०६९ अयोमुख्याः कर्णादिछेदः

पश्चिमामित्यत्रोक्तेरुत्तरश्लोके दक्षिणामित्युक्तेर्नैऋ़तीं जग्मतुरिति लभ्यते ॥ ३।६९।१ ॥

अविप्रहतं जनाक्षुण्णम् ॥ ३।६९।२ ॥

गुल्मादिभिः प्रवेष्टितम्, अत एव सर्वत आवृतम्, अत एव दुर्गं दुष्प्रवेशं गहनं वनरूपं पन्थानं प्रतिपेदतुरित्यन्वयः ॥ ३।६९।३ ॥

वेगेनातिक्रम्य चलित्वा तन्महारण्यं व्यतियातौ व्यतिक्रम्य गतौ ॥ ३।६९।४ ॥

गम्य गत्वा गहनं दुष्प्रवेशम् । क्रौञ्चारण्यं क्रौञ्चारण्याख्यं गहनं वनमिति वा ॥ ३।६९।५ ॥

अनेकमेघानां घनः समूहस्तत्प्रख्यं तद्वच्छ्यामम् । सर्वतः प्रहृष्टमिव पुष्पविकासादिना तद्गतजन्तुहर्षेण वा तस्य प्रहृष्टत्वव्यपदेशः ॥ ३।६९।६,७ ॥

क्रौञ्चारण्यमतिक्रम्य तद्वनात्पूर्वेण त्रिक्रोशं गत्वान्तरे मध्येमार्गं मतङ्गाश्रमं ददृशतुः । अथ घोरत्वादिविशेषणं तद्वनं मतङ्गाश्रमवनं दृष्ट्वा तत उच्यमानविशेषणां तत्र गिरौ दरीं ददृशाते ॥ ३।६९।८१० ॥

तस्याविदूर इति संधिरार्षः तद्दरीसमीपे इत्यर्थः ॥ ३।६९।११ ॥

बीभत्सां जुगुप्सताम् । परुषत्वचं कर्कशत्वचम् । करालीं तुङ्गशरीराम् ऽकरालो भीषणे तुङ्गेऽ ॥ ३।६९।१२ ॥

विकटामतिस्थूलाकारां तत्र तत्रास्थाने ऽपि निम्नोन्नतां वा ॥ ३।६९।१३ ॥

भ्रातू रामस्याग्रतो व्रजन्तम् । एहि रंस्यावहेत्युक्त्वेत्यत्र इकारलोप आर्षः । समालम्भत गृहीतवती ॥ ३।६९।१४ ॥

उपगुह्यालिङ्ग्य । अयोमुखीत्यन्वर्थं नाम । अहं ते तव लाभो निध्यादिवल्लाभरूपास्मि, त्वं च मे, प्रियो भर्तासि ॥ ३।६९।१५ ॥

आयुश्चिरं चिरमायुः ॥ ३।६९।१६ ॥

कर्णनासस्तनमिति समाहारद्वन्द्वः ॥ ३।६९।१७ ॥

कर्णनासे इति सप्तमी ॥ ३।६९।१८ ॥

तस्यां गतायां पश्चाद्भजन्तौ गहनं दुष्प्रवेशं वनमासेदतुः प्रापतुः ॥ ३।६९।१९,२० ॥

बाहुर्वामः । अनिष्टानि तत्सूचकानि ॥ ३।६९।२१ ॥

सज्जीभव यत्तो भव । संभ्रमं भयम् ॥ ३।६९।२२ ॥

ततः कंचिच्छकुनमप्याहएष इति । वञ्चुलकः कण्ठवालः । ऽवञ्जुलकःऽ इत्यपि पाठान्तरम् । अनेन युद्धमवश्यंभावि जयश्चेत्युभयं सूचितम् ॥ ३।६९।२३ ॥

अन्वेषतोः सीतामिति शेषः । ओजसा सामर्थ्येन ॥ ३।६९।२४ ॥

तद्गहनं वनमत्यन्तं मातरिश्वना संवेष्टितं व्याप्तमिव जातम् । ततस्तस्य वनस्य मध्ये शब्दो ऽभवत् ॥ ३।६९।२५ ॥

तं शब्दं काङ्क्षमाणः तदुत्पत्तिनिमित्तं काङ्क्षमाणः ॥ ३।६९।२६ ॥

आसेदतुर्ददृशतुः । विवृद्धं विवृद्धाकारम् अशिरोग्नीवमदृश्यमानशिरोग्रीवम् अत एव कबन्धमन्वर्थतन्नामक्रम् उदरेमुखम् “अमूर्धमस्तकात्” इत्यलुक् ॥ ३।६९।२७ ॥

निशितैरित्यस्य विवरणम्–तीक्ष्णैरिति । उपलक्षितमिति शेषः । ऽरोमभिर्निबिडैस्तीक्ष्णैःऽ इति क्वचित्पाठः ॥ ३।६९।२८ ॥

उच्यमानविशेषणेन ललाटस्थेनैकेन नयनेनोरःप्रदेशान्तर्गतशिरस्त्वादुरस्युरःप्रदेशे ऽन्तरुपलभ्यमानेन नयनेनोपलक्षितं मुखं लेलिहानम् । महापक्ष्मेणेत्यार्षम् ॥ ३।६९।२९,३० ॥

विकुर्वाणं विक्षिपन्तम् ॥ ३।६९।३१ ॥

आकर्षन्तमिष्टान्मृगानाभिमुख्येन कर्षन्तम् अनिष्टान्मृगान्मुञ्चन्तम् ॥ ३।६९।३२ ॥

प्रपन्नयोः पन्थानमिति शेषः । आवृत्य स्थितं तं ज्ञात्वा तद्भुजवेष्टनं समतिक्रम्य दूरे स्थितौ तं क्रोशमात्रं ददर्शतुः ॥ ३।६९।३३ ॥

भुजाभ्यां जन्तून्संवृणोतीति भुजसंवृतम् । संस्थानाद्देहस्थित्याशिरस्कत्वलक्षणकबन्धवत्स्थितम् ॥ ३।६९।३४ ॥

सहितौ नैकमपि सुक्त्वेत्यर्थः ॥ ३।६९।३५ ॥

तिग्मतेजौ तीक्ष्णतेजसौ तादृशवेषधरावित्यर्थः । विवशं प्राप्तौ बलात्कर्षणं प्राप्तौ ॥ ३।६९।३६ ॥

तत्र तस्यामवस्थायाम् अनाश्रयात् धैर्यस्येति शेषः धैर्यानालम्बनादित्यर्थः । तत्र हेतुर्बाल्यं बालबुद्धित्वं शुद्धसत्त्वाप्रधानत्वम् । ऽअनाश्रयत्वात्ऽ इति पाठे आश्रयभूतस्य रामस्यापि कबन्धभूजावृतत्वादिति भावः ॥ ३।६९।३७,३८ ॥

निर्युक्तो निर्योजितरक्षोबलिः संस्त्वं किंचित्स्ववशमात्मानं परिमुच्यस्व पलायनेनेति शेषः । तस्यैव विवरणमुत्तरार्धम्मां हीति । भूतबलिम् महाभूताकाररक्षसे बलिमित्यर्थः ॥ ३।६९।३९ ॥

अधिगन्ता प्राप्ता ॥ ३।६९।४०,४१ ॥

एतस्मिन्नन्तरं इति । लक्ष्मणविषादीनवृत्तिफलकरामाश्वासनसमये इति शेषः ॥ ३।६९।४२,४३ ॥

दैवेन दैवगत्या मम चाक्षुषौ चक्षुर्गौचरौ ॥ ३।६९।४४ ॥

एवं कार्यादिकं पृष्ट्वा तदुपेक्ष्य स्वप्रयोजनं संपन्नमित्याहइमं देशमिति । इह तिष्ठतः क्षुधार्तस्य मम भाग्यादिमं देशमनुप्राप्तौ ॥ ३।६९।४५ ॥

ततः किं तत्राहदुर्लभमिति ॥ ३।६९।४६ ॥

मुखेन परिशुष्यतोपलक्षितं लक्ष्मणमुवाचहे सत्यविक्रम कृच्छ्रात्कष्टात्कष्टतरं राज्यभ्रंशवनवासप्रियापहारादि प्राप्य स्थितयोरावयोस्तां प्रियामप्राप्यैव जीवितान्तायेदं व्यसनं प्राप्तम् । यदेवमतः सर्वेष्वपि भूतेषु कालस्य वीर्यं सुमहत् अनर्गलप्रचारमस्तीति शेषः ॥ ३।६९।४७,४८ ॥

कुतः,यतः–त्वां चेति । महाबलपराक्रमावपि व्यसनैर्दुःखैर्मोहितौ कालः करोतीति पश्य । उक्तार्थस्यैव प्रपञ्चःनहीति । ऽनातिऽ इति पाठान्तरम् ॥ ३।६९।४९,५० ॥

उदग्रविक्रम उत्कटपराक्रमो रामः सौमित्रिमवेक्ष्य दीनमिति शेषः, स्वां मतिमात्मना ऽ ऽत्मवैभवेन स्थिरामकरोत् ईषदपि विषादं न प्राप्तवानित्यर्थः । अत्र लक्ष्मणस्यापि लोकव्यवहारनाट्यमेवेत्यन्ये ॥ ३।६९।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥ ३।६९ ॥