०६४ रामसन्तापः

एवं शोककरणं चारद्वारा श्रवणेन रावणस्य मनुष्यत्वबुद्धिदार्ढ्यपूर्वकं स्ववध्यत्वसंपादनायेति बोध्यम् । तदुक्त ब्रह्माण्डपुराणे–ऽस्त्रीपुंमलानुषङ्गात्मा देहो नास्य विजायते । किं तु निर्दोषचैतन्यं सुखनित्यां स्वकां तनुम् ॥ प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा । तथाप्यसुरमोहार्थं परेषां च क्वचित्क्वचित् ॥ दुःखाज्ञानश्रमादींश्च दर्शयेच्छुद्धसद्गुणः । क्वव्रणादि क्व चाज्ञानं स्वतन्त्राचिन्त्यसद्गुणे ॥ मोक्षाभावाय तेषां तु दर्शयत्तानजो हरिः । कृष्णो ह्यत्यक्तदेहो ऽपि त्यक्तदेहस्य देहवत् ॥ लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥ ऽ इति । एतेन रावणस्येश्वरत्वबुद्धिप्रतिबन्धेन मोक्षाभावोऽपि शोकफलमित्युक्तम् । एवं रावणद्वारा सीताहरणमपि तत्पुण्यातिशयनाशेन वध्यतासंपादनाय । तथा च केदारखण्डे उक्ताख्यायिका–महता तपसा लब्धबलो रावणस्तदधिकतपोबलं विना जेतुमशक्यो देवाश्च स्वयं तदधिकं तपः कर्तुमक्षमा, अतस्तेषां कार्यमत्यन्तानुचितसीतानुरागमोहानुवृत्तिसंपादनेन रावणस्य तपोवीर्यभ्रंशं संपाद्य कर्तव्यमिति लक्ष्म्या सह विचार्य तदर्थं विष्णुः सीतया ब्रह्मविद्यया सहावतीर्ण इति ॥

३।६४।१,२ ॥

लघुविक्रमो ऽविलम्बितपादन्यासः तीर्थवर्तामवतारवतीं पुण्योदकवती च ॥ ३।६४।३ ॥

न शृणोति मे वाक्यमिति शेषः । क्लेशनाशिनी सति दर्शन इति भावः ॥ ३।६४।४ ॥

तं देशम् ॥ ३।६४।५ ॥

तां गोदावरीम् ॥ ३।६४।६ ॥

भूतान्युत रूपेश पृच्छयमानानि राक्षसेन्द्रेण हृतां ज्ञात्वापि रक्षोभयाद्रामाय न शशंसुः । तथा गोदावरी च न शशंसेत्यर्थः ॥ ३।६४।७ ॥

तथाभूतैरस्मै सीतां शंसेति प्रचोदितापि गोदावरीं पृष्टापि नावदत् ॥ ३।६४।८ ॥

तत्र हेतुःरावणस्येति ॥ ३।६४।९ ॥

नद्या सीतामशंसन्त्या रामः सीतादर्शने निराशः कृतः । इयं गोदावरी विव्यदेवता न ब्रूते, अतस्तद्दर्शनं दुर्लभमिति निराशो ऽभूत् ॥ ३।६४।१० ॥

तदेवाहएषेति ॥ ३।६४।१११३ ॥

मन्दाकिनी काचिन्नदी । प्रस्रवणस्त दाख्यो गिरिः ॥ ३।६४।१४ ॥

सर्वाण्यनुचरिष्याम्यनुचरवत्सेविष्यामि ॥ ३।६४।१५ ॥

एषामिङ्गितानि तथोपलक्षये यथा वक्तुकामा इवेमे इत्यर्थः ॥ ३।६४।१६ ॥

निरीक्षन्मृगचेष्टाज्ञानाय सूक्ष्मदृष्टिं कुर्वन् । एवमुक्ता एवं पृष्टाः ॥ ३।६४।१७ ॥

नभःस्थलं दर्शयन्तः उन्सुखतया ऽ ऽकाशचिलोकनेङ्गितनेत्यर्थः । ह्रियमाणा सीता यां दिशमभ्यपद्यत ॥ ३।६४।१८ ॥

तेन मार्गेम दिङ्मार्गेण गच्छन्तो धावन्तो नराधिपं रामं निरीक्षन्ते । एवमिङ्गितं लक्ष्मणो ऽपश्यदित्याहयेनेति । येन हेतुना मार्गमाकाशमार्गं पुनर्भूमौ गमनाय भूमिं च निरीक्षन्ते ॥ ३।६४।१९ ॥

पुनश्च मारगं दर्शयितुमिच्छन्तो लक्ष्मणेनोपलक्षितास्तेषामिङ्गितं लक्ष्मणो लक्षयासेत्यर्थः । आकाशमाग्रेण गत्वा दक्षिणदिशि दूरे स्थापिता सीता दक्षिणदिशि गच्छतेय्येवं तदिङ्गितं तेषां च वचनसर्वस्वभूतं स्वयं लक्षयामास ॥ ३।६४।२० ॥

ततो ज्ञात्वा भ्रातरमप्युवाचेत्यर्थः । आर्तवदार्तार्हम् ॥ ३।६४।२१,२२ ॥

तस्यागमः तस्या आगम इत्यर्थः आर्षो दीर्घः ज्ञापकं वस्तु दृश्येतेत्यर्थः ॥ ३।६४।२३,२४ ॥

पतितपुष्पमार्गं पतितपुष्पयुतं मार्गम् ॥ ३।६४।२५ ॥

अभिजानामि प्रत्यभिजानामि ॥ ३।६४।२६ ॥

अपिनद्धानि केशपाशे बद्धानि । अम्लानत्वेन रपिरपनयनेन वायुर्धारणेन वसुंधरा मत्प्रियं गीतज्ञानरूपं प्रकुर्वन्तो रक्षन्तीति मन्ये ॥ ३।६४।२७,२८ ॥

मया विरहिता कच्चिद्रम्ये वनोद्देशे संर्वाङ्गसुन्दरी दृष्टा ॥ ३।६४।२९ ॥

कुद्धस्तदधिष्ठातृदेवतोद्देशेन क्रोधः ॥ ३।६४।३० ॥

हेमाङ्गीमित्यनेन लावण्यमुक्तम् ॥ ३।६४।३१ ॥

दर्शयन्निव वक्ष्यमाणालिङ्गद्वारा नादर्शयत् वाग्राहित्येन साक्षदिति शेषः । राघवे तद्विषये ॥ ३।६४।३२३४ ॥

दिधक्षन्निव न तु वास्तवी दिधक्षेति भावः ॥ ३।६४।३५ ॥

निष्क्रान्तं प्रवृत्तविक्षेपम्, महदत्यायतविस्तृतम् ॥ ३।६४।३६ ॥

अनुसृप्ताया अनुगम्यमानायाः । जटायुयुद्धसमये सीताया रावणेन भूमौ विसृज्य पुनर्ग्रहणादेवमुक्तिः । परिक्रान्तं परिवृतम् । एतत्सर्वं समीक्ष्य भ्रातरं शशंसेत्यन्वयः ॥ ३।६४।३७,३८ ॥

कनकबिन्दवो भूषणावयवीभूतस्वर्मशकलानि । भूषणानामिति पूर्वान्वयि ॥ ३।६४।३९ ॥

तप्तबिन्दुनिकाशैस्तपनीयबिन्दुसदृशैः क्षतजबिन्दुभी रुधिरबिन्दुभिः ॥ ३।६४।४० ॥

मन्ये इति । सीताया वा इमे रुधिरबिन्धवः सीतानिमित्तं सुन्दोपसुन्दवद्युद्ध्यमानयो रक्षसोर्वेति विकल्पालंकारः श्लोकद्वयेनोक्तः ॥ ३।६४।४१४३ ॥

वैढूर्यगुलिकाचितं वैढूर्यमण्यलंकृतम् ॥ ३।६४।४४,४५ ॥

काञ्चनोरश्छदाः काञ्चनमयतनुगणाः ॥ ३।६४।४६ ॥

समरे स्वामिप्रकाशको ध्वजो यत्र स समरध्वज इति रथविशेषणम् । तादृशो रथो ऽपविद्धः परिवृत्य पातितो भग्नश्चेत्युत्तरेणान्वयः । केचित्तुध्वजोपविद्धो ध्वस्तो रथो भग्न इत्यन्वयमाहुः ॥ ३।६४।४७ ॥

रथाक्षमात्राश्चतुःशताङ्गुलदीर्घा विशिखाफलभागा इत्यर्थः ॥ ३।६४।४८ ॥

निहताः परेण योधेन । शरावरौ तूणीरौ ॥ ३।६४।४९ ॥

प्रतोदस्तोत्रम् अभीषवः प्रग्रहाः कस्यापि राक्षसपुरुषस्यैषा पदवी पदसंचारमार्गः ॥ ३।६४।५० ॥

अतो मम तै राक्षसैः सह एत्तन्निमित्तजं वैरं पूर्ववैराच्छतगुणं सत्तेषां जीवितान्तकं जीवितस्यान्तकमन्तरूपं संपन्नं पश्य ॥ ३।६४।५१ ॥

एवं रक्षोभिः सीताविपत्तिं निश्चित्य धर्मं निन्दति–नेति । यतः सीतां धर्मो न त्रायते । एवं च भक्षितायां हृतायां वा वैदेह्यां के हि लोके मम प्रियं कर्तुं शक्ताः, न के ऽपि । धर्मासाध्ये तेषामकिंचित्करत्वादेति भावः ॥ ३।६४।५२,५३ ॥

अथ पौरुषमेवावलम्बितुं तच्छेषतया कांचिल्लोकस्थितिमाह–कर्तारमिति । सर्वलोकस्योत्पत्तिस्थितिसंहारकर्तारमपि श्रुत्यादिप्रसिद्धं शूरं त्रिपुरसंहारादिविषयकात्यन्तशौर्यवन्तं महेश्वरमपि करुणवेदिनं करुणं यथा तथा वेदितुं शीलमस्य तम् । दयादृष्ट्या तूष्णीं स्थितमज्ञानात्तद्वैभवाज्ञानादवमन्येरन् । किमयं कुपितो ऽपि करिष्यतीति न गणयन्तीत्यर्थः ॥ ३।६४।५४ ॥

यदेवमतः–मृदुमिति । लोकहिते प्राणिसौख्यसंपादने युक्तं युक्तचित्तम् अत एव मृदुस्वभावं दान्तं नानाप्रकारेण दुर्विषयप्रवृत्तिरहितेन्द्रियवर्गं मां त्रिदशेश्वरा इन्द्रादयो निर्वीर्यं मन्यन्ते यतः सीतात्राणं न कृतवन्त इत्यर्थः ॥ ३।६४।५५ ॥

तस्मात्पौरुषमेवावलम्बनीयमित्याहमामिति । गुणो ऽपि मार्दवादिर्मां प्राप्य दोषो ऽनिष्टसाधनं वृत्त इति हेतोरेतं त्यक्त्वा पौरुषमवलम्बे । पश्य अद्य मम तेज एव प्रकाशते । सर्वभूतानामभवाय नाशाय । शशिज्योत्स्नां संहृत्यैव प्रलयकालोदितो महासूर्य इव । शशिज्योत्स्नातुल्यान्मामकान्गुणान्संहृत्यैव रविवत्तेजो मदीयं प्रकाशते पश्येत्यन्वयः ॥ ३।६४।५६,५७ ॥

तदेव प्रपञ्चयति–नैवेति ॥ ३।६४।५८ ॥

पश्य अचिरादेवेति शेषः । त्रैलोक्यचारिणामसंपातं बाणावरणात्क्रियाराहित्यं यथा भवति तथा करिष्यामि ॥ ३।६४।५९ ॥

संनिरुद्धप्रचारो ग्रहगणो यत्र तत्रैलोक्यम् । विप्रनष्टा अनलादिद्युतयो यत्र तच्च तत्संवृतं तमसा संवृतमित्यर्थः ॥ ३।६४।६०,६१ ॥

कालकर्मणा कालसाध्यं कर्म नाशस्तेन । ऽकालधर्मणाऽ इति पाठे ऽपि तद्रूपेण कालधर्मेणेत्यर्थः तत्पुरुषे ऽनिजार्षः ॥ ३।६४।६२,६३ ॥

अमर्यादं त्यक्तस्वस्वप्रकृत्यवस्थानम् जीवलोकेन दुरावरैर्दुर्निवारैः । दुरावरशब्दः खलन्तः ॥ ३।६४।६४,६५ ॥

देवादयो न भविष्यन्ति । प्रत्येकं सर्वे नशिष्यन्तीत्यर्थः ॥ ३।६४।६६६८ ॥

तथारूपां यथापूर्वस्वभावाम् । अत्र न दास्यन्तीति पौनरुक्त्यं क्रोधातिशयान्न दोषाय ॥ ३।६४।६९७२ ॥

निष्पीड्य दृढमुष्टिबन्धेन गृहीत्वा ॥ ३।६४।७३,७४ ॥

यथा जरादयो ऽनिवार्यास्तथाहमस्मात्कर्मणः केनापि वारयितुमशक्यः । विधिर्दैवम् ऽविधिर्विधाने दैवे ऽपिऽ इति कोशः ॥ ३।६४।७५ ॥

पुरे वेति । ्त्र पुरेत्यावर्तते । पुरेव पूर्वरूपसदृशरूपवतीं पुरा न दिशन्ति न दास्यन्तीत्यर्थः । परिवर्तयामि नाशयामि । नन्वेवंविधः क्रोधः कथमस्य किमर्थं चेति चेच्छृणु । मनुष्यदेहधारणेन तद्व्यवहारनटनमेवैतत् । किंच ईदृशदुःखकाले ऽस्य क्रोधाभावे रावणो मनुष्यबुद्धिं कुर्यात् । तथा च तद्वधो शक्यः स्यादित्येतदर्थं च सः । मृत्युं मरणधर्मेण योजयामि इत्यादि वचो ऽपि रावणवचोवदेव आरोपितक्रोधमूलकत्वात् । अत एव शरैर्विधमिष्यामीत्युक्तिः । लक्ष्मणस्तु तत्त्वज्ञो ऽपि तद्वदेवातत्त्वज्ञ इव तन्मायामोहितो वा प्रलयकालिकरौद्रशक्त्यावेशं संभाव्यानुनयति स्म किंचास्य क्रोधस्यारोपित्वाभावे ऽद्य सीताया अलाभे सर्वजगत्परिवर्तनं प्रतिज्ञाय कथं लक्ष्मणप्रार्थनयापि तामन्यथयेत् । अन्यथा कैकेय्यग्रे कृतां वनवासप्रतिज्ञां कथं कौसल्यावचसा न त्यक्तवान् । तस्मात्सा यथार्था, इयं तु आरोपितेत्येव सारम् । अनेन व्यवहारेण क्रोधादकाले कृताया अयुक्ताया अपि प्रतिज्ञाया अपालने ऽत्यन्तदोषाभाव इत्यपि सूचितम् ॥ ३।६४।७६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुःषष्टितमः सर्गः ॥ ३।६४ ॥