०७५ राम-लक्ष्मणयोः पम्पादर्शनम्

दिवं त्विति ॥ ३।७५।१ ॥

महात्मनां प्रभावं शबुर्युक्तम् ॥ ३।७५।२,३ ॥

तेषां मुनीनाम् । सप्तानां समुद्राणां तीर्थेषु लोकोपकाराय तैः स्थापितेषु उपस्पृष्टं स्नातम् ॥ ३।७५।४ ॥

तेन कल्याणोपस्थानेन ॥ ३।७५।५ ॥

शुभं मित्रलाभादि ॥ ३।७५।६ ॥

अंशुमतः सूर्यस्य ॥ ३।७५।७ ॥

त्वरे त्वरामि ॥ ३।७५।८,९ ॥

ममापित्वरते पम्पादर्शने ॥ ३।७५।१०१३ ॥

पानीयवाहिनीं पानार्हातिमधुरसुशीतनिर्मलजलवाहिनीम् । अनेन पम्पानदीति लभ्यते । वाहिनीमित्यस्य धारिणीमित्यर्थो वा । मतङ्गसरसमित्यकारान्तः । तच्च पम्पायामेव प्रदेशभेधो गङ्गायां मणिकर्णिकेव ॥ ३।७५।१४१६ ॥

श्लक्ष्णा मृदुस्पर्शा ॥ ३।७५।१७१९ ॥

कुवलयोद्घाटैः कुवलयसमूहैः । कुथा गजास्तरणचित्रकम्बलः ॥ ३।७५।२० ॥

अरविन्दपद्मयो रक्तश्वेतविषयत्वेन भेदः ॥ ३।७५।२१ ॥

विललाप सीतावियोगादिति शेषः ॥ ३।७५।२२ ॥

शुक्रदुमो लोध्रः ॥ ३।७५।२३ ॥

भण्डीरो वटः । निचुलो वञ्जुलः । अतिमुक्तो माधवीलता ॥ ३।७५।२४ ॥

पूर्वोक्तः कबन्धोक्तः ॥ ३।७५।२५ ॥

तस्य प्रसिद्धतरस्य ऋक्षरजोनामकस्य पुत्रो हरिर्वानरः ॥ ३।७५।२६,२७ ॥

इत्युवाचान्तरा सीताशोकम् ॥ ३।७५।२८ ॥

उपसंहरति–इतीति । अनन्यचेतनो नास्त्यन्यत्र सीतायाः चेतनं चित्तं यस्य सः । नलिनीभिर्मनोग्मां पम्पां मतङ्गसरसः प्रदेशवर्तिनीं विवेशः ॥ ३।७५।२९ ॥

शुभदर्शं शुभदर्शनं काननं यस्यां तां पम्पां ददर्श सर्वत इति शेषः । विवेश च मतङ्गसरसावच्छेदेनेति बोध्यम् ॥ ३।७५।३० ॥

विराधादिकबन्धान्तान्हत्वा स्पपदमादिशत् ।

विचरन्दण्डकारण्ये भवराण्ये स मे गतिः ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥ ३।७५ ॥

॥ इति अरण्यकाण्डम् समाप्तः ॥