०७२ सीताप्राप्त्युपायकथनम्

प्रदरं गर्तमासाद्य कबन्धं प्रापय्य सर्वतः काष्ठानि दत्त्वा तत्राग्निं ददतुः ॥ ३।७२।१,२ ॥

मेदसा पूर्णस्येति शेषः । मेदःपूर्णत्वान्मन्ददाहः दहतादहत् ॥ ३।७२।३ ॥

अरजे निर्मले ॥ ३।७२।४ ॥

चिताया उत्पपात । भास्वरः कान्तिमान् । सर्वेषु प्रत्यङ्गेषु करचरणादिषु भूषणानि यस्य ॥ ३।७२।५ ॥

हंसयुक्ते रामकृतसंस्कारप्रभावेण पूर्वतपःप्रभावेम चैवंभूतं विमानं प्राप्तः ॥ ३।७२।६ ॥

तत्त्वेन परमार्थत उच्यमानमिति शेषः ॥ ३।७२।७ ॥

अथ प्रतिज्ञातुमुपायमाहराम षडिति । षड्युक्तयः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्या लोके सन्ति । याभिर्युक्तिभिः सर्वं वस्तुजातं राज्ञा विमृश्यते विमृश्य प्राप्यते । तत्र दशान्तेन दुर्दशापरिपाककालेन यः परिमृष्टः स दशाभागेन दशाभागं दुर्दशापरिपाकावस्थां प्राप्तेन सेव्यत इति नीतिः । तस्मात्त्वयान्त्य उपायः समाश्रयः कार्य इत्यर्थः । ऽपरिभ्रष्टःऽ इति पाठे दशान्तेन दुर्दशापरिपाककच्छेनार्थाद्भंशित इत्यर्थः ॥ ३।७२।८ ॥

नन्वहं दशाभागं प्राप्त इति कथं त्वया निर्णीतं तत्राहदशाभागगत इति । यतस्त्वं सलक्ष्मण एव हीनः राज्यादिनेत्यर्थः । यत्कृते यदृशाभागनिमित्तं त्वया दारप्रधर्षणं प्राप्तं तेन त्वं ज्ञायते दुर्दशाभोगकालं प्राप्त इति ॥ ३।७२।९ ॥

यदेवमतस्त्वया स सुहृदृशाभागप्राप्तः सुहृत्कार्यः । तत्करणावश्यकत्वे हेतुमाहअकृत्वेति ॥ ३।७२।१० ॥

तादृशः सुहृत्क इत्यत आहश्रूयतामिति ॥ ३।७२।११ ॥

पम्पापर्यन्तेन पम्पाप्रदेशेन शोभिते । चतुर्भिः मन्त्रिभिरिति शेषः ॥ ३।७२।१२ ॥

तेजोवान्प्रतापी । अमितप्रभो ऽपरिच्छिन्नकान्तिः ॥ ३।७२।१३ ॥

द्युतिमान् । तद्गुणानां वास्तवत्वबोधनायोक्तस्यापि कस्यचित्पुनः कथनम् ॥ ३।७२।१४ ॥

रे राम ते भविष्यति । हिर्निश्चये ॥ ३।७२।१५ ॥

यद्भवितव्यं राज्यभ्रंशदारापहारादिदुःखं तदन्यथा कर्तु केनापि न शक्यमिति । अतः शोकेन मनो मा कृथा इति शेषः । ते इत्यादीनां पुनरुक्तस्तु रामदुःखेन तस्यापि दुःखितचित्तत्वान्न दोषाय ॥ ३।७२।१६ ॥

तं गच्छन्तं वयस्यं कुर्वित्यन्वयः ॥ ३।७२।१७ ॥

परस्परं द्रोहपरिहारायाग्निसाक्षिकं सख्यं कार्यमित्याहअद्रोहायेति ॥ ३।७२।१८ ॥

तस्य तिर्यक्त्वात्तदवमतिः कुतो न कार्येत्यत्र हेतुमाहकृतज्ञ इति । ननु स किमर्थं मया सह मैत्रीं कुर्यादत आह–सहायार्थीति । नन्वावाभ्यामशक्ताभ्यां कस्तस्य सहायार्थ इत्यत आह–शक्तौ हीति । तस्य चिकीर्षितं कार्यं कर्तुं युवां शक्तावित्यन्वयः ॥ ३।७२।१९ ॥

ननु तस्य तिरश्चो ऽस्मत्साहाय्ये का शक्तिस्तत्राह–कृतार्थ इति । स कृतार्थस्त्वया कृतप्रयोजनः करिष्यमाणप्रयोजनो ऽपि तव कार्यं सीतान्वेषणादिरूपं स करिष्यत्येव । तथासामर्थ्ये प्रयोजकं तस्य कुलीनत्वमाह–स ऋक्षेति । पुत्रः क्षेत्रज इत्यर्थः ॥ ३।७२।२० ॥

तदेवाह–भास्करस्यौरस इति । कृतकिल्बिषः कृतवैरः, अत एव वालिनः शङ्कितो ऽटति तमग्निनिधावायुधं संनिधाय संस्थाप्य तेन सत्येन च तं कपिं वयस्यं कुरु । हि यतः स रक्षसां स्थानानि सर्वाणि जानाति ॥ ३।७२।२१२४ ॥

अधिगमिष्यति ज्ञास्यति ॥ ३।७२।२५ ॥

रावणालये शोचन्तीमिति संबन्धः । अनेन ज्ञायते सर्वदिक्षु रावणालयाः सन्ति । तत्र किंदिक्स्थरावणालये इति ज्ञातु सर्वदिग्विचयनम् ॥ ३।७२।२६ ॥

अनिन्दितां निर्मलाम् अनेन सीताशुद्धत्वं ज्ञापितम् ॥ ३।७२।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्विसप्ततितमः सर्गः ॥ ३।७२ ॥