अथ सीतया क्रियमाणपारुष्य एव तां हरति स्मेत्याहखमिति । वर्तिनीत्यसुप्यपि णिनिरार्षः ॥ ३।५३।१ ॥
रोषरोदनाभ्यां हेतुभ्यां ताम्राक्षी ॥ ३।५३।२ ॥
विरहिताम् रामलक्ष्मणाभ्यामिति शेषः । अनेन कर्मणा चौर्येण ॥ ३।५३।३ ॥
अपवाहितो ऽन्यत्र नायितः । मायया मृगरूपेण मारीचेनेति शेषः ॥ ३।५३।४ ॥
पुराणो वृद्धः अत एवास्य निपातनम्, न तु त्वद्वीर्यहेतुकमिति भावः ॥ ३।५३।५ ॥
परमं खल्विति व्यङ्ग्योक्तिः ॥ ३।५३।६ ॥
स्त्रिया हरणमेव गर्हितम् राक्षसादिविवाहानां शास्त्रे गर्हितत्वात्तत्राणि परस्य विवाहितायास्तत्रापि रहिते पतिरहिते काले देशे चेत्यतिनिन्द्यं ते कर्मेति भावः ॥ ३।५३।७ ॥
शौटीर्यमानिनः शूरमानिनः । तादृशस्येदृशी लोके निन्दा मरणादप्यधिकेति भावः ॥ ३।५३।८ ॥
सत्त्वं शारीरं बलम् । तदा ऽपहरणपूर्वकाले । कुलाक्रोशः कुलनिन्दा । चारित्रमाचारः ॥ ३।५३।९ ॥
हि यत एवंरूपेण हृत्वा धावसि, अतः किं कर्तुं शक्यम् । मुहूर्तमपि तिष्ठ त्वं यदि शूर इति शेषः । अवस्थितौ किं स्यात्तदाहनेति ॥ ३।५३।१० ॥
तदेवोपपादयतिनहीति ॥ ३।५३।११,१२ ॥
साधु आत्मनः पथ्यं कृत्वा विचार्येत्यर्थः । ऽसाधु कुर्वात्मनःऽ इति पाठान्तरम् । साधु मां मुञ्च शीघ्रं मां मुञ्च यावन्मे भर्ता नायातीत्यर्थः ॥ ३।५३।१३ ॥
विनाशाय विधास्यति यत्नमिति शेषः । येन व्यवसायेन स्त्रीभोगव्यवसायेन ॥ ३।५३।१४ ॥
तन्नैरर्थक्यमेवाहनहीति ॥ ३।५३।१५ ॥
श्रेयस्तत्कालसुखावहं पथ्यं वा परिणामसुखावहं वा न समवेक्षसे न विचारयसि । यथा मर्त्यो मृत्युकाले विपरीतानि सेवते तथा त्वमपीति भावः ॥ ३।५३।१६१८ ॥
हिरण्मयवृक्षदर्शनं मृत्युचिह्नम् । वैतरण्यादियातनास्थानं पश्यसीति वर्तमानसामीप्ये लट् ॥ ३।५३।१९,२० ॥
शाल्मली यातनावृक्षः ॥ ३।५३।२१ ॥
धारितुं धर्तुम् जीवितमिति शेषः ॥ ३।५३।२२ ॥
मम भर्तुरपराधं कृत्वेति शेषः । भ्रातरं विना एकाकिनेति यावत् ॥ ३।५३।२३२५ ॥
आगतगात्रवेपथुः भारातिशयात् ॥ ३।५३।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ३।५३ ॥