०७१ कबन्धेन स्ववृत्तान्तकथनम्

अचिन्त्यमचिन्त्यवैभवम् ॥ ३।७१।१ ॥

तदेवाह–यथेति । इदं रुपं रक्षोरूपं वैभवेन कृत्वा ॥ ३।७१।२ ॥

ऋषींस्त्रासयामीत्यन्वयः ॥ ३।७१।३ ॥

एवमुक्तः ॥ ३।७१।४ ॥

एवंशब्दार्थः–एतदेवेति । एतदेव रूपं नृशंसं क्रूरं विगर्हितं चास्त्वित्यवदत् ॥ ३।७१।५ ॥

अभिशापकृतस्य मत्कर्तृकत्वत्प्रधर्षणे त्वया कृतस्यास्य शापस्यान्तो भवत्विति याचितः । तेनैवं याचितेन । तद्वच आह–यदेति । तदा स्वं विपुलमुत्तमं श्रिया विराजितं रूपं प्राप्स्यस इति तेन भाषितमिति संबन्धः । एवंवृत्तं मां दनोः पुत्रं विद्धीत्यन्वयः । ऽश्रिया विराजितं पुत्रं दनुं त्वं विद्धि लक्ष्मणऽ इति पाठान्तरम् तदा श्रियाः श्रीनाम्नो दानवस्य पुत्रं दनुनामानमित्यर्थः ॥ ३।७१।६,७ ॥

ननु कुत्सितरूपत्वे शापे ऽपि कथं कबन्धरूपताप्राप्तिस्तत्राह–इन्द्रेति । तच्छापबीजमाह–अहमिति । ऋषिशापतो घोररूपप्राप्त्यनन्तरमुग्रेण तपसा पितामहमतोषयं स्वकुलारातीन्द्रादिभयेनेति शेषः ॥ ३।७१।८ ॥

विभ्रमो गर्वः । तमेवाह–दीर्घमिति ॥ ३।७१।९ ॥

शतपर्वणा शतधारेण ॥ ३।७१।१० ॥

सक्थिनी नाभ्यधोभागोपलक्षणम् । शरीरे शरीरमध्यस्थ उदरभागे । एवंभूतेनोर्ध्वाधरव्यवहाररहितेन मया मरणं याच्यमानो ऽपि तन्नाकरोत् ॥ ३।७१।११ ॥

किमिति नाकरोत्तत्राहपितामहति । तद्वचो दीर्घायुर्दानरूपम् ॥ ३।७१।१२ ॥

वज्रिणा त्वया ऽभिहतो जीवितुं कथं शक्त इत्यन्वयः । एवमुक्तः अनाहारस्याक्रियस्य कथं जीवनमित्युक्तः ॥ ३।७१।१३ ॥

वनेचरान्वने संचारवतः ॥ ३।७१।१४१६ ॥

सर्वस्य ग्रहणं साधुरोचये न किंचिदप्यभक्ष्यबुद्ध्या त्यजामीत्यर्थः । ऋषेरिन्द्रस्य च वाक्यविश्वासादवश्यं रामो मम हस्ते ग्रहणमेष्यतीति मन्ये मन्यमानस्तिष्ठामि ॥ ३।७१।१७ ॥

मम देहन्यासे देहत्यागे कृतश्रमः कृतयत्नो रामो मम हस्ते ग्रहणमेष्यतीतीमां बुद्धिं पुरस्कृत्य सर्वस्य ग्रहणं साधु रोचये । अयमेव रामो भवेदिति बुद्ध्याकिमपि न त्यजामीत्याशयः ॥ ३।७१।१८ ॥

सर्वथा दाहोत्तरं तव बुद्धिं मित्रं चोपदेक्ष्यामि ॥ ३।७१।१९ ॥

दनुना दनुनाम्ना ॥ ३।७१।२० ॥

वह्निसंस्कारं करिष्यामि मम साहाय्यं कुर्वित्याशयेनाह–इदमिति ॥ ३।७१।२१ ॥

यथासुखं हृतेत्यन्वयः । नाममात्रम् आप्तस्य जटायोर्वाक्यादिति भावः ॥ ३।७१।२२,२३ ॥

उपकारेम परोपकारेम वर्ततामस्माकं सदृशमुचितं कारुण्यं सीताहर्तृदेशादिकथनरूपमुपकारं कर्तुमर्हसि । दाहविषये त्वया चिन्ता न कार्येत्याह–काष्ठानीति ॥ ३।७१।२४ ॥

कल्पिते इहैव कृते । येन कर्त्रा । यत्र देशे ॥ ३।७१।२५ ॥

कल्याणं तत्त्वाख्यानरूपम् । दाह एव मे दिव्यज्ञानसाधनं तत्कुरु ततः परं सर्वं वक्ष्यामीत्याह–एवमिति ॥ ३।७१।२६ ॥

कुशलो वक्ता वक्तृताचातुर्यवान् । वक्तारं प्रशस्तवक्तारम् ॥ ३।७१।२७ ॥

यस्ताम् सखेति शेषः । तत्परं दाहात्परम् ॥ ३।७१।२८,२९ ॥

विज्ञानमतीन्द्रियविषयम् । स्वकृतेनानुचितकर्मणा ॥ ३।७१।३०३२ ॥

तेन यो राक्षसं ज्ञास्यति तेन न्याय्यवृत्तेन नीतिमच्चरित्रेण ॥ ३।७१।३३ ॥

कारणान्तरे कस्मिंश्चिन्निमित्ते जाते सतीत्यर्थः ॥ ३।७१।३४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकसप्ततितमः सर्गः ॥ ३।७१ ॥