००१ रामेण पम्पातीरे विलापः

तिलकटीका ।

सुग्रीवस्यावनं तुर्ये इन्द्रसूनोश्च मर्दनम् ।

मारुतेर्मुद्रिकादानं कृतं येन स मे गतिः ॥

स विराधादिवधेन प्रसिद्धपराक्रमः पम्पादर्शनोद्दीपितकामो वा तां सुग्रीवाधिष्ठितर्ष्यमूकसमीपगां पुष्करिणीं पम्पानद्यन्तरगतं पम्पाक्यं मतङ्गाख्यं वा सरोविशेषम् । विललाप पर्यदेवयत् ॥ ४।१।१ ॥

तां पम्पां दृष्ट्वा तज्जन्यहर्षात्तस्येन्द्रियाणि चकम्पिरे उद्रिक्तविकाराणीवाभूवन् । कामवशमापन्न इव ॥ ४।१।२ ॥

वैदूर्यवत्तत्प्रभावन्निर्मलोदका पम्पा तदाख्यसरोवरावच्छिन्ना पम्पानदी । तज्जलस्यौपाधिकश्यामत्वप्रतिभासाद्वैदूर्यप्रभासादृश्यम् । उपाधिमाह– फुल्लेति । द्रुमादिच्छायया तथा भानम् ॥ ४।१।३ ॥

पम्पायाः काननं तत्परिसरवर्तिकाननम् । यत्र कानने सशिखरा इवोन्नताग्रशाखाभिः सशृङ्गा इव द्रुमाः शैला वा शैला इव राजन्ति ॥ ४।१।४ ॥

शोकाभिसन्तप्तं राज्यभ्रंशसीतावियोगादिना शोकतप्तम् आधयः पीडयन्तीत्युक्तम् । तानाधीनाह– भरतस्येति । दुःखेन जटावल्कलादिदुःखस्मरणेन ॥ ४।१।५ ॥

एवं शोकार्तस्यापि शोभते सुखावहा वर्तते इत्यर्थः ॥ ४।१।६ ॥

व्यालाः श्वापदाः ॥ ४।१।७ ॥

नीलानुबद्धं पीतं नीलपीतं शाद्वलं हरितप्रदेशः । परिस्तोमैः कुथैरर्पितं युक्तम् “परिस्तोमः कुथो द्वयोः” । “द्रुमाणामुच्छ्रितैः” इति पाठे उच्छ्रितगन्धैः । यद्वा परिस्तोमैः परिस्तोमभूतैः राशीभूतैरिव स्थितैः पुष्पैरर्पितं युक्तम् ॥ ४।१।८ ॥

शिखराणि द्रुमाग्राणि उपगूढानि व्याप्तानि । सर्वतः सर्वावच्छेदेन ॥ ४।१।९ ॥

अयं कालो वसन्तः प्रचुरमन्मथः कामोद्दीपकः । अत एव गन्धवान्कामोद्दीपनेन गर्ववान् “गन्धो गन्धक अमोदे लेशे संबन्धगर्वयोः” इति । सुरभिर्मासो मधुमासः । जातानि पुष्पफलानि यत्र तादृग्द्रुमः ॥ ४।१।१०,११ ॥

प्रस्तरेषु समशिलातलेषु ॥ ४।१।१२,१३ ॥

कुसुमोत्कटा बहुकुसुमाः । “कुसुमोत्कचाः” इति पाठे कुसुमैरुद्भूतकचाः सञ्जातकेशा इवेत्यर्थ इति कतकः । तादृशीः शाखा विक्षिपंश्चालयन्मारुतश्चलितस्थानैस्तत्तत्कुसुमस्थानतश्चलितैः आहिताग्न्यादिरयम् । षट्पदैरनुगीयते । पुष्पं हरन्मारुतो ऽनुसृत्य गीयत इत्यर्थः ॥ ४।१।१४ ॥

मत्तेति । अत्र वायोर्गानकर्तृत्वेन नर्तकाचार्यसाधर्म्यमुच्यते । मत्तकोकिलकृतैः संनादैर्मृदङ्गादिध्वनिभिर्नर्तयन्निव नृत्यं शिक्षयन्निव । शैलकन्दरनिष्कान्तस्तन्निष्क्रमकाले ध्वनियुतत्वात्प्रगीतवानिव ॥ ४।१।१५ ॥

तेन मन्दत्वादिगुणवता विक्षिपता वृक्षांश्चालयता ग्रथिताः कृतग्रथना इव ॥ ४।१।१६ ॥

गन्धमभ्यवहन्वातीति संबन्धः ॥ ४।१।१७ ॥

अनुकूजद्भिः षट्पदैर्विनदन्तीव ॥ ४।१।१८ ॥

संसक्तशिखराः संपन्नशेखराः इवेत्यर्थ इति कतकः । गिरिप्रस्थेषूत्पन्नैर्द्रुमैः शैलाः संबद्धाग्रभागा इत्यर्थ इति तीर्थः ॥ ४।१।१९ ॥

पुष्पैः सञ्छन्नाः शिखराः शाखाग्रभागा येषाम् । मारुतकृतोत्क्षेपणेन चालनेन चञ्चला मधुकररूप उत्तंसश्चूडा येषां ते । प्रगीता इव प्रारब्धनृत्यगीता इवेत्यर्थः ॥ ४।१।२० ॥

कर्णिकारः पीतपुष्प इत्यनेन ज्ञायते ॥ ४।१।२१,२२ ॥

हृष्टं यथा तथा प्रवदमानः कोकिलो मां समाह्वयति स्पर्धयेवेत्यर्थः ॥ ४।१।२३ ॥

दात्यूहको जलकुक्कुटः हृष्टः कामावेशेन । वननिर्झरे वनमध्यगे प्रस्रवणे ॥ ४।१।२४ ॥

मामाहूय प्रदर्शनार्थमिति शेषः । परममतिशयेन ॥ ४।१।२५ ॥

पतगाः कर्तारो वृक्षादीन्कर्मभूतान्सम्पतन्ति पश्य ॥ ४।१।२६ ॥

पुंभिर्विहङ्गैर्विमिश्राः सम्बद्धाः आत्मव्यूहेषु स्वस्वजातिसमूहेषु अभिनन्दिताः प्राप्तानन्दाः भङ्गराजप्रमुदिताः प्रमुदितभृङ्गराजा इव मधुरस्वनाः अस्याः कूले सन्तीति शेषः । यद्वा भृङ्गराजसम्बन्धेन प्रमुदिता मधुरस्वरा भृङ्ग्यश्चात्र सन्तीति शेषः ॥ ४।१।२७ ॥

तथास्या इह कूले शकुनाश्च प्रमुदिताः सन्ति । दात्यूहानां रतिसम्बन्धिनो विक्रन्दा दात्यूहरतिविक्रन्दास्तैः ॥ ४।१।२८ ॥

अशोकस्तबकरूपा अङ्गारा यस्य । अग्नेः सशब्दत्वादाह– षट्पदस्वन एव निःस्वनो यस्य । पल्लवरूपा अर्चिषो यस्य ॥ ४।१।२९,३० ॥

अयं हीति । अयं कालो वसन्तकालस्तस्या मम दयिताया रुचिर इष्टः ॥ ४।१।३१ ॥

कोकिलैराकुलः सीम्नां वनसीम्नामन्तो मध्यप्रदेशो येन सः । मन्मथायासेन कामपीडया संभूतो जनितः वसन्तगुणैर्मन्दानिलपुष्पितकाननत्वादिरूपैर्वर्धितः प्रज्वलितः ॥ ४।१।३२ ॥

न चिरादिवेदानीमेव । “अचिरादिव” इति पाठान्तरम् ॥ ४।१।३३ ॥

आत्मप्रभवः कामः । भूयस्त्वं वैपुल्यम् ॥ ४।१।३४ ॥

स्वेदसंसर्गः कामविकारजस्तेन दूषयति मलिनीकरोति तादृशः । यद्वा तं दूषयति नाशयति मलयानिलसम्बन्धात्तादृशः । चिन्ताशोकाभ्यां बलात्कृतं बलात्कृतपीढम् ॥ ४।१।३५ ॥

चैत्रसम्बन्धी वनानिलः ॥ ४।१।३६ ॥

शिखिनीभिर्मयूरीभिः । मदमूर्च्छिता मत्ताः ॥ ४।१।३७ ॥

अभिपरीतस्य व्याप्तस्य ॥ ४।१।३८ ॥

अनुधावति नृत्यप्रसङ्गेनाग्रे गताम् ॥ ४।१।३९ ॥

रुतैरुपहसन्निव मामिति शेषः ॥ ४।१।४० ॥

यतो न हृता तस्मान्नृत्यतीत्यर्थः । विना सीतां विना ऽयं मम पुष्पमासे चैत्रे वासः सुदुःसहः अतिपीडाजनकत्वात् ॥ ४।१।४१ ॥

नन्वेतावान्रागस्तवानुचितस्तत्राह पश्येति । संरागो ऽतिशयितो रागः ॥ ४।१।४२,४३ ॥

वन्यानि पुष्पाणि मे सीतावियोगाद्भोगसाधनत्वाभावान्निष्फलानि भवन्ति ॥ ४।१।४४ ॥

उक्तस्यैव विवरणं पुष्पाणीत्यादि । अतिश्रिया रुचिराणीत्यन्वयः । मधुकरोत्करैर्मधुकरसमूहैः ॥ ४।१।४५ ॥

आह्वयन्त इव नदन्तीत्यन्वयः ॥ ४।१।४६ ॥

यदि सीतावासदेशे ऽपि वसन्तो ऽस्ति तदा मद्वदेव सापि शोचति सामग्र्याः समत्वात् ॥ ४।१।४७ ॥

यद्यपि तत्र वसन्तो न भवेत्कदाचित्, तथापि मया विना सा कथं वर्तयेज्जीवेत् । मद्विरह एव तन्नाशे पर्याप्त इति भावः ॥ ४।१।४८ ॥

अथवा वर्तते तत्र वसन्तस्तथापि परैः शत्रुभिः पीडिता यतः सा, अतस्तस्या वसन्तः किं करिष्यति । परकृतपीडासत्त्वे कामपीडानवकाशादिति भाव इति प्राञ्चः । परे तु तत्र वसन्तो नास्त्येव । तत्सत्त्वे मया विना सा कथं तत्र तिष्ठेत् । आगतैव स्यादित्यर्थः । तदेव सूचयन्नाह अथवेति । परनिर्भर्त्सनवशान्नायातीत्याशय इत्याहुः ॥ ४।१।४९ ॥

सर्वथा तस्याः कामपीडया नाश एव प्राप्त इत्याह श्यामेति ॥ ४।१।५० ॥

तदेव विवृणोति– दृढमिति । साध्वी सीता मद्विरहं गता संप्राप्ता, वसन्तसत्त्वे ऽसत्वे वा सर्वथा वर्तयितुं जीवितुं नालं न समर्था ॥ ४।१।५१ ॥

एवंनिश्चयकारणं परस्परानुरागसाम्यं दर्शयति मयि भाव इति ॥ ४।१।५२ ॥

हिमावहो ऽपि पावकप्रतिमो ऽत्युष्ण इति विरोधाभासः ॥ ४।१।५३ ॥

यं वायुं सीतया सह स्थितिकाले सदा सुखं मन्ये इत्यन्वयः ॥ ४।१।५४ ॥

तदा सीतासंयोगकाले ऽसौ वायसः पक्षी विहङ्ग आकाशगः सन्प्रणदितस्तेन च तद्वियोगं सूचितवानित्याशयः । अथ तां विना तद्वियोगावस्थायां पादपगतः प्रहृष्टमभिकूजति तेन तत्संयोगं सूचयतीत्याशयः । तदेव विवृणोति विहगः सन्प्रतिहारकः । अपहारक इत्यर्थः । तु इदानीं तु स पक्षी तस्याः समीपं मां नेष्यतीत्यर्थः । कतकस्तु– “पक्षी प्रणदितस्तथा” इति, “विहगः प्रीतिकारकः” इति च प्राचीनः पाठः । असौ पक्षी तथा ऽतिसुखं यथा भवति तथा विहगः सन्नाकाशगः प्रणदितो नादं कृतवान् । अस्य पूर्वमिति शेषः । तत्संयोगकाले इत्यर्थः । अथेदानीं तां विना तद्वियोगकाले । अन्यथेति शेषः । दुःखनाद इत्यर्थः । अथ कञ्चिच्छकुनमाह– पादपगतो वायसः प्रहृष्टं यथा कूजति । एष विहग एवंनादविशिष्टो विहगो वायसो यत्र सीता तिष्ठति तत्र तस्याः प्रीतिकारको ऽतिपीडाभावसूचकः । मां तु मां च तस्याः समीपं तत्समीपगमनद्वारमुपनेष्यत्युपस्थापयिष्यतीत्यर्थ इत्याह ॥ ४।१।५५,५६ ॥

पुनः कामपीडां नाटयति– पश्येति । शृण्वित्यर्थः । अवकूजतां शब्दं कुर्वताम् ॥ ४।१।५७ ॥

मदोद्धूतां मदेन स्खलन्तीम् ॥ ४।१।५८,५९ ॥

विभ्रमोत्सिक्तमनसः शृङ्गारोद्रिक्तचित्ताः ॥ ४।१।६० ॥

विचरन्ति किंनरीभिः सहेति शेषः । स्वनायिकासहितनायकान्तरदर्शनमुद्दीपनम् ॥ ४।१।६१ ॥

नलिनान्यत्र रक्तकमलानि ॥ ४।१।६२ ॥

नीलोत्पलैरासमन्ताद्युतः ॥ ४।१।६३ ॥

जले षट्पदाहतकेसरैर्जले भ्रमरपतितपुष्पधूलिभिरभिसंवृता व्याप्ता शोभते ॥ ४।१।६४ ॥

चित्रप्रस्थानि चित्रप्रदेशानि वनान्तराणि यस्याः सा ॥ ४।१।६५ ॥

पवनाहतवेगाभिः पवनाघातजनितवेगाभिः । अम्भसि पङ्कजानि विराजन्त इत्यन्वयः ॥ ४।१।६६ ॥

अपश्यतो मे । आत्मने इति शेषः । यद्वा कर्तुः शेषत्वविवक्षायां मे इति षष्ठी ॥ ४।१।६७ ॥

वामत्वं कौटिल्यं गतः । वियुक्तां दुर्लभामद्याप्राप्यां स्मारयिष्यति स्मारयतीत्यर्थः । चित्तवैकल्यबोधनद्वारान्यथाप्रयोगो विरहपरिपोषाय ॥ ४।१।६८ ॥

कामः कामकृततापः । भूयो ऽधिकम् ॥ ४।१।६९ ॥

रमणीयानि भवन्ति स्म ॥ ४।१।७० ॥

पद्मकोशस्य पलाशानि दलानि कामोद्दीपकान्यपि तन्नेत्रकोशाभ्यां तन्नेत्रपुटाभ्यां

सदृशानीति द्रुष्टुं दृष्टिर्मन्यत इत्यर्थः ॥ ४।१।७१ ॥

पद्मकेसरेत्यादिना शैत्यसौरभ्ये वृक्षान्तरेत्यादिना मान्द्यम् ॥ ४।१।७२७४ ॥

किंशुकैः प्रदीप्ता इवेत्यन्वयः ॥ ४।१।७५ ॥

पम्पातीररुहास्तत्तीरवृक्षाः संसिक्तास्तज्जलसेकेन वर्धिताः । मालती जातिः ॥ ४।१।७६ ॥

वासन्ती हेमपुष्पिका ॥ ४।१।७७ ॥

चिरिबिल्वो नक्तमालः ॥ ४।१।७८ ॥

पद्मका गन्धवृक्षविशेषाः । सिंहकेसरा पिञ्जरा यैस्ते ॥ ४।१।७९ ॥

चूर्णकाः शाल्मलीविशेषाः पारिभद्रको मन्दारः ॥ ४।१।८० ॥

मुचुकुन्दाः । “मुचिलिन्दाः” इति पाठान्तरम् ॥ ४।१।८१,८२ ॥

पुष्पिताः सन्तीति शेषः । तान्पश्येत्याह– पुष्पितानिति । समासोक्त्यलङ्कारः ॥ ४।१।८३ ॥

तानेवोपमामुखेनोपपादयति– वातेति ॥ ४।१।८४,८५ ॥

नैकरसास्वादसंमोदित इवानेकरसास्वादेन जातहर्ष इव ॥ ४।१।८६ ॥

मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन् । उत्प्रेक्षते इदं मृष्टमिति । मृष्टं मधुरम् ॥ ४।१।८७,८८ ॥

स्वयं निपतितैः कुसुमसमूहैरुपस्तीर्णेयं भूमिः शयनप्रस्तरैः शयनार्थतल्पप्रसरणैरिव सुखाकृता सुखकरी । “सुखप्रियादानुलोम्ये” इति डाच् ॥ ४।१।८९ ॥

विविधैस्तैः पुष्पैर्नगसानुषु विस्तीर्णाः पीतरक्ताभाः, अत एव विविधाः प्रस्तराः शय्याः कृता इत्युत्प्रेक्षा ॥ ४।१।९० ॥

हिमान्ते शिशिरान्ते । पुष्पमासे चैत्रे सङ्घर्षः स्पर्धा ॥ ४।१।९१ ॥

नगा वृक्षाः विटपाः शाखाः कुसुमयुक्तशाखावन्त इत्यर्थः ॥ ४।१।९२ ॥

उद्दीपयन्निव ममेति शेषः ॥ ४।१।९३ ॥

मन्दाकिन्यास्तत्सदृशपम्पायाः । अतिशयोक्तिरत्र । यत इदं मनोरममतो यज्जगति तस्या गुणा विख्याता एतत्स्थाने युक्तमित्यर्थः ॥ ४।१।९४ ॥

वसेमहि तया सहेति शेषः । शक्राय शक्रपदप्राप्तये ॥ ४।१।९५ ॥

उक्तमेवानुरागातिशयेन पुनराह नहीति । अन्येषु सुखान्तरेषु ॥ ४।१।९६,९७ ॥

इमां पम्पाम् । पुष्करैरासमन्ताद्युताम् ॥ ४।१।९८,९९ ॥

स्मृत्वा स्मारयित्वा दीपयन्तीवेत्यन्वयः ॥ ४।१।१०० ॥

विरहीकृतं विरहितं कृतम् । पश्येत्यनुकर्षः । सञ़्चरन्तः मृगीभिः सहिता मृगाः इति शेषः ॥ ४।१।१०१,१०२ ॥

स्वस्ति भवेदित्यस्यैव विवरणम्– जीवेयमिति । यदि सा मया सहैवंभूतं पद्मानां सौगन्धिकानां च गन्धवहं पवनं सेवेत तदा जीवेयमित्यन्वयः ॥ ४।१।१०३ ॥

पम्पावनवायुं ये नायिकया सह सेवन्ते ते धन्या इत्यर्थः ॥ ४।१।१०४ ॥

विवशा शत्रुवशत्वात् ॥ ४।१।१०५ ॥

पृष्टा सीता क्वेति येन तं किंनु कुशलं वक्ष्यामि ॥ ४।१।१०६ ॥

मन्दं मन्दभाग्यम् ॥ ४।१।१०७ ॥

धारये प्राणानिति शेषः ॥ ४।१।१०८ ॥

अञ्चिते पूजिते पद्मतुल्ये अक्षिणी यत्र तादृशम् ॥ ४।१।१०९ ॥

स्मितेनेषद्धास्येन विनोदवचनेनान्तरे मध्ये एव युतम्, न त्वोष्ठप्रदेशाद्बहिरिति पतिव्रतालक्षणसूचनम् । इदं पूर्ववर्णितमुखान्वयि । कश्चित्तु प्रसन्नहास्यविशेषेण युतमिति वाक्यविशेषणमाह । गुणवत्प्रसादवत् । मधुरमपरुषाक्षरम् ॥ ४।१।११० ॥

वने दुःखं प्राप्यापि नष्टदुःखेव ॥ ४।१।१११ ॥

क्व सा स्नुषा, कथं किंप्रकारेति च पृच्छन्तीं किं नु वक्ष्यामि । यथाजातं वक्ष्यामि वा ऽन्यथा वा । उभयमपि वक्तुं न शक्यत इत्यर्थः ॥ ४।१।११२,११३ ॥

अव्ययमनपायार्थम् ॥ ४।१।११४ ॥

संस्तम्भ शोकं निरुन्धीत्यर्थः । अकलुषात्मनामपीदृशाना शोकमनसां मतिर्मन्दा नेति न अपि तु मन्दैव ॥ ४।१।११५ ॥

अतः स्मृत्वेत्यादि । “संयोगा विप्रयोगान्ताः” इति न्यायेन प्रियविषये ऽवश्यंभावि वियोगदुःखं स्मृत्वा स्नेहं त्यज । विपक्षे बाधकमाह– अतिस्नेहेति । आर्द्रा जलसिक्ता ऽपि । एवं शान्तमपि चित्तमतिस्नेहसंबन्धेन तद्वियोगजशोकदीपेन दीप्येतैवेति भावः ॥ ४।१।११६ ॥

ततो ऽभ्यधिकं पातालादभ्यधिकं गुप्तदेशम् । न भविष्यति न जीविष्यतीत्यर्थः ॥ ४।१।११७ ॥

तावत्प्रथमम् । प्रवृत्तिर्वासवृत्तान्तः ॥ ४।१।११८ ॥

दितेरसुरमातुः ॥ ४।१।११९ ॥

स्वास्थ्यं धैर्यं स्वस्वभावरूपम् । नष्टः कार्यो ऽवश्यं सेव्यो ऽर्थो येषां तैः पुंभिः सो ऽर्थो ऽयत्ने यत्नाभावे सति नाधिगम्यते ॥ ४।१।१२० ॥

अतः– उत्साह इति । बलवान्कार्यसाधनसमर्थः ॥ ४।१।१२१ ॥

उत्साहमात्रं शत्रुसंहारे पौरुषम् ॥ ४।१।१२२ ॥

कामवृत्तत्वं कामपरतन्त्रत्वम् । शोकं पृष्ठतः संन्यस्य कामजशोकसेवने कामस्य वृद्धेस्तत्सेवनं पृष्ठतः कृत्वेत्यर्थः । महात्मानं रजस्तमोमलास्पृष्टचित्तं निरनिशयशौर्यधैर्यादिस्वभावचित्तं च कृतात्मानं श्रुतिस्मृत्यादिषु गुरुभिः शिक्षितस्वरूपं किं नावबुद्ध्यसे । यद्यपीश्वरस्य लोकवद्धर्माधर्माश्रयं चित्तं नास्ति तथापि मायिकं तदाश्रयं तदस्ति तत्स्वीकारे बाधकाभावात् ॥ ४।१।१२३ ॥

एवं द्वित्रिवचनमात्रेण शुद्धसत्त्वप्रकृतिकत्वादारोपितशोकादि सन्त्यज्य धैर्यमुपागमत् । मोहः कामजो मोहजश्च शोकः ॥ ४।१।१२४ ॥

अतिक्रामदत्यक्रामत् । पारिप्लवा वायुचञ्चलास्तीरद्रुमा यस्यां ताम् ॥ ४।१।१२५ ॥

विचार्य लक्ष्मणोक्तेर्युक्तत्वमिति शेषः ॥ ४।१।१२६ ॥

धर्मेण “संस्तम्भ राम” इत्यादिनीतिरूपधर्मबोधनेन । बलेन “गच्छति पातालम्” इत्यादित्वस्वलकथनेन च ॥ ४।१।१२७ ॥

एवं वृत्तमनूद्य वर्तिष्यमाणं दर्शयति ताविति । वितत्रसे वितत्रास । बाल्यानीतत्वशङ्कया त्रासः । इष्टमिष्टभोजनादिविषयचेष्टामपि नैव विचेष्ट च न चकार च । “विभ्रान्तमत्तस्य बभूव चित्तम्” इत्याधुनिकपाठे तस्य सुग्रीवस्य चित्तं तद्दर्शनेन विभ्रान्तिमत् भयवद्बभूवेत्यर्थः ॥ ४।१।१२८ ॥

उक्तमेव विवृणोति– स ताविति । भयभारभग्नो भयभारेण भग्नोत्साहः ॥ ४।१।१२९ ॥

तमाश्रामं मतङ्गशापाद्वालिना दुष्प्रवेशम्, अत एव शरण्यम् । सेवितान्तं सेवितमध्यं, सेवितप्रान्तं वा । तौ दृष्ट्वा त्रस्ता हरयो वालिप्रेरितबुद्ध्या भीता विजग्मुर्गताः ॥ ४।१।१३० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥ ४।१ ॥