अपश्यत्यपश्यन्ती ॥ ३।५४।१,२ ॥
यदि रामाय शंसेयुरिति दैवगत्या दृष्टाय रामाय शंसेयुरिति प्रत्याशयेति शेषः । वस्तुतो ऽयं यदि शब्दो ऽवेदाः प्रमाणं यदि स्युःऽ इतिवत् । वस्त्रमुत्तरीयमुत्सृजेय तन्मध्ये वानरमध्ये सहभूषणं भूषणसहितं कर्णोत्पलादि च निक्षिप्तम् तयेति शेषः ॥ ३।५४।३ ॥
तत्कर्म च तत्कर्म तु वस्त्रभूषणसमये विक्रोशन्तीं विशालाक्षीं सीतां पिङ्गाक्षाः वानरोत्तमाः अनिमिषैः निमिपरहितैरिव नेत्रैः ददृशुः ॥ ३।५४।४,५ ॥
सुसंहृष्टः मृत्योस्तत्त्वेनाज्ञानात् । केचित्तु लब्धं रामहस्तान्मृत्युद्वारमिति संहृष्टः । विना चोत्कटं पापं पुण्यक्षयाभावेन न मृत्युः संनिहितः स्यादिति तमोगुणावृतः सन्मातर्यपि विरुद्धशब्दव्यवहारं कृतवानिति वदन्ति । तेषामेतत्सर्गान्ते वक्ष्यमाणम् ऽबभूव मोहान्मुदितःऽ इत्यसंगतं स्यात् । तथा ऽआत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यतऽ इत्युत्तरसर्गादित्थं चासंगतं स्यात् ॥ ३।५४।६ ॥
विहायसा ऽ ऽकाशमार्गेण क्षिप्रं समतीयायेत्यन्वयः ॥ ३।५४।७ ॥
तिमिर्मत्स्यविशेषः ॥ ३।५४।८ ॥
संभ्रमाज्जगन्मात्रपहारदर्शनजक्षोभात्परिवृत्तोर्भिः स्वभावप्राप्तोर्मिप्रवृत्तिरहितः । रुद्धा रुद्धप्रचारा मीनादयो यस्मिन् ॥ ३।५४।९,१० ॥
एतदन्तः सीताहरणकर्मावसानः । सिद्धाः सिद्धाश्च ॥ ३।५४।११ ॥
रुपिणीमात्मनो मृत्युमित्यन्वयः ॥ ३।५४।१२ ॥
संरूढकक्ष्यां बहुजनकीर्णद्वाराम् । बहुलां विपुलाम् । ऽसंरूढकक्ष्याबहुलम्ऽइति पाठे तादृशबहुतरद्वारवदित्यन्तुःपुरविशेषणम् ॥ ३।५४।१३ ॥
मायामिवासुरीमित्यनेन मायारूपैवैषा सीता या लङ्कामागतेति ध्वनितम् । मुख्यमाता त्वग्निं प्रविष्ठेति पूर्वमेव ध्वनितम् अत एव रावणस्य वहनीयैषा जाता । मायात्वादेव रावणस्य तदज्ञानम् । पिशाचीः राक्षसीरित्यर्थ इति तीर्थः ॥ ३।५४।१४ ॥
असंमतो ऽस्मदननुज्ञातः पुमांस्तथाभूता स्त्री वा न पश्यति तथा रक्षतेति शेषः ॥ ३।५४।१५ ॥
मच्छन्दतो मदाज्ञया यद्यद्वस्तु यदेच्छेत्तदैव यथा ऽस्या इष्टं भवति तथैव भवति तथैव तत्सर्वं देयम् । मच्छन्दत इत्यस्य मद्वशप्राप्तिसिद्ध्यर्थमित्यर्थ इति कतकः । अस्या अप्रियं च न वाच्यमित्याह–या चेति । तस्या जीवितं न प्रियं तां भारयामीत्यर्थः ॥ ३।५४।१६१८ ॥
वरदानेन पैतामहेन मोहितो रामशतादपि न मे भीरिति चिन्तायानः । मोहकृतैषा चिन्ता । तान्बल वीर्यतः प्रशस्येत्यन्वयः ॥ ३।५४।१९ ॥
हतस्थानं रामेणेति शून्यं कृतमित्यर्थः । पूर्वं खरालयत्वं भूतं प्राप्तम् ॥ ३।५४।२०२२ ॥
धैर्यस्योपरि क्रोधः धैर्योपमर्दकः क्रोध इत्यर्थः । ततः खरादिवधात्, न तु भीत्या नापि वृथा क्रोध इत्यर्थः ॥ ३।५४।२३ ॥
निर्यातयितुं प्रत्युपकारेणापनेतुम् ॥ ३।५४।२४,२५ ॥
प्रवृत्तिर्वातां उपनेतव्या मम प्रापणीया ॥ ३।५४।२६२८ ॥
महार्थं महानर्थो ऽभिधेयं यस्य तत् । यतो यद्दिशि जनस्थानं तद्दिशीत्यर्थः । अलक्ष्यदर्शना अन्तर्धानविद्यया ॥ ३।५४।२९ ॥
उपलभ्य प्राप्य स्पृष्ट्वा च परिगृह्य स्वगृहे स्थापयित्वा परिग्रहत्वेन विभाष्य च प्रसज्ज्य संपाद्य मोहान्मुदितः खरहन्तुर्वधो मम सुकरः स्त्रीवियोगेनातिखिन्नस्येति हर्षितः ॥ ३।५४।३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुष्पञ्चाशः सर्गः ॥ ३।५४ ॥