०६७ जटायुषा सीतावृत्तान्तकथनम्

पूर्वजो ऽपि रामो लक्ष्मणेन सुभाषितं यथा भवति तथोक्तवाक्यस्तद्वाक्यस्य महासारं सयुक्तिकत्वात्सारांशम् ॥ ३।६७।१४ ॥

इह जनस्थाने गिरिगतानि दुर्गाणि गन्तुमशक्यदेशाः सन्तीत्यर्थः । निर्दरा विदीर्णपाषाणाः ॥ ३।६७।५८ ॥

क्षुरं तद्वन्निशितं शरमित्यर्थः । तं संधाय विचचारेत्यन्वयः ॥ ३।६७।९१३ ॥

सफेनं फेनसहितम् । दीनदीनयातिशयितदीनया दीनसदृशा वा ॥ ३।६७।१४ ॥

ओषधीमिव संजीवनौषधीमिव । अन्वेषस्यन्वेषसे ॥ ३।६७।१५,१६ ॥

अहं सीतामभ्यवपन्नः सीतापरित्राणमुद्दिश्याभिगतः । मया रावणश्च रणे विध्वंसितरथच्छत्रो धरणीतले पतितश्च कृतः ॥ ३।६७।१७२० ॥

तस्य स्वरूपं विज्ञाय । सीतासक्तां सीतासंवद्धां कथां च श्रुत्वा ॥ ३।६७।२१ ॥

द्विगुणीकृततापार्तः सीतावियोगजो जटायुवधजस्तापश्चेति तापस्य द्वैगुण्यम्, तेनार्तो बभूवेति शेषः ॥ ३।६७।२२ ॥

एकमसहायम् । एकस्मिन्नूर्ध्वंतालक्षणे ऽयने श्वासमार्गे ऽत एव कृच्छ्रे मुहुर्मुहुर्निःश्वसन्तमिति कतकसंमतपाठे ऽर्थः । ऽएकमेकायने दुर्गे निःश्वसन्तं कथंचनऽ इति पाठे दुर्गे लताकण्टकसंकीर्ण एकायने एकमार्गे पतित्वा कथंचन निःश्वसन्तं मृतप्रायमित्यर्थ इति तीर्थः ॥ ३।६७।२३ ॥

ममालक्ष्मीर्मद्दुष्कर्मसंबद्धा ऽलक्ष्मीः पावकं सर्वदाहकमपि दहेत् मच्छ्रियमित्यर्थः ॥ ३।६७।२४ ॥

एतद्दुःखपरितापशान्तये संपूर्णं महोदधिमपि प्रतरेयं तदा सो ऽपि सरितां पतिर्नूनं निश्चयेन ममालक्ष्म्या विशुष्येत् ॥ ३।६७।२५ ॥

येनाभाग्येन । वागुरा मृगादिबन्धनजालम् ॥ ३।६७।२६ ॥

पितुर्वयस्यः सखा ॥ ३।६७।२७ ॥

पितृस्नेहं पितरीव स्नेहम् ॥ ३।६७।२८,२९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तषष्टितमः सर्गः ॥ ३।६७ ॥