०६८ राम-जटायुसंवादः

रौद्रेम रक्षसा अनेन रक्षसां तमः प्राधान्यमेवेति सूचितम् । मित्रसंपन्नं मित्रत्वेन संपन्नं सर्वजनेषु मैत्र्या युक्तम् ॥ ३।६८।१,२ ॥

तथातिखिन्नप्राण इव स्वरहीनो विह्वलेक्षणश्च ॥ ३।६८।३ ॥

व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ३।६८।४ ॥

यमपराधं दृष्ट्वा तु प्रिया सीता हृता सो ऽपराधस्तस्य मया किं कृतः, अपि तु न । अतः–किंनिमित्त इति । किं निमित्तं हृदि यस्य स रावण आर्यां जहार ॥ ३।६८।५८ ॥

किंकर्मेत्यस्योत्तरम्–मायामिति । वातेन दुर्दिनेन च संकुलाम् ॥ ३।६८।९,१० ॥

अन्यप्रश्नोत्तरासामर्थ्यं ध्वनयन्प्राणोपरोधमाह–उपेति । उशीरेण नलदेन कृता मूर्धजाः केशा येषां तान्सौवर्णान्वृक्षान्पश्यामि । तादृशसौवर्णवृक्षदर्शनं मरणचिह्नम् ॥ ३।६८।११ ॥

ज्योतिषज्ञानबलादाह–येनेति ॥ ३।६८।१२ ॥

को ऽसौ मुहूर्तस्तत्राहविन्द इति । लाभार्थाद्विदेर्निष्पन्नो ऽसावित्याहुः । स च रावणो निजकर्माननुकूलं तं नावबुधत् ऽबुधिरवगमनेऽ इत्यस्य लुङि रूपम् । न केवलं मुहूर्तमहिम्ना इष्टप्राप्तिरेव, अपि तु शत्रुनाशो ऽपीत्याहझषेति । बडिशं गृहीत्वा झष इव क्षिप्रमेव विनश्यति । वर्तमाननिर्देशेनातिसांनिध्यं विनाशस्य दर्शयति ॥ ३।६८।१३ ॥

न चेति ॥ ३।६८।१४ ॥

असंमूढस्य मृतिकाले ऽप्यभ्रान्तस्य । रामं प्रत्यनुभाषतः उत्तरं भाषमाणस्य ॥ ३।६८।१५ ॥

इत्युक्त्वैतावन्मात्रमुक्त्वा । तद्रीर्यतद्भवनादिकथनात्पूर्वमिति शेषः ॥ ३।६८।१६१९ ॥

अस्मिन्दण्डकारण्ये बहूनि वर्षाणि सुखं वसता ऽनेन पक्षिणेहैव दण्डकारण्ये विशीर्णं देहविशरणं प्राप्तम् ॥ ३।६८।२० ॥

अनेकवार्षिक इत्यस्यैव विवरणम्–चिरकालसमुत्थित इति ॥ ३।६८।२१ ॥

मे उपकारीत्यन्वयः । सीतामभ्यवपन्नः सीतां मोचयितुं प्रवृत्तः ॥ ३।६८।२२,२३ ॥

सर्वत्र सर्वजातिषु ॥ ३।६८।२४ ॥

तथा आगतमिति च्छेदः, प्राप्तमित्यर्थः । मन्निमित्तं यो गृध्रविनाशस्तज्जं दुःखं यथा मां प्राप्तम् । सीताहरणजदुःखाद्गृध्रविनाशजं दुःखमधिकमिति भावः । तस्याः पुनः प्राप्तिसंभावनासत्त्वादस्य तदभावाच्चेति तात्पर्यम् ॥ ३।६८।२५,२६ ॥

दिधक्ष्यामि दग्धुमिच्छामि सद्गतिसिद्धये श्यन्नार्षः ॥ ३।६८।२७,२८ ॥

अपरावर्तिनाम् सङ्ग्रामे इति शेषः । गम्यत इति गतिर्लोकः । यज्ञशीलानां सोकान्क्रमेण प्राप्य मदनुज्ञातः सन्ननुत्तमान्येभ्यः परे उत्तमा न सन्ति ताँल्लोकान्ब्रह्मणो लोकान्क्रममुक्तिदान्गच्छ । अनेन सङ्कल्पमात्रात्कर्मानधिकृततिरश्चः साधनहीनस्यापि तल्लोकदानेन भगवान्रामस्वस्वरूपांशे मायया ऽ ऽवृतज्ञान इति प्रलपतां मुखं ध्वस्तम् । शोकादि तु नटनमित्युक्तमेवासकृत् । तदुक्तम्ऽसंस्कारमकरोत्तस्य रामो ब्रह्मविधानतः । स्वपदं च ददौ तस्मै सो ऽपि रामः प्रसादतः ॥ हरेः सामान्यरूपेण प्रययौ परमं पदम् ॥ ऽ इति जटायुषं प्रक्रम्य पाद्मे । एतेन तिरश्चामपि स्नेहादिता दाहादियुक्तमिति ध्वनितम् । सारूप्यमुक्तिलाभश्चोक्तः । मया मद्रूपेण सामान्यहरिरूपेण ॥

३।६८।२९३१ ॥

स प्रसिद्धमहिता रामः महारोहीन्महामृगान् । रोहिशब्द इकारान्तो ऽपि मृगवाची । गान्हत्वा पिण्डदानार्थं मांसमादायागत्यानु अनन्तरं तं द्विजं पक्षिणमुद्दिश्य पिण्डदानार्थं शाद्वलं तृणं तस्तार ॥ ३।६८।३२ ॥

तत्र तन्मांसान्युत्कृत्य पेशीकृत्वा पेशीकृत्य पिण्डं कृत्वा शकुनाय ददौ ॥ ३।६८।३३ ॥

यत्तन्मन्त्रजातं प्रेतस्य मर्त्यस्य स्वर्गादिगमनमुद्दिश्य ब्राह्मणाः कथयन्ति तत्स्वर्गगमनं तद्गमनसाधनं तत्तस्य क्षिप्रं स्वर्गगमनाय रामो जजाप ॥ ३।६८।३४,३५ ॥

उक्तस्य सर्वस्यास्य स्नानपूर्वकत्वं दर्शयितुं पुनराहशास्त्रेति । तत्र पाठक्रमादर्थक्रमस्य बलवत्त्वात्पूर्वं स्नानम्, तत उदकदानम्, ततः पिण्डदानमिति क्रमो बोध्यः ॥ ३।६८।३६ ॥

पुम्यां पुण्यैकलभ्याम् अत एव सुखां सुखैकस्वभावाम् ॥ ३।६८।३७ ॥

पक्षिसत्तमे तद्विषये पितरीवेत्यर्थः । स्थिरां बुद्धिं तस्मिन्पितृवद्बुद्धिं निधाय सीताधिगमे सीताप्राप्तिसूचके निमित्ते मनः प्रवेश्य तादृशं निमित्तं दृष्ट्वा वनं जग्मतुः ॥ ३।६८।३८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टषष्टितमः सर्गः ॥ ३।६८ ॥