०५८ रामशोकः

पुनस्तदेव विस्तरेणाहस इति । शून्यं सन्तोषादिहीनचित्तम् । वैदेहीं विना गतं तां त्यक्त्वा गतम् ॥ ३।५८।१३ ॥

प्राणसहाया । तां विना ऽसहायाः प्राणाः कथं स्थास्यन्तीति भावः ॥ ३।५८।४ ॥

अमराणां पतित्वमिन्द्रत्वम् ॥ ३।५८।५ ॥

मे प्रव्राजनं चतुर्दश समा वनप्रवाजनव्रतधारणं तु सीताजीवने मम जीवनान्न मिथ्या भविष्यति । तदभावे मध्ये एव मम मरणे तद्धानिरिति भावः ॥ ३।५८।६ ॥

सीतानिमित्तं तद्विनाशनिमित्तम् । मयि मृते त्वयि चैकाकिन्ययोध्यां गते इत्यर्थः । सकामा पूर्णमनोरथा ॥ ३।५८।७ ॥

सौम्येन विनयेन ॥ ३।५८।८ ॥

संवृत्ता सद्वृत्ता यदि वृत्ता मृतेत्यर्थः ॥ ३।५८।९ ॥

प्रहसिता प्रहसितमुखो ॥ ३।५८।१० ॥

प्रमत्ते ऽनुचितकारिणि ॥ ३।५८।११,१२ ॥

तवापि ज्ञातमद्वलवीर्यादिमतो ऽपि ॥ ३।५८।१३ ॥

मम सदृशो मम स्वरेम सदृशः । यस्मात्त्वमत्रागतस्तस्मात्स स्वरस्तया श्रुत इति शङ्के ॥ ३।५८।१४ ॥

प्रतिकर्तुं मत्कृतापकारस्य प्रत्युपकारं कर्तुम् । तदपेक्षाणा रक्षमामन्तरमवकाशो दत्तः ॥ ३।५८।१५,१६ ॥

किं त्विदानीं करिष्यामीति शङ्के । ईदृशं दुःखं प्राप्तव्यमवश्यमनुभवितव्यमिति शङ्क इति धैर्यावलम्बनम् । उत्प्रेक्षा ॥ ३।५८।१७ ॥

जनस्थानं तद्वर्तिस्वाश्रमम् ॥ ३।५८।१८ ॥

विगर्हेमाण इत्यादि वक्ष्यमाणसर्गार्थसंग्रहः । श्रमेण बहुदूरधावनजेन । ऽश्रमाच्चैवऽ इति प्रायः पाठः । प्रतिश्रयमाश्रमसमीपदेशं शून्यं सीतया ॥ ३।५८।१९ ॥

प्रतिश्रयं प्रेक्ष्यानन्तरं स्वाश्रमे प्रविगाह्य तमपि शून्यं वीक्ष्य ततः सीतायाः कांश्चिद्वहारदेशाननुसृत्य तेषु तां विचित्य तानापि शून्यान्निरीक्ष्य एतत्क्रीडाविशेषस्थानं तत्रत्यक्रीडाविशेष च स्मृत्वा हृष्टरोमा शोकेन व्यथितश्च बभूव ॥ ३।५८।२० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ३।५८ ॥