सा त्विति ॥ ३।५२।१ ॥
नराणां सुखदुःखेषु निमित्तं सूचनं वामदक्षिणाङ्गस्पन्दनादिरूपं लक्षणं चिह्नम् । तथा जलादर्शादावात्मनो ऽशिरसो दर्शनं च लक्षणम् । स्वप्नम् ऽस्वप्ने यः पुरुषं कृष्णं कृष्णदन्तं प्रपश्यति । स एनं हन्तिऽ इत्यादि स्वप्नाध्यायोपदिष्टम् । तता शकुनीनां वामदक्षिणगमनविशेषदर्शनम् । तथा तेषां स्वराणां दर्शनमनुभवः । एतत्सर्वं यथायोगं परिदृश्यते सर्वेण । ऽलक्षणज्ञानम्ऽ इति पाठे ऽङ्गस्फुरणादिज्ञानमित्यर्थः । शकुनिग्रहणं मृगाद्युपलक्षणम् ॥ ३।५२।२ ॥
किं ततस्तत्राहन नूनमिति । मदर्थं मदपहारसूचनप्रयोजनमुद्दिश्य मृगपक्षिणो ऽशुभसूचनमार्गेण धावन्ति । त्वं तु तैः सूचितमपि स्वस्य महद्व्यसनं न जानासि नूनम् । जानीथाश्चेन्नोपेक्षेथा इति तात्पर्यमिति लोकाभिनयेन रामोपालम्भः ॥ ३।५२।३,४ ॥
यथान्तिके निकटस्थितानां शृण्वता श्रवणं भवेत्तथा समाक्रन्दत् न तृच्चैः शीघ्रं रामागमनं मा भूदिति तात्पर्येण ॥ ३।५२।५ ॥
क्लिष्टानि परिमृदितानि माल्याभरणानि यस्यास्ताम् ॥ ३।५२।६ ॥
वेष्टन्तीं लतामिव वृक्षानालिङ्गन्तीम् । मासुञ्च मुञ्चेति बहुशो वृक्षान्वदन्तीमिति शेषः, मोचय मोचयेत्यर्थो वा । प्राप इतस्ततो धावन्तीं समीपगत आसीत् ॥ ३।५२।७ ॥
जीवितान्ताय अनेन परस्त्रीकेशस्पर्शो यस्यकस्यापि जीवितापहारीति बोधितम् ॥ ३।५२।८ ॥
अमर्यादं त्यक्तस्वस्वप्रकृतिकम् जलमुष्णमग्निः शीत इत्येवमादि । अन्धेन तमसा बाह्येनाभ्यन्तरेण च ॥ ३।५२।९ ॥
मर्यादात्यागमेवाहन वातीति । देवो ब्रह्मापि ब्रह्मलोकस्थ एव दिव्येन चक्षूषा सीतां परामृष्टां रक्षसा केशेषु गृहीतां दृष्ट्वा ॥ ३।५२।१० ॥
श्रीमान्निस्तुलसकलैश्वर्यवान्पितामहः कृतं यदर्थमवतीर्णो देवानां तत्कार्यं कृतं सिद्धमित्यब्रवीत् ॥ ३।५२।११ ॥
प्रहर्षव्यथयार्हेतुमाहदृष्ट्वेति । तत्कालं नाटितदैन्याया हरणं दृष्ट्वा तान्मायामोहितत्वाद्व्यथिताः, यदृच्छया आयासं विनैब सपरिवारस्य रावणस्य नाशं प्राप्तं बुद्धा दृष्टा इत्यर्थः । भागसंधिरत्र ॥ ३।५२।१२,१३ ॥
तप्राभरणवर्णाङ्गी तप्तकाञ्चनाभरणसदृशवर्णयुक्ताङ्गी सौदामनी विद्युदिति । सुदाम्नो बहुरत्नादिमत्त्वात्तद्भवा विद्युदतिप्रकाशमाना भवति तद्वत्सीतेत्यर्थः ॥ ३।५२।१४ ॥
अग्निना दीप्तो गिरिरिवेत्यनेनासन्नभस्मता सूचिता । असङ्गाया अपि चिच्छक्तेस्तस्या रावणविनाशसांनिध्यद्योतनाय कवी रावणेन तस्या आसत्तिं वर्णयति ॥ ३।५२।१५ ॥
पद्मपत्राणि रावणमभ्यकीर्यन्त । रावणाङ्गे पतितान्यभूवन्नित्यर्थः ॥ ३।५२।१६ ॥
आतपे इत्यनेन ईषत्तप इत्यर्थकेन संध्याकालं लक्ष्यति । तत्र काले आदित्यरागेण तत्किरणेन युक्तमभ्रमिव तत्करयुतं वासो बभौ ॥ ३।५२।१७ ॥
बिनालमिव पङ्कजम् । शोकशुष्कत्वात् ॥ ३।५२।१८ ॥
नीलं जलदं भित्त्वा तन्मध्य उदितश्चन्द्र इव बभौ । तत्कान्तिधूरसरो हि सततमुदेति । वक्रं विशिनष्टिसुललाटमिति । पद्मगर्भवदाभा यस्य तत् ॥ ३।५२।१९ ॥
रावणाङ्कगम् न बभाविति शेषः ॥ ३।५२।२० ॥
रुदितं रोदनवत् अर्शआद्यच् । अत एवापमृष्टास्रमपमार्जिताश्रुकम् ॥ ३।५२।२१ ॥
दिवोदितचन्द्रवदपगतशोभम् ॥ ३।५२।२२ ॥
शुशुभे शोभयति स्म । नीलं गजमाश्रिता काञ्चनी काञ्चीव ॥ ३।५२।२३ ॥
पद्मपीता पद्केसरवत्पीतदेहा । तप्तकाञ्चनभूषणा ॥ ३।५२।२४ ॥
ऽअभूत्सचपलो नीलःऽ इति पाठे चपला विद्युत्तया सहितो घोषवान्मेघ इवाभूदित्यर्थः ॥ ३।५२।२५ ॥
उत्तमाङ्गेति । मातः त्वया संपादितो ऽस्मन्मनोरथ इति हर्षाद्देवैः क्रियमाणा पुष्पवृष्टिस्तदुत्तमाङ्गाच्च्युता तत्काले भूमौ पपातेति कतकः । वस्तुतो रावणसंनिधौ देवानां तथा वीर्यासंभवात् उत्तमाङ्गे धृतपुष्पाणां तद्वेगेन ततश्चोत्तमाङ्गच्युतेत्युक्तम् । अत एवाग्रे भूमौ पुष्पयुतं मार्ग दृष्ट्वा रामो वक्ष्यति–ऽअभिजानाभि पुष्पाणि तानीमानीह लक्ष्मण । अपिनद्धानि वेदैह्या मया दत्तानि कानने ॥ इति ॥ ३।५२।२६ ॥
रावणगमनवेगजनितवायुना समाधूतापि पुनर्दशग्रवमेवाभ्यवर्तताभितो ऽवर्तिष्ट अनवरतं जायमानत्वात् ॥ ३।५२।२७२९ ॥
तरुप्रवालरक्तवर्णा रक्तकिसलयवर्णेत्यर्थः । क्रोधातिशयादेवं वर्णो ऽस्याः । कक्ष्या गजाच्छादिनी ॥ ३।५२।३० ॥
तां सीतामित्यन्वयः । अत्र प्रकरणे वारंवारं वैश्रवणानुजत्वोक्त्या ईदृशक्रियाया अत्यनौचित्यप्रदर्शनेन शीघ्रफलदत्वं सूचयति ॥ ३।५२।३१ ॥
क्षीणाः क्षीणपुण्याः, तारास्तारारूपावस्थिताः पुण्यकृत इत्यर्थः ॥ ३।५२।३२,३३ ॥
उत्पातवात उर्ध्ववातः । द्विजगणैः पक्षिगणैर्युक्ता व्याजहुरिव उत्प्रेक्षालंकारः ॥ ३।५२।३४ ॥
त्रस्तां मीनप्रभृति बलेचरा यासां ताः । सखीमिव मैथिलीं गतोत्साहाम् । ऽगतोच्छ्वासाःऽ इति पाठे रावणत्रासाच्छुष्कजलतया गतप्राणा इत्यर्थः ॥ ३।५२।३५ ॥
रोषाद्रावणाविषयात् ॥ ३।५२।३६ ॥
जलप्रपातरूपाण्यस्त्राणि मुखे येषां ते ॥ ३।५२।३७,३८ ॥
आर्जवमजैहयम् । अनृशंसता दया । यत्र यस्मादित्यर्थः ॥ ३।५२।३९ ॥
गणशः सङ्घशः । वित्रस्तकाः स्वार्थे कः मृगपोतका मृगबालकाः ॥ ३।५२।४० ॥
विलक्षणैर्विगतलक्षणैः विगतशोभैरिति यावत् ॥ ३।५२।४१ ॥
विक्रोशन्तीमित्यर्धं पूर्वान्वयि ॥ ३।५२।४२ ॥
धरणीतलमवेक्षमाणां रामलक्ष्मणागमनकाङ्क्ष्या वस्तुतस्तदनुगमनाकाङ्क्ष्येति तत्त्वम् । विप्रमृष्टो विलुलितो विशेषकस्तिलको यस्यास्ताम् ॥ ३।५२।४३ ॥
भयभारपीडिता सेव विवर्णकेत्यर्थः ॥ ३।५२।४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्विपञ्चाशः सर्गः ॥ ३।५२ ॥