०७४ शबरीकथा

यः कबन्धेन कथितस्
तं मार्गं गृहीत्वा
पम्पाम् उद्दिश्य प्रतीचीं दिशम् आतस्थतुः प्रतस्थतुः ॥ ३।७४।१ ॥

आचितानेकान् विद्यमानान् अनेकान् माधुर्येण क्षौद्रं मधु तत्तुल्य-पुष्प-फलान् ॥ ३।७४।२ ॥

उपतस्थतुः प्रापतुः ॥ ३।७४।३,४ ॥

तं शबर्याश्रमम् ॥ ३।७४।५ ॥

सिद्धा सिद्ध्योगा ॥ ३।७४।६,७ ॥

विघ्नास्तपोविघ्नाः कामादयः कोपो नियतो निगृहीतः आहारश्च नियत इत्यनुकर्षः ॥ ३।७४।८,९ ॥

प्रत्यवस्थिता अभिमुखं स्थिता ॥ ३।७४।१० ॥

अद्य प्राप्ता तपःसिद्धरित्यादिः शबर्या उपचारवत्परमार्थदशावादः ॥ ३।७४।११ ॥

स्वर्गो ब्रह्मलोकः । देववरे सर्वान्तरात्मनि ॥ ३।७४।१२ ॥

अक्षयाँल्लोकानपुनरावृत्तिकान्ब्रह्मलोकान् ॥ ३।७४।१३ ॥

चित्रकूटमिति । तदासक्तिवैभवामात्रादित्यर्थः । इतो ऽस्मादाश्रमात् ॥ ३।७४।१४ ॥

आगमिष्यति अनुग्रहायेति शेषः ॥ ३।७४।१५ ॥

ते त्वया तं दृष्ट्वा ऽस्मत्सेवाफलभूतं तद्दर्शनं प्राप्य । अक्षयाँल्लोकान्ब्रह्मलोकम् अवयवाभिप्रायेण गुणाभिप्रायेण वा बहुवचनम् ॥ ३।७४।१६ ॥

एवमुक्ताहं यतः, अतो मया स्वदर्थं वन्यं सम्यक्परोक्ष्य माधुर्ययुतं संचितमित्यर्थः । तदुक्तं पाद्मेशबरी प्रस्तुस्य–ऽ प्रत्युद्गम्य प्रणम्याथ निवेश्य कुशविष्टरे । पादप्रक्षालनं कृत्वा तत्तोयं पापनाशनम् ॥ शिरसा धार्य पीत्वा च वन्यैः पुष्पैरथार्चयत् । फलानि च सुपक्वानि मूलानि मधुराणि च ॥ स्वयमास्वाद्य माधुर्यं परीक्ष्य परिभक्ष्य च । पश्चान्निवेदयामास राघवाभ्यां दृढव्रता ॥ फलान्यास्वाद्य काकुत्स्थस्तलस्यै मुक्तिं परां ददौऽ इति ॥ ३।७४।१७,१८ ॥

विज्ञाने आगतानागतज्ञाने अबहिष्कृतां तादृशज्ञानवतीमित्यर्थ इति तीर्थः । विज्ञाने ब्रह्मविद्यायां मैत्रेय्यादिवदबहिष्कृतां तत्राप्यधिकारिणीमित्यर्थ इति कतकः । विशिष्टं ज्ञानं येषां तेषां संबन्धो यस्यास्तत्संबोधनं हे विज्ञाने इति संबोध्य । तां नित्यमबहिष्कृतां भोजनादिव्यवहारादिति शेषः । तद्दत्तमाहाराद्यङ्गीकृत्येति च शेष इत्यन्ये । किमाह तदाह–दनोरिति । ते महात्मनां त्वदाचार्याणां दनोः सकाशाच्छ्रुतं प्रत्यक्षं कर्तुमिच्छामीति शेषः । संद्रष्टुं यदि मन्यसे संदर्शयितुं योग्यं यदि मन्यस इत्यर्थः ॥ ३।७४।१९,२० ॥

मेघो वर्पुको यो घनस्तद्वन्नीलम् ऽमिह सेचनेऽ बाहुलकाद्धत्वम् ॥ ३।७४।२१ ॥

मतङ्गवनं तत्तपोमहिम्ना विश्रुतं प्रसिद्धं ते प्रसिद्धाः । मन्त्रपूजितं मन्त्रस्य गायत्र्या जपेन पूजितमतिशुद्धं नीडं देहपञ्जरम् । ऽतीर्थम्ऽ इति पाठे ऽपि स एवार्थः । मन्त्रवत्तद्धोममन्त्रवत् जुहवांचक्रिरे हुतवन्तः । यद्वा तीर्थमध्वरं जुहवाञ्चक्रिरे हुतवन्तः । यद्वा तीर्थमध्वरं जुहवाञ्चकिरे कृतवन्त इत्यर्थः ॥ ३।७४।२२ ॥

प्रत्यक्स्थली तन्नाम्नी वेदी यत्र यस्यां सुसत्कृतात्यन्तं पूज्या मे मत्संबन्धिनस्ते गुरवः श्रमादुद्वेपिभिः कम्पवद्भिर्वृद्धतरत्वात्करैः पुष्पोपहारं देवताभ्यः कर्वन्ति ॥ ३।७४।२३ ॥

तेषां मदाचार्याणां प्रभावेणेयं वेदिस्तत्पूजाकाल इवाद्यापि सर्वा दिशो द्योतयन्त्यतुलप्रभा दृश्यते पश्य ॥ ३।७४।२४ ॥

आश्चर्यान्तरं दर्शयति–अशक्नुवद्भिरिति । सागरादितीर्थं गन्तुमशक्नुवद्भिरित्यर्थः । तत्र हेतुः–उपवासश्रमालसैः कृच्छ्रादिशास्त्रीयोपवासैर्जनितेन श्रमेणालसैः ईदृशैस्तैश्चिन्तितेन तेषां ध्यानेन तदभिषेकतीर्थे आगतान्सप्त सागरान्समेतान्पश्य ॥ ३।७४।२५ ॥

आश्चर्यान्तरमाह–कृताभिषेकैरिति । न विशुष्यन्ति तीर्थवैभवात्तत्तपोवैभवाच्चेति भावः ॥ ३।७४।२६ ॥

आश्चर्यान्तरमाह–देवेति । कृतानि दत्तान्यतिमृदुकुवलयसहितानि पुष्पाणि नाद्यापि म्लानत्वं यान्ति तत्तपःप्रभावादिति शेषः ॥ ३।७४।२७ ॥

उपसंहरति–कृत्स्नामिति । दृष्टं त्वया मया दर्शितं श्रुतं त्वया मया श्रावितं अभ्यनुज्ञाता त्वयेति शेषः । तत्तस्मादेतत्कलेवरं त्यक्ष्यामीतीच्छामि ॥ ३।७४।२८ ॥

येषां मुनीनामयमाश्रमो येषां चाहंपरिचारिणी तेषां भावितात्मनां सदानुसंहितपरमात्मनां मुनीनां समीपं गन्तुमहमिच्छामीति चाब्रवीत् ॥ ३।७४।२९ ॥

श्रुतार्थमुद्दिश्येति शेषः ॥ ३।७४।३० ॥

संशितव्रतां तीक्ष्णव्रताम् ॥ ३।७४।३१ ॥

आत्मानं हुताशने हुत्वा स्वाचार्योपदिष्टमार्गेणेत्यर्थः ॥ ३।७४।३२ ॥

स्वर्गं ब्रह्मलोकमेव ॥ ३।७४।३३,३४ ॥

यत्र ब्रह्मलोके तत्पुण्यस्थानं शबर्यात्मसमाधिना जगाम ब्रह्मसमाधिनेत्यर्थः ॥ ३।७४।३५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥ ३।७४ ॥