आव्रजमानस्याश्रममागच्छतः । अधः प्रास्फुरत्स्वयमस्खलद्वेपथुः कम्पश्चास्याजायत ॥ ३।६०।१ ॥
अपि क्षेममिति तु व्याजहारेत्यन्वयः ॥ ३।६०।२,३ ॥
उद्भमन्नितस्ततो व्रजन् । विक्षिपन्हस्तादीन्क्षिपंस्तत्र तत्र सीता भविष्यतीत्याशया ऽभिवीक्ष्य ॥ ३।६०।४,५ ॥
रुदन्तमित्यादेराश्रमो विशेष्यः । वर्मनीयमयीभावेन कवेरपि संनिहितवैपरीत्यम् ॥ ३।६०।६,७ ॥
नष्टा ऽदर्शनं गता स्वयोगशक्त्या पुनरलभ्यदर्शना जातेति तात्पर्यम् ॥ ३।६०।८,९ ॥
नदीं गतेत्यादि संतर्क्य तत्र तत्र यत्नान्मृगयमाणो ऽपि नाससाद । उन्मत्त इवेत्ययमिवशब्दो मृगयमाणः बोधयितुम् । अत एव मातापितृवियोगो नैतावच्छोककारणम् । तदुक्तं भागवते–ऽस मनुजो ऽजभवार्चिताङ्घ्निरलङ्ध्यवीर्यःऽ इत्यादिना विशिष्टं राममुपक्रम्य ऽरक्षोधमेन वृकवद्विपिने ऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत्प्रियया वियुक्तः स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ऽ इति । ऽनेदं यशो रघुपतेः सुरयाच्ञयात्तलीलातनोरधिकसाम्यविमुक्तधाम्नः । रक्षोवधो जलधिबन्धनमस्त्रपूर्गैर्यत्तस्य शत्रुहनने कपयः सहायाः ॥
ऽइति च । यद्यथा सुग्रीवाद्याश्रयणवदिदमपि लीलैवेति न तत्तस्य स्तुतिरिति तदर्थः । लीलाप्रयोजनं च तच्छ्रवणेन लोकोद्धारः । एतन्नवमे एकादशाध्यायस्थे पद्ये । तथा पञ्चमे ऽपि–ऽमर्त्पावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कृतो ऽन्यथा स्याद्रमतः स्व आत्मन्सीताकृतानि व्यसनानीश्वरस्य ॥ ऽ इति ॥
३।६०।१० ॥
नदीनदं नदीसंबन्धिनदम् । जाताविकवचनम् । ऽनाराऽ इति लोकप्रसिद्धम् । नदाः पश्चिमप्रवाहा इति कतकः । पश्चिमप्रवाहाया अपि नर्मदाया नदत्वव्यवहाराभावाच्चिन्त्यं तत् ॥ ३।६०।११ ॥
उन्मत्त इवेत्युक्तं विवृणोति–अस्ति कच्चिदिति प्रश्ने । कदम्बप्रयत्वात्सर्वथा त्वया दृष्टेत्यर्थः । यदीति । ऽवेदा यदि प्रमाणम्ऽ इतिवत् ॥ ३।६०।१२ ॥
स्निग्धपल्लवसंकाशां तद्वत्कोमलाङ्गीम् ॥ ३।६०।१३ ॥
अर्जुनः करवीरः । ऽकरवीरः करा? करवीरी तथार्जुनःऽ इति निघण्टुः ॥ ३।६०।१४ ॥
ककुभो मरुबकः ककुभस्य बहिस्त्वचो ऽपि श्लक्ष्णत्वात्तद्वच्छ्लक्ष्णोरूम् । तस्य ज्ञातृत्वोपपादकम्लतेत्यादि । तत्संबन्धं विना कथमियती संपदस्येति भावः ॥ ३।६०।१५ ॥
उप समीपे गीतः क्रियमाणझङ्कार इत्यर्थः । तथा द्रुमवरो ह्यसीति स्तौति । तत उत्तरमलब्ध्वा ऽन्यं प्रत्याह–एष इति । तत्प्रियत्वात्तज्ज्ञेयत्वसंभावना ॥ ३।६०।१६ ॥
त्वन्नामानम् अशोकं कुर्वित्यर्थः । शोकापनुदत्वादेतत्करणयोग्यता ॥ ३।६०।१७,१८ ॥
निःशङ्कम् मरणादिकथने ऽपि शङ्का न कार्येति भावः ॥ ३।६०।१९,२० ॥
रामः पप्रच्छेति शेषः ॥ ३।६०।२१ ॥
उन्मत्त इव मानुषव्यवहारनटनवशात् । वस्तुतो नोन्मत इत्यर्थः । उन्मादस्यापि विरहे औचित्याद्दशावस्थासु गणितत्वाच्च ॥ ३।६०।२२ ॥
मृगीभिः सहिता भवेदित्यादौ संभावनायां लिङ् । संभावनाबीजं मृगविप्रेक्षणीत्वम् ॥ ३।६०।२३ ॥
गजस्य वेत्तृत्वसंभावनाबीजं गजनासोरुत्वम् । यद्वोच्चत्वाद्दूरदर्शित्वम् ॥ ३।६०।२४ ॥
न ते भयम् त्वया भक्षिता चेदपि तथा कथने ऽपि तव मत्तो न भयमित्यर्थः ॥ ३।६०।२५ ॥
अतिविरहवशात्सर्वतस्तद्भमावस्थां नाटयति–किमिति ॥ ३।६०।२६ ॥
नात्यर्थं हास्यशीलासि नात्यन्तं परिहासशीलासि । किमर्थमिति । इतः परमदर्शने मृतिर्मे प्रसक्तेति भावः ॥ ३।६०।२७ ॥
पीतवस्त्रेम सूचितासि धावन्ती दृष्टासि च तस्मात्तिष्ठ ॥ ३।६०।२८ ॥
पुनर्बोधावस्था नूनं सा नैव या दृष्टा । र्ति सा केत्यत्राहअथवा हिंसिता रक्षोभिः । तत्र हेतुःयथा एवंप्रकारेम कृच्छ्रं नूनं मां प्राप्तं सापेक्षितुमर्हति । नापेक्षते तस्मान्नैव सेत्यर्थः । ऽउपेक्षितुम्ऽ इति पाठे काकुः ॥ ३।६०।२९ ॥
उक्तमेव स्पष्टयति–व्यक्तमिति ॥ ३।६०।३० ॥
निष्प्रभतां गतम् रक्षोभिर्ग्रासादिति शेषः ॥ ३।६०।३१ ॥
सर्वत्रोत्प्रेक्षा । ग्रैवेयं ग्रीवाभूषणम् ॥ ३।६०।३२ ॥
विक्षिष्यमाणावितस्ततः क्षिप्यमाणौ ॥ ३।६०।३३ ॥
रक्षसां भक्षणाय सा बाला मया स्वविरहिता कृता । बहुबान्धवापि या सार्थेन परित्यक्ता हीना स्त्री सेव भक्षिता रक्षोभिरिति शेषः ॥ ३।६०।३४ ॥
पश्यसे पश्यसि हा सीते इकारलोप आर्षः ॥ ३।६०।३५ ॥
परिधावन्नुद्भ्रमते उत्पातति विभ्रमते वात्यावत् ॥ ३।६०।३६ ॥
अपरिसंस्थितः क्वचिदपि स्थितिमलभमानो भ्रमति ॥ ३।६०।३७ ॥
अनिष्ठिताशो ऽनिवृत्ताशः । मार्गणे ऽन्वेषणे । पुनः परमं परिश्रमं चकार । ऽअर्धो वा एष आत्मनःऽ इति श्रुतेस्तस्याः प्रियात्वम् । एतत्सर्वं लोकव्यवहारनटनमित्युक्तमेव, न त्वेतावता भगवति तमोरजसोः संभावनेति दिक् ॥ ३।६०।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षष्टितमः सर्गः ॥ ३।६० ॥