परिमार्गणे उपायं दर्शयित्वा पुनर्वाक्यमब्रवीत् ॥ ३।७३।१ ॥
यत्र प्रकाशन्ते तत्र गन्तुमेष शिवो ऽदुष्टः पन्थः ॥ ३।७३।२ ॥
एते के तत्राहजम्वृ इत्यादि ॥ ३।७३।३ ॥
धन्वना धवाः । नागवृक्षे नागकेसरः ॥ ३।७३।४ ॥
अग्निमुख्यो ऽरुष्करः । रक्ता रक्तचन्दनाः । पारिभद्रको मन्दारः । बलात्तान्वृक्षान्भूमौ पातयित्वा शाखां धृत्वा भूमिपर्यन्तं संनाम्य ॥ ३।७३।५,६ ॥
अन्यद्गमिष्यथेति शेषः । उत्तरकुरुवच्च ॥ ३।७३।७ ॥
विटपाः शाखाः ॥ ३।७३।८,९ ॥
चङुमन्तौ चङ्कम्यमाणौ ॥ ३।७३।१० ॥
तीर्थमवतारमार्गः । अविभ्रंशां शैवलासंबन्धेन पादभ्रंशाहेतुम् ॥ ३।७३।११ ॥
संजातवालूकामिति दीर्घ आर्षः । प्लवा मण्डूकाः ॥ ३।७३।१२ ॥
वधस्याकोविदा वधमजानानाः ॥ ३।७३।१३ ॥
द्विजान्पक्षिणः । रोहिता मत्स्यविशेषाः । चक्रतुण्डा नलमीनाश्च त एव ॥ ३।७३।१४ ॥
अयस्तप्ताञ्शूलाग्रे पक्वान् । अकुशा अनेके च कण्टका येषां विद्यन्ते तान् ॥ ३।७३।१५ ॥
पुष्पसंचये पद्मादिपुष्पसमूहे वर्तमानम् ॥ ३।७३।१६ ॥
अत एव पद्मगन्धि । अक्लिष्टं मलादिकश्मलहीनम् ॥ ३।७३।१७ ॥
पुष्करपर्णेन पद्मपर्णेनोद्धृत्य मत्स्यान्खादतस्ते जलं पाययिष्यतीति संबन्धः । गिरिगुहासु शय्या ऽ ऽसनं येषां तान् ॥ ३।७३।१८,१९ ॥
पीताञ्जलपानं कृतवतः । विटपी विटपिनः आर्षमेकत्वं प्रथमान्तत्वम् । माल्यधारिणः पुष्पवतस्तान्दृष्ट्वा शीतोदकं च दृष्ट्वा शोकं हास्यसि ॥ ३।७३।२० ॥
अन्यान्यपि शोकहन्तृणि दर्शनीयान्याहसुमनोभिरिति ॥ ३।७३।२१ ॥
आरोपयिता गृहीत्वा धारयिता । महावनत्वान्मनुष्यसंचाराभावेनेत्यर्थः ॥ ३।७३।२२ ॥
अम्लानाशीर्णत्वे हेतुः–मतङ्गेत्यादि ॥ ३।७३।२३ ॥
भारेण तप्तानां गुर्वर्थे आह्रियमाणवन्यभारेण श्रान्तानाम् ॥ ३।७३।२४ ॥
तानि माल्यानीति विधेयापेक्षं क्लीबत्वम् ॥ ३।७३।२५ ॥
शबरी नाम शबरीत्याख्या श्रमणी तापसी ॥ ३।७३।२६ ॥
त्वां दृष्ट्वा स्वर्गलोकं गमिष्यति । पूर्वार्जिततपसस्त्वद्दर्शनस्य च माहात्म्यात्स्वर्गलोको ऽत्र ब्रह्मलोक इति वदन्ति । ऽदेवलोकम्ऽ इति पाठे ऽपि स एवार्थः ॥ ३।७३।२७ ॥
तदाश्रमस्थानं शबरीवासरूपं मतङ्गाश्रमस्थानम् गुह्यमाश्रमेषु गुह्यम् ॥ ३।७३।२८ ॥
नागा गजाः । तत्र तदाश्रमे तस्मिन्मतङ्गाश्रमे इत्यर्थः । यद्यपि तत्र विविधा नागाः सन्ति, तथापि मतङ्गस्य विधानात्प्रभावात्तदेकदेशमतङ्गाश्रमे न संचार इत्यर्थः ॥ ३।७३।२९ ॥
अतस्तच्च वनं मतङ्गवनमित्येव विश्रुतम् । देवारण्यं नन्दनादि तत्सदृशम् ॥ ३।७३।३० ॥
पम्पायाः पम्पातीरवर्तिमतङ्गाश्रमादित्यर्थः ॥ ३।७३।३१ ॥
सुदुःखारोहणो ऽत्युच्चत्वात् । हेत्वन्तरमप्याहशिशुभिर्नागैः सर्पैरभिरक्षितः । उदारोदाता । ब्रह्मणा पूर्वकाले सृष्टिकाले निर्मितो विद्यौदार्यतपःप्राधान्येन निर्मितः ॥ ३।७३।३२ ॥
औदार्यमेव दर्शयतिशयान इति ॥ ३।७३।३३ ॥
अन्यमप्यतिशयमाहय इति । तत्रैव पर्वतमूर्ध्न्येव ॥ ३।७३।३४ ॥
शिशुनागानां बालगजानाम् ॥ ३।७३।३५ ॥
रुधिरधाराभिरीषद्रक्तमदधाराभिः सक्ताः संबद्धा संहत्य संभूय संचरन्ति पृथक्कीर्मश्चरन्ति ॥ ३।७३।३६,३७ ॥
नीलमणिवत्कोमलकान्तीन् ॥ ३।७३।३८ ॥
अपेतान्मनुष्यं दृष्ट्वा पलयितान् अजयान्प्राणिजयहीनान् अनेनाक्रूरता । अथासाधारणं चिह्नमाह–रामेति ॥ ३।७३।३९ ॥
शिलापिधानेति गुहानामेति तीर्थः विशेषणमित्यन्ये ॥ ३।७३।४० ॥
तस्यां गुहायाम् ॥ ३।७३।४१ ॥
कदाचित्पर्वतस्य शिखरे ऽपि तिष्ठति अपिधानश्च ॥ ३।७३।४२,४३ ॥
प्रस्थितावावां सुग्रीवसमीपं प्रस्थितौ त्वं व्रजस्व पुण्यलोकमिति शेषः । अन्तिके समीपे वर्तमानं देवभूतं तावूचतुः । स ताभ्यां कृतानुमतिकः कबन्धः ॥ ३।७३।४४,४५ ॥
उक्तार्थोपसंहारःस तदिति । निदर्शयन् मार्गादिकमिति शेषः, किंचिद्दूरं गत्वा पुना राममवेक्ष्य सख्यं कुरुष्वेत्यवाच ॥ ३।७३।४६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥ ३।७३ ॥