अभवे नाशे युक्तमुद्युक्तम् सांवर्तकं प्रलयकालिकम् ॥ ३।६५।१ ॥
हरं कालाग्निरुद्रम् ॥ ३।६५।२ ॥
अदृष्टपूर्वं पूर्वमेवं कदाप्यदृष्टसंहारशक्त्यावेशं संक्रुद्धं रामं दृष्ट्वा राममब्रवीदिति रामपदद्वयसंबन्धः । मुखपरिशोषो लोकविनाशभयेन ॥ ३।६५।३ ॥
प्रकृतिं सर्वभूतहितत्वरूपाम् ॥ ३।६५।४ ॥
एतच्च उक्तचतुष्टयं च अनुत्तमं यशश्च त्वयि नियतमित्यर्थः ॥ ३।६५।५ ॥
एकस्यापराध इति कथं ज्ञायते तत्राह–नन्विति । ननु जानाम्येक एवापराद्ध इति कुतस्तत्राह–कस्यचिदेव न केषांचिदित्यर्थः । सायुधपरिकरो भग्न इत्यन्वयः ॥ ३।६५।६ ॥
स केन भग्नः केन हेतुनेत्येतत्तु न जानामीति शेषः । खुरनेमिक्षतत्वादिविशिष्टो ऽयं देशो निर्वृत्तसंग्रामो दृश्यते इति शेषः । एवंभूतैर्हेतुभिरयं विमर्दः संग्राम एकस्य रथिकस्य केनचित्सह न तु द्वयोरधिकयोरिति शेषः ॥ ३।६५।७,८ ॥
तदेवाह–नहीति । वृत्तं भूवि कृतचिह्नमत एकस्य कृते लोकनाशो न युक्तः ॥ ३।६५।९ ॥
युक्तदण्डा यथापराधदण्डाः । मृदवो ऽकठिनाः ॥ ३।६५।१० ॥
किंच यदि त्वद्दारप्रणाशो लोककर्तृको लोकानुमतो वा स्यात्तद्युक्तं तन्नाशनम् । नैवमस्तीत्याह–को न्विति ॥ ३।६५।११ ॥
सहिदादयस्ते विप्रियं कर्तुं नालं न समर्था न स्पृहावन्तो वा दीक्षितस्य यजमानस्य साधवो ज्ञानसंपन्ना ऋत्विगादयो यथा विप्रियं शापादि दातु व्याङ्गं वा कर्म कर्तुमसमर्थास्तद्वत् ॥ ३।६५।१२ ॥
मद्दिवतीयो ऽहं द्वितीयः सहायो यस्य सः । समुद्रादिस्थाश्रमेषु विचयनार्थं परमर्षिभिः सहायैरित्युक्तम् ॥ ३।६५।१३,१४ ॥
यद्यस्मद्विचयनेनाशक्यां तत्प्राप्तिः स्यात् ततः परं देवाः सर्वज्ञा यदि ते पत्नीं प्रत्नीवार्तां न दास्यन्ति ततः पश्चात्प्राप्तकालं चतुर्थोपायं दण्डं तेषु करिष्यसि ॥ ३।६५।१५ ॥
शीलं सुचरित्रम् साम साधुवादः विनयः प्रश्रयः नयो नीतिः ॥ ३।६५।१६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चषष्टितमः सर्गः ॥ ३।६५ ॥