पदादीनां ग्रहणाय क्रमवत्ततद्वर्णाकारसंस्करानन्तःकरण उत्पाद्य तत्क्रमेण क्रमवद्वर्णावभासपदवाक्यज्ञानम्” इति वाक्यप्रदीपादौ स्पष्टम् । तेन मध्यमवृत्त्योच्चारणं सूचितम्, तदाह अद्भुतामविलम्बितामिति । अत एव हृदयहर्षिणीम् ॥ ४।३।३२ ॥

त्रिस्थानव्यञ्जनस्थया त्रिषु स्थानेषूरःकण्ठशिरःसु यद्व्यञ्जनमभिव्यक्तिस्तया तिष्ठति श्रोतृग्राह्यस्वरूपं लभते तादृश्या । अनेन “नित्य एव स्फोटरूपः शब्दः” इति सूचितम् । नाराध्यते नानुकूल्यते ॥ ४।३।३३ ॥

कार्याणां गतयः परिपाकाः ॥ ४।३।३४ ॥

दूतवाक्यप्रचोदितास्तद्वाक्यबोधितः ॥ ४।३।३५ ॥

एवमुक्तः रामेणेति शेषः ॥ ४।३।३६ ॥

नावावयोः । तमेव सुग्रीवमेव । मार्गावो मार्गयावः ॥ ४।३।३७ ॥

यथा ब्रवीषि सख्यमीच्छतीति यदवादीः तत्तथैव करिष्याव इत्यर्थः ॥ ४।३।३८ ॥

जयोपपत्तौ सुग्रीवस्येति शेषः । ताभ्यां रामसुग्रीवाभ्याम् ॥ ४।३।३९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे तृतीय सर्गः ॥ ४।३ ॥