बुद्धिवैक्लव्याद्बुद्धिवैपरीत्यात् ॥ ३।५५।१३ ॥
शोको वायुस्थाने, अश्रु चार्णवजलस्थाने । अनेनाश्रुवेगातिशय उक्तः ॥ ३।५५।४ ॥
अधोगतमवनतं मुखं यस्याः ॥ ३।५५।५ ॥
अनिच्छन्तीमपि तद्दर्शनं बलाद्दर्शयामासेत्यन्वयः ॥ ३।५५।६,७ ॥
दान्तकैर्गजदन्तकृतैः । तपनीयं स्वर्णं स्तम्भैर्युतमिति शेषः ॥ ३।५५।८ ॥
तया सीतया ॥ ३।५५।९ ॥
हेममयजालकैरावृताः ॥ ३।५५।१० ॥
सुधया मणिभिश्च विचित्राणि भूमिभागानीत्यार्षं क्लीबत्वम् ॥ ३।५५।११ ॥
दीर्घिका वाप्यः ॥ ३।५५।१२ ॥
लोभितुं सामनिग्रहाभ्यां प्रलोभयितुम् ॥ ३।५५।१३ ॥
दशेति । द्वाविंशत्कोटिसंख्याः ॥ ३।५५।१४ ॥
तेषामप्येकस्यैकस्यैकमेकं सहस्रं मम कार्ये प्रयोजने साधकतया पुरःसरम् अस्तीति शेषः ॥ ३।५५।१५ ॥
मे मम यदिदमुक्तरूपं राज्यतन्त्रं राजपरिकरस्तत्त्वयि प्रतिष्ठितं त्वदधीनमित्यर्थः ॥ ३।५५।१६ ॥
बह्वीनामुत्तमस्त्रीणामन्तःपुरसंचारिणीनाम् । यो मम परिग्रहो भार्या नित्यपुंलिङ्गः परिग्रहशब्दो भार्यावाची । मम भार्या सती तासां त्वमीश्वरी स्वामिनी भव ॥ ३।५५।१७ ॥
साधु हितं मम वचो रोचयस्वेत्यन्वयः । अन्यथाबुद्ध्या ते तव किं न किमपि फलमित्यर्थः । मा मां भजस्व । अभितप्तस्य कामाभितप्तस्य ॥ ३।५५।१८ ॥
शतयोजना भूमेरिति शेषः । अशक्यधर्षणत्वे पूर्वार्धं हेतुः । एवं च रामस्यात्रागमनमसंभावितमिति भावः ॥ ३।५५।१९२२ ॥
अस्य रामस्य ॥ ३।५५।२३ ॥
यथा वायुर्बद्धुमशक्यो यथा चाग्निशिखा ग्रहीतुमश्क्यास्तथेहागन्तुमशक्यमित्यर्थः ॥ ३।५५।२४,२५ ॥
मद्विधास्त्वत्प्रेष्या भविष्यन्ति । मां चेदङ्गीकरिष्यसि तदा सेवकवत्त्वदाज्ञावशो भविष्यामि । तथाभूते मयि राक्षसा देवाश्च मद्वशात्त्वद्वशाः संपन्ना एव । कं विशेषेण सर्वं चराचरं त्वत्प्रेष्यं भवति तदेत्यर्थः ॥ ३।५५।२६ ॥
अभिषेकः श्रमनिवृत्तिद्वारा भोगाय मानं तदुदकेन क्लिन्नार्दा श्रमापनयनात्तुष्टा च मां रमयस्व । यत्पूर्वं संचितं किंचिद्दुष्कृतमासीत्तद्वनवासेन तद्गतदुःखेन गतं क्षीणम् ॥ ३।५५।२७ ॥
इह लङ्कायाम् । मदङ्गीकारादिति शेषः ॥ ३।५५।२८३२ ॥
शोकेनास्वस्थामिव चिन्तया हतप्रभामिव ध्यायन्तीमिव तामुवाचेत्यन्वयः ॥ ३।५५।३३ ॥
तूष्णीमवस्थानाद्भीडया तूष्णीं स्थितेति मन्यमान आहअलमिति । धर्मलोपः स्वभर्तृत्यागपराङ्गीकाररूपस्तत्कृतेन व्रीडेन लज्जया ऽलम् मास्त्वित्यर्थः ॥ ३।५५।३४ ॥
कुतस्तत्राहआर्ष इति । हे देवि त्वामभि त्वामुद्दिश्य मया क्रियमाणो निष्पन्दः स्नेहबन्धः प्रार्थनारूपो यश्चाग्रे भविष्यति सो ऽयमार्षो ऋषिदृष्ट एव क्षभियाणामुचितत्वेन वेदोक्त एव । ऽबलात्कारेण राक्षसःऽ इति विवाहेषु स्मृत्या गणनात् । एवमुक्तिरपि तमोगुणप्राधान्येनैव कन्याया बलात्कारेण ग्रहणस्यैव राक्षसविवाहपदार्थत्वादिति बोध्यम् । पुनः प्रसादयतिएताविति ॥ ३।५५।३५ ॥
इमा दासो ऽहमित्यन्ताः शुष्यमाणेन कामपीडितेन मया भाषिता उक्ता वाचः शून्या यथा न भवन्ति तथा कुर्विति शेषः ॥ ३।५५।३६ ॥
एवंविधं प्रसादनं न क्वाप्यभूदित्याहन चापीति । मन्यते ऽमंस्त । अत्र रसाभासः ॥ ३।५५।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ३।५५ ॥