तदेव विस्तारयति– तौ त्विति ॥ ४।२।१ ॥
न व्यतिष्ठत न व्यवस्थितो ऽभूत् ॥ ४।२।२ ॥
व्यवससाद विषण्णमभूत् ॥ ४।२।३ ॥
अवस्थितिप्रस्थानयोर्गुरुलाघवं विमृश्य सचिवैः सह विचार्य ॥ ४।२।४ ॥
ततो विचारानन्तरं प्रस्थानेच्छया सचिवेभ्यः शशंस भयहेतुमिति शेषः ॥ ४।२।५ ॥
तमेवाह एताविति । छद्मना विश्वासार्थम् ऋषिवेषेणेत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् अतो ज्ञात्वा प्रस्थातव्यमित्याशयः ॥ ४।२।६ ॥
ततः सुग्रीवोक्त्यनन्तरं सुग्रीवसचिवास्तौ परमधन्विनावत एव शङ्कास्पदौ दृष्ट्वा तस्मात्पूर्वमधिष्ठिताद्गिरितटादन्यत्तस्यैव गिरेः शिखरं जग्मुः सुग्रीवेण सहेति शेषः । “अन्यं शिखरम्” इति पाठे पुंस्त्वमार्षम् ॥ ४।२।७ ॥
ते क्षिप्रं शिखरान्तरमभिक्रम्य प्राप्य यूथपर्षभं वानरश्रेष्ठं सुग्रीवं परिवार्योपतस्थिरे
उपविष्टाः ॥ ४।२।८ ॥
उक्तमेव विवृणोति– एवमिति । उक्तरीत्या स्थितिगतिभयाभयसुखदुःखादावेकायनमेकमार्गसमानत्वं गताः । गिरेः प्रागधिष्ठितगिरिशृङ्गाद्गिरिं तस्यैव शिखरान्तरं मृगत्रासादि कुर्वन्तो ययुर्गतवन्तः ॥ ४।२।९११ ॥
सुग्रीवसचिवा हनुमदादयः ॥ ४।२।१२ ॥
वालिकिल्बिषेण वालिप्रवर्तनया किल्बिषाद्वधाच्छङ्कितम् ॥ ४।२।१३ ॥
संभ्रमाश्चित्तक्षेभः । वालिकृते वालिनिमित्तम् । सर्ववानरैः मलयो मलयपर्यायो ऋष्यमूकः ॥ ४।२।१४ ॥
यस्माद्वालिनः ॥ ४।२।१५ ॥
तदेवाह आदरात् यस्मात्तेवेति । पूर्वजाद्वालिनः इह पर्वते तस्मात्ते भयं न पश्यामीत्यन्वयः ॥ ४।२।१६ ॥
शाखामृगत्वं बहुचेष्टचपलचित्तमर्कटत्वम् । तदेवाह– लघुचित्ततयेति । लघु चपलम् ॥ ४।२।१७ ॥
ननु ततो भयाभावे ऽपि तत्प्रेरिताद्भयम्, तत्राह बुद्धीति । इङ्गितैरन्तराशयगमकैश्चेष्टाविशेषैर्बुद्ध्या निश्चयात्मकेन विज्ञानेन पारक्याशयज्ञानेन संपन्नः संस्तदुचितं सर्वमाचर । सर्वभूतानि निजशास्यप्रजाजातम् ॥ ४।२।१८ ॥
नेदं भयं चापलमूलमित्याह सुग्रीव इति ॥ ४।२।१९ ॥
तदेवाह दीर्घेति ॥ ४।२।२० ॥
ननु वनचारिणा वानरेण वालिना कुतो ऽनयोः प्रवर्तना, तत्राह राजान इति । बहुमित्रा जात्यन्तरेष्वपि मित्रवन्तः यथा दशरथो गृध्राराजेन मित्रवान्, एवं वालिनापि नरमैत्र्यं संभावितमिति भावः ॥ ४।२।२१ ॥
नन्वथापि तापसाभ्यां कुतो भयम्, तत्राह अरयश्चेति । यतस्ते छद्मचारिणः, अतो विज्ञेयाः । यतश्च विश्वस्तानां वञ्चनया प्राप्तविश्वासानामरीणां स्वयमविश्वस्ता छिद्रेषु प्रहारावकाशेषु प्रहरन्ति अतो विज्ञेया इत्यर्थः ॥ ४।२।२२ ॥
उक्तमुपनयति कृत्येष्विति । राजानो बहुदर्शिनो नानाविधवञ्चनोपायज्ञाः परहन्तारो भवन्ति । ते एते प्राकृतैः प्राकृतवेषैश्चारैर्ज्ञेया ज्ञातव्यान्तराशयाः ॥ ४।२।२३ ॥
यत एवमतः ताविति । प्राकृतेनेव उदासीनेनेव इङ्गितानां प्रकारैर्विशेषैः, रूपेण सौम्यासौम्याकारेण, व्याभाषणेन तत्तत्प्रसङ्गे दीयमानोत्तरेण च ॥ ४।२।२४ ॥
तयोर्मनुष्ययोः यदि त्वयि समीपस्थिते प्रहृष्टमनसावुत्तरप्रत्युत्तरादौ सन्तुष्टमनसौ तदा तयोरभिमुखं स्थित्वा ममैव प्रशंसाभिस्तद्वोधकवाक्यैरिङ्गितैर्मामकाभिप्रायबोधनैर्मयि तौ विश्वासयन्नस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । यद्वा ममैवाभिमुखं यथा तथा स्थित्वा प्रशंसाभिस्तयोः स्तुतिभिः, इङ्गितैः स्वीयैस्तावात्मनि मयि च विश्वासयन्पृच्छेत्यन्वयः । स्वाभिमुखस्थितकथनमन्यादृशवचनकथनसंभावनया तन्निरासायेति बोध्यम् ॥ ४।२।२५,२६ ॥
प्रश्नावसरं दर्शयति शुद्धेति । यद्येतौ शुद्धात्मानावस्मासु द्वेषरहितौ जानीहि ज्ञास्यसि तर्ह्यैव तदभिमतं प्रयोजनं पृच्छ । उपसंहरति व्याभाषितैरिति । दुष्टता ऽदुष्टता चेति तन्त्रेण पदच्छेदः ॥ ४।२।२७२९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ ४।२ ॥