अथ कवी रामवृत्तान्तमाह–राक्षसमिति ॥ ३।५७।१ ॥
यदा पथि निवृत्तस्तदा तस्य मैथिलीं द्रष्टुकामस्य तां द्रष्टुं संत्वरमाणस्य तस्येव स्थितस्य पृष्ठतो गोमायुः शिवा ननादेत्यन्वयः ॥ ३।५७।२,३ ॥
यथा भाव्यशुभं तथा वाशत इत्यर्थः । वेदेह्याः वैदेह्यै राक्षसैर्भक्षणं विना तत्कर्तृकभक्षणाभावरूपं स्वस्ति स्यादित्यर्थः । अपिः कामप्रवेदने ॥ ३।५७।४ ॥
मारीचेन मामकं स्वरं विज्ञाय मामकस्वरध्वनिं ज्ञात्वा ऽ ऽलक्ष्य मतपकारोपायमवधार्य यन्मृगरूपेम तेनाकृष्टं हा सीते लक्ष्मणेति च, तद्यदि लक्ष्मणः शृणुयात्तदा तं स्वरं श्रुत्वा मदीयस्वरत्वेन ज्ञात्वा मैथिल्यैव प्रहितस्तां हित्वैष्यति ॥ ३।५७।५,६ ॥
सहितैरीप्सितः कर्तुमिष्टः । नूनं निश्चयेन । तत्रैवानुकूलतर्कमाह–काञ्चन इत्यादि । यतः काञ्चनमृगो भूत्वा मां व्यपनीयाकृष्य दूरं नीत्वा राक्षसो ऽभूत् । न तु चर्मप्रयोजनमृग एव स्थितः । इति वाक्यं व्याजहाय च यत्तस्मात्तस्या वध ईप्सित इत्यन्वयः । काव्यलिङ्गालंकारः ॥ ३।५७।७,८ ॥
अथ चिन्तां नाटयति–अपीति । स्वस्त्यभवने हेतुः–जनस्थानेति । जनस्थानं स्थानविशेषः । जनानां लोकानां राक्षसेभ्यो भयनिवृत्त्या इह स्थाननिमित्तं चेत्यर्थः ॥ ३।५७।९ ॥
हेत्वन्तरमपि–निमित्तानीति ॥ ३।५७।१० ॥
मृगरूपेणात्मनो ऽपनयनं दूरमाकर्षणं दृष्ट्वा परिशङ्कितो जनस्थानं खरादिवासभूतमाजगाम । अनेन ततो ऽपि परतो मारीचव्यसनेन गत इति सूचितम् ॥ ३।५७।११ ॥
दीनमानसम् । दीनमानसत्वं नाटयतिदीनं शरीरेणापि म्लानम् । आसेदुर्विपरीतार्थसूचकत्वेन प्रापुः ॥ ३।५७।१२ ॥
तदेवाह–सव्यमप्रदक्षिणम् ॥ ३।५७।१३ ॥
अविदूरे समीपे समीयाय संगतो ऽभूत् ॥ ३।५७।१४ ॥
समगुणकः सन्मिलित्वा स रामो लक्ष्मणस्य भ्राता सीतां विहायागतं लक्ष्मणं दृष्ट्वा लक्ष्मणं षष्ठ्यार्थे द्वितीया । लक्ष्मणस्य सव्यं करं गृहीत्वा जगर्हे ॥ ३।५७।१५,१६ ॥
गर्हणामाह–उवाचेति । मधुरोदर्कं शब्दतो माधुर्योत्तरम्, अर्थतः परुषमिदं वक्ष्यमाणमार्तवदार्तार्हमुवाच । यद्वा मधुरोदर्कं तात्पर्यतो मधुरमापाततः परुषम् । ते कृतं त्वया कृतम् ॥ ३।५७।१७ ॥
कच्चित्स्वस्ति भवेत् कल्याणं संभाव्यत इत्यर्थः ॥ ३।५७।१८ ॥
विनष्टा ऽपहृता । यथा प्रादुर्भवन्ति । विनष्टेत्यादि निश्चितम् ॥ ३।५७।१९ ॥
अथापि । वा प्रश्ने । सामग्र्यं क्षेममनपहरणरूपम् ॥ ३।५७।२० ॥
वाशन्ते नदन्ति । प्रदीप्ता सूर्याधिष्ठिता ॥ ३।५७।२१ ॥
मृगसंनिकाशं मृगवत्प्रतिभासमानम् । म्रियमाण एव न ततः पूर्वमित्यर्थः ॥ ३।५७।२२ ॥
सव्यं वामम् । वास्तवमर्थमाहपथि वर्तते वा ह्रियमाणा वर्तते वेत्यर्थः । इदं वस्तुतत्त्वमुक्तम् ॥ ३।५७।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥ ३।५७ ॥