०६६ रामसमाश्वासनम्

एवं क्रोधमुपशमप्य सहजप्रकृतिपाप्तये बोधयति लक्ष्मणो रामम्–तमिति । परिद्यूनं क्षीणमचेतसमस्वस्थचित्तमिव ॥ ३।६६।१ ॥

मुहूर्तादिव मुहूर्तादेव ॥ ३।६६।२ ॥

बोधनप्रकारः–महतेत्यादि । तपसा पुत्रकामनया कृतेन व्रतादिना कर्मणा ऋष्यशृङ्गानयनपूर्वकमहायागेन ॥ ३।६६।३ ॥

भरतस्य मुखादिति शेषः । यथा यथावच्छ्रुतम् ॥ ३।६६।४ ॥

इतरः क इति । ऽयद्यदाचरति श्रेष्टस्तत्तद्देवतरो जनःऽ इत्युक्तेः । ऽमर्त्यावतारस्त्विह मर्त्यशिक्षणम्ऽ इति भागवतोक्तरीत्या लोकशिक्षणार्थमपि त्वदवतारादिति भावः ॥ ३।६६।५ ॥

आश्वसिहीति " न ह वै शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति " इति श्रुतेः ॥ ३।६६।६ ॥

तदेव विवृणोति–लोकेति । एष औपाधिकदुःखसंबन्धो लोकस्य शरीरिणः स्वभाव एव । तदेवाह–ययातिरिति । अनयो ऽनयमूलं दुःखं तच्च स्वर्गाद्भंशरूपम् । समस्पृशदित्यनेनाचिरस्थितिकस्पर्शमात्रार्थकेन पुनरविलम्बेनैव दौहित्रप्रयुक्तमुखोत्तरकालिकदुःखनिवृत्तिरप्यस्य सूचिता ॥ ३।६६।७ ॥

यौ महर्षिर्यः पुनर्नः पितुः पुरोहितस्तस्य पुत्रशतं जज्ञे । अह्ना च पुनर्विश्वामित्रेण हतम् । पूर्वं सुखोत्तरकालिकदुःखानन्तरं सुखं व्यङ्ग्यतयोक्त्वा ऽत्र सुखानन्तरं दुःखमुक्तम् । एवं च महतामप्यवश्यं जायमाने ईदृशे सुखे दुःखे च न हर्षशोकौ भवादृशस्योचिताविति भावः ॥ ३।६६।८ ॥

चलनम् भूकम्पजं दुःखमित्यर्थः ॥ ३।६६।९ ॥

यौ धर्मौ परावरधर्मप्रवर्तकौ नेत्रौ जगतः संसारचक्रस्य कालपरिच्छेद्वारा प्रवर्तकौ । अत एव यत्र सर्वं प्रतिष्ठितं तौ च ग्रहणं राहुग्रासदुःखं प्राप्तौ ॥ ३।६६।१० ॥

दैवस्य कर्मणो वशं न प्रमुञ्चन्तीत्यर्थः । किं पुनर्वक्तव्यं देहिनः सर्वभूतानि देहवन्ति सर्वभूतानि न मुञ्चन्तीति पुंस्त्वमार्षम् ॥ ३।६६।११ ॥

नयानयौ तन्मूलसुखदुःखे ॥ ३।६६।१२,१३ ॥

अनिर्विण्णदर्शना विषादरहितदर्शना विषादराहित्येन कृत्याकृत्यतत्त्वज्ञानवन्तः ॥ ३।६६।१४ ॥

तत्त्वतः समनुचिन्तय युक्तायुक्तं कृत्याकृत्यं चेति शेषः । शुभाशुभे कर्तव्याकर्तव्ये युक्तायुक्ते बुद्धियुक्ता जानन्ति तस्मात्त्वं बुद्ध्या विचिन्तयेति शेषः ॥ ३।६६।१५ ॥

एवं दुःखमूलं प्राचीनं कर्म बुद्धा दुःख सोढव्यमेवेत्याह–अदृष्टेति । शास्त्रैकसमधिगम्यतया प्रत्यक्षेणादृष्टगुणदोषाणां धर्मत्वाधर्मत्वे गुणदोषौ । आपाततो धर्मवद्भासमानानामधर्मत्वाद्वैपरीत्याच्च अध्रुवाणां फलनाश्यानाम् । अनेन फलावश्यंभावः सूचितः । तादृशानां कर्मणां निष्पत्तिः क्रियां तत्तत्पुरुषव्यापारमन्तरेण न भवति । स्वव्यापारेण कृतानां तेषामिष्टं फलं सुखं चादनिष्टं च फलं वर्तते प्रवर्तत एव, न तु न प्रवर्तत इति । अतः सोढव्यमेवेति भावः ॥ ३।६६।१६ ॥

इयं च बुद्धिस्त्वद्दत्तैव मे, अतस्तवोपदेशे किं सामर्थ्यमिति न वाच्यमित्याह–मामिति । अकारणे क्रोधवशमापन्नमिति शेषः । बहुशोक्तवानिति संधिरार्षः । अनुशिष्याच्छिक्षितुं शक्तः स्याद्बृहस्पतिरपि अन्यस्य का गणनेत्यर्थः ॥ ३।६६।१७ ॥

देवैरपि दुरन्वयान्वेतुमनुगन्तुमशक्या । त्वज्ज्ञानपरिच्छेदो देवानामप्यशक्य इति भावः । अनेनेश्वरता सूचिता । तथापि शोकेनान्तर्हितमिव ते ज्ञानं संबोधयामित बोध्यामीव ॥ ३।६६।१८ ॥

दिव्यं देवोचितम् । मानुषं मनुष्योचितम् । एवमुभयविधपराक्रमाश्रयत्वमात्मनो ऽवेक्ष्य । तत्राद्यः परशुरामविषयः, अन्त्यो रक्षोविषयः । एवं च देवोचितपराक्रमस्यायं नावसर इति भावः ॥ ३।६६।१९ ॥

कृतेनानुष्ठितेन ॥ ३।६६।२० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षट्षष्टितमः सर्गः ॥ ३।६६ ॥