०५६ सीतया रामपराक्रमवर्णनम्

निर्भया स्त्रियो बलादुपभोगे मूर्धा ते विपतिष्यतीत्यप्सरसो रावणं प्रति शापं चित्ते विज्ञाय निर्भया । बलात्कारे योगवशाददृश्या ऽस्पृश्या च भविष्यामीति धिया निर्भया वा । तृणमन्तरतः कृत्वा, साक्षात्पापात्मकपरपुरुषसंभाषणजदोषपरिहारायेति शेषः ॥ ३।५६।१ ॥

धर्मसेतुरिवेत्यत्र धर्मेति पृथक्पदं लुप्तषष्ठीकम् । धर्मस्याचलः सेतुरिव मर्यादाप्रतिष्ठापकः । परिज्ञातः प्रसिद्धः ॥ ३।५६।२,३ ॥

स कस्तत्राहय इति ॥ ३।५६।४ ॥

शयिता शयनकर्ता मृतो ऽभूरिति शेषः, इडार्षः ॥ ३।५६।५ ॥

प्रोक्तास्त्वया मत्पुर इति शेषः ॥ ३।५६।६,७ ॥

तस्य रामस्य वैरं क्रोधमुत्पाद्य तत्संनिधिं प्राप्तस्ततो जीवन्न मोक्ष्यसे तस्य मनुष्यत्वादिति भावः ॥ ३।५६।८ ॥

तदेवाह–अन्तकरो नाशकरः ॥ ३।५६।९ ॥

रक्ष इति रावणसंबोधनम् । निर्दग्धः भवेरिति शेषः ॥ ३।५६।१० ॥

यो रामः । पातयेदित्यादि शक्यार्थे लिङ् । यच्च तव शतोजनसमुद्रमध्यगा लङ्का ऽगम्येति बुद्धिः, सा वृथैवेत्याहसागरं शोषयेद्वापि । वाशब्द एवार्थे स इह स्थितां सीतां मोचयेदेवेत्यर्थः ॥ ३।५६।११ ॥

त्वत्कृतेन त्वत्कृतापराधेन ॥ ३।५६।१२ ॥

पतिपार्श्वाद्विनाभावं पतिपार्श्ववियोगम् ॥ ३।५६।१३ ॥

देवरसंयुक्तो लक्ष्मणसंयुतः स खरादिहन्ता । ऽदैवतसंयुक्तःऽ इति पाठे दैवानुकूल्यवानित्यर्थः ॥ ३।५६।१४ ॥

वीर्यं पराक्रमः, बलं शारीरम्, दर्पो मदः, उत्सेको ऽमर्यादत्वम् ॥ ३।५६।१५ ॥

कार्ये प्रमद्यन्ति उचिते कार्ये वैपरीत्यं प्राप्नुवन्तीत्यर्थः ॥ ३।५६।१६ ॥

मां प्रधृष्य स्थितस्येति शेषः । स ते काल इति नाशकाल इत्यर्थः । स्वमरणेन वैधव्यमेवान्तः पुरवधः ॥ ३।५६।१७ ॥

यज्ञमध्यस्था यज्ञशालामध्यस्था स्रुगादियज्ञोपकरणमण्डिता वेदिश्चण्डालेनावमर्दितुं स्प्रष्टुं न शक्या तथा त्वया ऽहमिति योजना ॥ ३।५६।१८,१९ ॥

पद्मषण्डानि पज्मसमूहाः तृणमध्यस्थं जलनील्यादितूणमध्यस्थं द्रक्ष्येत पश्येत् । मद्गुकं जलवायसम् ॥ ३।५६।२० ॥

एवं निर्भयोक्तौ लोकानुसारेण पतिव्रतोचितं हेतुमाहइदमिति । निःसंज्ञं स्वतो जडम् ॥ ३।५६।२१ ॥

अपक्रोशं सीता ऽसती जातेति निन्दाम् । सुपरुषं सुतरां परुषम् । अनेन प्रबन्धन रजस्तमोयुतानामीश्वरालाभो दर्शितः ॥ ३।५६।२२,२३ ॥

भयसंदर्शनं भयोत्पादकम् । द्वादश प्रतीक्षे इति शेषः । यत्तु पाद्मेऽदशमासात्परं सीते यदि मां न भजिष्यति । तदा हन्मिऽ इत्युक्तम्, तत्तु पुनः सीतासविधगमनकालिकं वच इति न विरोधः ॥ ३।५६।२४ ॥

नाभ्येषि स्वारस्येनेति शेषः ॥ ३।५६।२५ ॥

शत्रून्रावयति क्रोशयति शत्रुरावणः ॥ ३।५६।२६ ॥

अपनेष्यन्त्वपनयन्तु ॥ ३।५६।२७ ॥

कृतप्राञ्जलयः रावणं प्रतीति शेषः ॥ ३।५६।२८ ॥

चरणोत्कर्षैः पदोत्क्षेषैर्मेदिनीं दारयन्निव प्रचल्य द्वित्राणि पदानि चलित्वा ॥ ३।५६।२९ ॥

नीयतामिति प्रोवाचेत्यन्वयः । परिवारिता क्षणमप्यवियुक्ता । रक्ष्यतामित्यर्थः ॥ ३।५६।३०३२ ॥

सर्वे कामाः फलन्ति येभ्यस्तादृशैर्वृक्षैः कल्पवृक्षैरित्यर्थः । सर्वकालमदैः सर्वकालं मदयुतैर्द्विजैः पक्षिभिः ॥ ३।५६।३३,३४ ॥

शोकेन त्रस्ता सेव । इतरजनप्रतारणाय नटवल्लोकरीत्यनुसरणमनयोर्लोको यथा वास्तवममन्यत तथैव कविरपि वर्णयति तत्प्रतारणायैवेति मन्तव्यम् ॥ ३।५६।३५,३६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षट्पञ्चाशः सर्गः ॥ ३।५६ ॥