०६३ लक्ष्मणेन रामसान्त्वनम्

शोक इष्टवियोगजो वृत्तिविशेषः, तज्जन्यं चित्तवैकल्यं मोहः ॥ ३।६३।१ ॥

शोकवशेनाभिपन्नं पीडितम् । ऽविपुले ऽति रामःऽ इति पाठे ऽतिशयिते शोके इत्यर्थः । व्यसनानुरूपं लोकस्य दुःखप्रसङ्गे उचितम् ॥ ३।६३।२ ॥

शोकमनुप्रवृत्तः शोकः शोकानुशोकः सः परम्परायाः तृतीयार्थे षष्ठी । परम्परया ऽविच्छेदेन हि यतो मां हृदयं तदधिष्ठानमात्मानं मनश्च भिन्दन्नेति प्राप्नोति ॥ ३।६३।३ ॥

उक्तमेव विस्तरेणाह–पूर्वमिति । अभीप्सितानि चिकीर्षाविषयत्वं प्राप्तानि । तत्र तेषां मध्ये केषांचिद्विपाकः फलपरिपाको ऽयमद्यापतितः प्राप्तः । दुःखेन दुःखम् दुःखपरम्परामित्यर्थः ॥ ३।६३।४ ॥

तामेवाहराज्येति । एतानि प्रविचिन्तितानि शोकवेगमिदानींतनमापूरयन्ति ॥ ३।६३।५ ॥

वनमेत्य प्राप्य शरीरे क्लेशमनुभूयापि सीतासंनिधानात्सर्वं शान्तम् । अद्य सीतावियोगात्पुनरुदीर्णं वृद्धिं प्राप्तम् । प्रियावियोग एव दुःसह इति भावः ॥ ३।६३।६ ॥

सा राक्षसेन नूनमभ्याहृता । तदा खमाकाशं समुपेत्य प्राप्यास्वरं विस्वरं विकन्दितवत्यपि संभाव्यत एवमित्यन्वयः ॥ ३।६३।७ ॥

लोहितस्य चन्दनस्य हरिचन्दनस्य । ऽलोहितं हरिचन्दम्ऽ इति कोशात् । शोणितपङ्कदिग्धौ भक्षणाय राक्षसैर्विशसनादिति भावः । मम नाभिपातः, एवमपि मम शरीरस्याभिपातो न जायत इत्यर्थः ॥ ३।६३।८,९ ॥

हारपाशो हाररूपा माला तस्या उचितान्तामुचितो ऽन्तः प्रान्तभागो यस्यास्ताम् । तां कम्बुतुल्यां ग्रीवामित्यर्थः । ऽपरिपीतवन्तिऽ इति पाठे रुधिरमिति शेषः । भविष्यन्ति जातानीति वा । शून्ये विजने ॥ ३।६३।१०,११ ॥

उपोपविष्टा समीपावस्थिता । निःशब्दं स्मितम् ईपत्सशब्दो हासः ॥ ३।६३।१२ ॥

मम प्रियाया नित्यकालं प्रियेत्यन्वयः । अत्र गोदावर्यामियं चिन्ता असंगतेत्याहनैकाकिनीति ॥ ३।६३।१३ ॥

एवमग्रे ऽपि गच्छति पङ्कजानि आनेतुमिति शेषः ॥ ३।६३।१४ ॥

अतिबिभेत्यत्यन्तं भीता भवति ॥ ३।६३।१५ ॥

लोककृताकृतज्ञेत्यादिना तादृशसूक्ष्मज्ञानवतस्तज्ज्ञानं सर्वथा ऽस्तीति भावः ॥ ३।६३।१६ ॥

यत्ते नित्यं विदितं न भवेत्तद्वस्तु सर्वेषु लोकेषु नैवास्ति । अतः सापि तव विदितैवेति तां शंसस्वेत्यन्वयः । कुलपालिनीमित्यनेन तस्या महत्त्वात्तज्ज्ञानं मम नेति वक्तुमशक्यमिति सूचितम् ॥ ३।६३।१७ ॥

इतीवातीवशब्दौ पर्यायौ । शोकविधेयदेहं तमिव । कालयुतं कालोचितम् ॥ ३।६३।१८,१९ ॥

न चिन्तयामास लक्ष्मणोक्तं युक्तिमिति न विचारयामास, किं तु धैर्यं त्यक्तवानेव । अत एव पुनर्दुःखं प्रापत् ॥ ३।६३।२० ॥

इति श्रारामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रिषष्टितमः सर्गः ॥ ३।६३ ॥