०६२ रामविलापः

एवं प्रियावियोगो दुःसह इति बोधयन्पुनः शोचतिसीतामिति । शोकोपहतचेतनः शोकेन सीतावियोगजेनोपहतज्ञान इव ॥ ३।६२।१ ॥

अपश्यन्नपि भ्रमावस्थत्वात्पश्यन्निव विलापाश्रयत्वेन दुर्वचं गद्गदकण्ठत्वात् ॥ ३।६२।२ ॥

ते स्वस्य सीतायाः ॥ ३।६२।३ ॥

ऽकदलीस्कन्ध–ऽइति पाठे ऽपि स्कन्धः काण्डम् । निगूहितं शक्ता नासि आत्मानमिति शेषः ॥ ३।६२।४ ॥

ततो वनान्तरं गच्छतीति भ्रमन्नाह कर्णिकारेति ॥ ३।६२।५,६ ॥

पुनर्भ्रमनिवृत्त्याहसुव्यक्तमिति ॥ ३।६२।७ ॥

उपसंप्रैति । हासरसेनोपेक्षत इत्यर्थः ॥ ३।६२।८ ॥

भक्षितां शंसन्तीव । तत्र बीजम्साश्रुनेत्राणीति ॥ ३।६२।९ ॥

विना सीतामुपागत इति सकामा भविष्यति । त्वया भक्षितयेति शेषः ॥ ३।६२।१०,११ ॥

कातरत्वमशूरत्वम् सीतापनयनेन सीतानाशेन ॥ ३।६२।१२ ॥

तया सीतया विरहितं हीनम् ॥ ३।६२।१३ ॥

ऽतात एव कृतार्थः स तत्रैव वसतादितिऽ इत्यर्धमधिकं कतकपाठे । तातो दशरथ एव कृतार्थः वसतादिति लोट् व्यत्ययेन । यतस्तत्रैव स्वर्गे एव वसति न तु जीवन्ती कौसल्येत्यर्थः । पक्षान्तरमादत्ते–अथवेति ॥ ३।६२।१४१९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्विषष्टितमः सर्गः ॥ ३।६२। ॥