बाहुपाशपरिक्षिप्तौ बाहुभ्यां पाशाकारेण परितो व्याप्तौ ॥ ३।७०।१ ॥
क्षुधार्तं मां दृष्ट्वा भीतौ नु किं तिष्ठतम् । यतो मे आहारार्थं संदिष्टौ, अतो न जीवनसंभावनेत्यर्थः ॥ ३।७०।२,३ ॥
पुरा आदत्ते आदास्यतीत्यर्थः ॥ ३।७०।४ ॥
भुजमात्रेण विक्रमो यस्य न त्वायुधेनेत्यर्थः । अतिजितं सर्वथा पराजितम् ॥ ३।७०।५ ॥
अस्य बाहुच्छेद एव युक्तः, न तु प्राणवियोजनमित्याहनिश्चेष्टानामिति । शस्त्रादिभिर्विक्रमहीनानाम् जगतीपतेः क्षत्रियस्य क्रतुमध्यं प्राप्तानां पशूनां वध इव स यथा स्वर्गफलदो ऽपि शास्त्रविहितो ऽपि कुत्सितः साङ्ख्यपातञ्जलाद्युक्तरीत्या ऽधर्मजनकत्वात् लोकदृष्ट्या च कुत्सितः । एतेन तद्वधस्यापीपत्पापफलदता सूचिता । केचित्तु क्रतुमध्यापनीतानाम्ऽ इति पाठं श्रद्धाजाड्येन कल्पयित्वा क्रतुमध्यादन्यत्र नीतानां वधो यथा कुत्सित इति व्यचक्षते ॥ ३।७०।६ ॥
तयोरेतत्संजल्पितं श्रुत्वेति संबन्धः । भक्षयितुमारभत् हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ३।७०।७ ॥
सुसंहृष्टौ कदलीकाण्डच्छेदेनेव तच्छेदेन हस्तसुखलाभात् ॥ ३।७०।८ ॥
दक्षिणः समर्थो दक्षिणपार्श्वस्थो वा ॥ ३।७०।९ ॥
गां भूमिम् ॥ ३।७०।१० ॥
कौ युवामिति पप्रच्छ पूर्वमप्राप्तोत्तरत्वात्पुनः प्रश्नः ॥ ३।७०।११,१२ ॥
इक्ष्वाकुदायादो दशरथपुत्रः ॥ ३।७०।१३,१४ ॥
यामिच्छन्तौ यामन्वेषयन्तौ ॥ ३।७०।१५ ॥
विचेष्टसे चेष्टमानस्तिष्ठसीत्यर्थः ॥ ३।७०।१६ ॥
प्रीतः शापमोक्षकाल प्रत्यभिज्ञानात् । तदिन्द्रवचनं वक्ष्यमाणम् ॥ ३।७०।१७ ॥
बाह्वोर्बन्धनं ययोरं सदेशयोस्तौ बाहुबन्धनावसंदेशौ ॥ ३।७०।१८ ॥
यथाविनयाद्याद्गशाविनयात्प्राप्तं तच्छृण्वित्यन्वयः ॥ ३।७०।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्े सप्ततितमः सर्गः ॥ ३।७० ॥