प्रविद्धानीतस्ततः प्रक्षिप्तानि ॥ ३।६१।१ ॥
प्राकुश्य हा इति शब्दं कृत्वा बाहु प्रगृह्योत्क्षिप्य ॥ ३।६१।२ ॥
तदेव वचनम्–क्वेति ॥ ३।६१।३ ॥
वृक्षेणेत्यादि पुनः प्रलापः । आवार्याच्छाद्य ॥ ३।६१।४ ॥
विश्वस्तैश्चिरकालसहवासेन विश्वासं प्राप्तैः । ध्यायन्ति त्वामिति शेषः ॥ ३।६१।५,६ ॥
मरणे ऽपि परलोके मम धिक्कार एव प्राप्नोतित्याहकथमिति । संश्रुत्य प्रतिज्ञाय । अभियोजितो नियुक्तः ॥ ३।६१।७,८ ॥
पुनः सीतामुद्दिश्य प्रलपति–विवशमिति ॥ ३।६१।९ ॥
अनुजुं छलशीलं मामुत्सृज्य क्व गच्छसि । दृष्ट्वाहमां मा उत्सृज त्यज ॥ ३।६१।१०,११ ॥
सीतामनासादयमानम प्राप्नुवानं रामं लक्ष्मण उवाचेत्यन्वयः ॥ ३।६१।१२,१३ ॥
विषादं मा कुर्विति शेषः । कुरु यत्नम् अन्वेषण इति शेषः ॥ ३।६१।१४ ॥
प्रियः काननसंचारो यस्याः सा । वनोन्मत्ता वनस्य पुष्पितत्वदर्शनादुन्मत्ता हर्षवती ॥ ३।६१।१५ ॥
वञ्जुलो वेतसः । संभावनायां लिङ् । सर्वत्र वित्रासयितुकामा अस्मान् ॥ ३।६१।१६ ॥
जिज्ञासमाना ऽ ऽवयोरन्वेषणसामर्थ्यम् । यतावहे यत्नं कुर्वः ॥ ३।६१।१७ ॥
यत्र सा अस्तीति शेषः ॥ ३।६१।१८ ॥
विचेतुमन्वेष्टुम् ॥ ३।६१।१९२२ ॥
ऽनेह पश्यामि वैदेहीम्ऽ इत्युक्ते ऽपि पुनर्विलापपरिहाराय लक्ष्मणो ऽवददित्याह–तत इति । दण्डकारण्यं विचरंस्त्वं सीतां प्राप्स्यसि ॥ ३।६१।२३ ॥
तत्र दृष्टान्तः–यथा विष्णुरिति ॥ ३।६१।२४,२५ ॥
अस्तु लक्ष्मणैवं कृतं करणेन किमित्याह रामःवनमिति ॥ ३।६१।२६ ॥
विह्वलः परवशः ॥ ३।६१।२७ ॥
गतबुद्धिर्ज्ञानशून्य इव । विचेतनश्चेष्टारहित इव । अशीतमुष्णम् । आयतं दीर्घम् ॥ ३।६१।२८ ॥
हा प्रिये इतीति इकारलोप आर्षः ॥ ३।६१।२९ ॥
प्रश्रितो विनयोपेतः । प्रश्रिताञ्जलिर्बद्धाञ्जलिः ॥ ३।६१।३०,३१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकषष्टितमः सर्गः ॥ ३।६१ ॥