अथ विस्तरेण मार्गमध्यकृतां कथामाह–अथेति । उपवृत्तं सीतावचनात्स्वसमीपं प्राप्तम् । अन्तरा मध्येमार्गम् ॥ ३।५९।१ ॥
यदा यस्मात्तव विचासात्सा वने मया स्वेन विरहिता कृता, अतस्तामपास्य किमर्थं त्वमागतः ॥ ३।५९।२ ॥
महत्पापं सीताहरणादिरूपं शङ्कमानं यन्मे मनो व्यथितमासीन्मारीचवधकाले मच्छब्दसदृशशब्दस्य तेन करणात्तन्मैथिलीं त्यज्याभ्यागतं त्वां दृष्ट्वैव सत्यमिति जाने । एकलत्वेन सर्वस्य संभावयितुं शक्यत्वादिति भावः ॥ ३।५९।३ ॥
यस्य सत्यत्वसंभावनायां शरीरनिमित्तानि तत्कालानुभूयमानान्याहस्फुरते इति । स्फुरति सव्यं वामम् । बाहुरपि वाम एव । हृदयं च वामभाग एव ॥ ३।५९।४ ॥
पूर्वं सीतावचनाद्दुःखितो ऽकृत्यं कृतमिति रामवचनाद्भूयो दुःखितः ॥ ३।५९।५ ॥
कामकारेम स्वेच्छया प्रचोदितः । उग्रैर्द्रुःश्रवैः वचोभिरिति शेषः ॥ ३।५९।६ ॥
लक्ष्मणेति सुतरां विस्वरं परित्राहीति च आर्येणैव त्वयैव यत्परिकुष्टं तन्मैथिल्याः श्रुतिं गतम् ॥ ३।५९।७,८ ॥
तत्प्रत्ययान्वितं यस्या अपि प्रत्ययेन विश्वसनीयत्वेनान्वितं तत्त्वेन योग्यमिदं वक्ष्यमाणं वाक्यं प्रत्युक्ता प्रतिवचनत्वेनोक्ता ॥ ३।५९।९ ॥
किं तत्तत्राह–नेति । एतत्कातरवचनं नास्य रामस्य । केनापि रक्षसा ऽन्येन वोदाहृतम् ॥ ३।५९।१० ॥
तद्वचनत्वाभावे हेतुःविगर्हितमिति । क्षत्रियस्य निन्दितम्, अत एव नीचं कुत्सितम् । यो देवानपि त्रायेद्देवत्राणे ऽपि यः समर्थः स कथमीदृग्वाक्यं ब्रूयात् ॥ ३।५९।११ ॥
किंनिमित्तं कुत्सितं किंचिन्निमित्तमाश्रित्य केनापि रक्षसेरितम् ॥ ३।५९।१२,१३ ॥
विक्लवतां गन्तुमलं वैक्लव्यमालम्ब्यालं मास्त्वित्यर्थः । पुमान्विद्यमान इति शेषः । यः पराजयेदित्यपकर्षः ॥ ३।५९।१४ ॥
जायमान इत्यनेन जनिष्यमाण इत्यर्थकेन भाविनो ऽपि वारणम् । अतः संयुगे इत्यस्य न पौनरुक्त्यम् ॥ ३।५९।१५,१६ ॥
भावो मयीत्यादि व्याख्यातप्रायम् । विनष्टे भ्रातरि मां प्राप्तुमत्यर्थपापरूप एव भावस्तव हृदि मद्विषये निवेशितो दैवेनेति शेषः । न च मामवाप्स्यसे तन्नाशे ममापि नाशात् ॥ ३।५९।१७ ॥
संकेतात् पापरूपं संकेतं कृत्वेत्यर्थः । नाभिपद्यसे नाभ्यवपद्यसे । क्रोशन्तं क्रोशतस्तस्य त्राणाय न गच्छसि ॥ ३।५९।१८२० ॥
दुष्कृतमकृत्यं कृतमिति शेषः ॥ ३।५९।२१ ॥
त्वद्रक्षार्थमिति चेन्नेत्याहजानन्नपीति । अनेन मैथिल्याः क्रोधवाक्येन किं भवानाश्रमान्निर्गतः ॥ ३।५९।२२ ॥
यन्मैथिलीं त्यक्त्वा इहागतो ऽसि तेन ते न परितुप्यामि । यच्च क्रुद्धायाः स्त्रियाः परुषं श्रुत्वा त्वमिहागतो ऽसि तेन ते न तुष्यामि । क्रुद्धस्त्रीणां वाक्ये मर्यादालेशस्याप्यभावादिति भावः ॥ ३।५९।२३ ॥
अपनीतम् अपनयो ऽनीतिरिति यावत्, कृतेति शेषः । यत्तया प्रचोदितः सन्क्रोधवशं प्राप्य मम शासनं नाकरोः ॥ ३।५९।२४ ॥
अधुना स्ववृत्तान्तमाहअसाविति । बुद्धिस्तित्यैव निर्देशः । अपवाहितो दूरमाकृष्टः ॥ ३।५९।२५ ॥
परिधाय संधाय । सलीलबाणेन नातिविकृष्य मुक्तेन । मार्गो मृगसंबन्धिनीम् ॥ ३।५९।२६ ॥
स दूरे ऽपि संश्रवः संश्रवणं यस्य ते स्वरं मम मत्स्वरसदृशमालम्ब्य तद्वचनममुपाहृतमुक्तम् ॥ ३।५९।२७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनषष्टितमः सर्गः ॥ ३।५९ ॥