०५१ जटायु-रावणयुद्धम्

इतीति ॥ ३।५१।१ ॥

वातोद्धुतयोर्वातप्रवर्तितयोः ॥ ३।५१।२ ॥

माल्यवतोः द्वौ माल्यवन्तौ एको दण्डकारण्ये, अपरो मेरुपार्श्वे । सपक्षयोः पक्षसहतयोः । यद्वा यद्यर्थोक्ता कल्पनेयम्, यदि द्वौ माल्यवन्तौ सपक्षौ युध्येयातां तदा तत्सदृशमिदमिति तेनानुपमत्वं फलति ॥ ३।५१।३,४ ॥

प्रतिजग्राह सेहे । रावणास्त्राणि रावणक्षिप्तानीति शरजालविशेषणम् । अस्यतेरौणादिकस्त्रन् । ऽरावणास्तानिऽ इति पाठस्तु सुगम एव ॥ ३।५१।५ ॥

तस्य रावणस्य गात्रे इत्यन्वयः ॥ ३।५१।६,७ ॥

पूर्णमुक्तैराकर्णपूर्णाकृष्टधनुर्मुक्तैः ॥ ३।५१।८११ ॥

आवारितः आ समन्ताद्व्याप्तः । कुलायं वासस्थानं संप्राप्तो यः पक्षी तद्वद्ब्रभौ ॥ ३।५१।१२,१३ ॥

तत्प्रसिद्धं शरावरं कवचं व्यधुनोत्पातयामास । ऽशरासनम्ऽ इति पाठे शरप्रक्षेपकारणम् । तच्च द्वितीयं दनुश्च बभञ्जेत्यन्वयः । व्यधुनोत्कम्पयति स्म रावणमिति शेषः ॥ ३।५१।१४,१५ ॥

त्रिवेणुर्युगंधरः ॥ ३।५१।१६ ॥

ग्राहिभिश्छत्रादिधारकैः ॥ ३।५१।१७,१८ ॥

अङ्केन कटिभागेन ॥ ३।५१।१९२१ ॥

प्रनष्टानि स्वत एव नष्टानि हतानि गृध्रेण नाशितानि साधनानि युद्धसाधनानि यस्य तम् ॥ ३।५१।२२ ॥

समावार्य संनिरुध्य ॥ ३।५१।२३ ॥

वज्रतुल्यः स्पर्शो येषां तादृशा बाणा यस्य ॥ ३।५१।२४ ॥

सबलः सचतुरङ्गबलः । परिच्छदः दासीदासादि निदर्शनात्र तत्सहितो न शिष्यसीति तात्पर्यम् ॥ ३।५१।२५ ॥

अनुबन्धं फलम् ॥ ३।५१।२६ ॥

तस्य ततः । कालपाशान्मोक्ष्यसे इत्यर्थः । बडिशं मत्स्यवेधनम् । जलजो मत्स्यः ॥ ३।५१।२७ ॥

अस्याश्रमस्य तव धर्षणं त्वत्कृतमभिभवं नहि क्षमिष्येते ॥ ३।५१।२८ ॥

यथा यादृशं त्वया कृतं कर्म तत्तस्कराचरितो मार्गो न वीरसेवितः ॥ ३।५१।२९,३० ॥

परेतकाले मृत्युकाले अधर्म्यं तज्जनकम् प्रतिपन्नो ऽसि प्राप्तो ऽसि ॥ ३।५१।३१ ॥

यस्य कर्मणः कर्तुः पापानुबन्धः पापफलसंबन्धः आवश्यकः शास्त्रदृष्टः को नु पुमान्वै निश्चयेन तत्कर्म कुर्वीत । लोकाधिपतिरपीन्द्रादिरपि समर्थो ऽपि पापफलं कर्म न कुर्यात् । स्वयंभूर्भगवानपि पापपुण्यतत्फलतदधिकारिस्रष्टापि कर्तुमकर्तुमन्यथा कर्तुं शक्तो ऽपि नेदृशं कर्म कुर्यात्तादृशमैश्वर्यमत्तेन त्वया क्रियमाणं कर्माचिरादेव फलदं भविष्यतीति तात्पर्यम् ॥ ३।५१।३२ ॥

पृष्ठे पश्चाद्भागे ॥ ३।५१।३३ ॥

दुष्टवारणमधिरूढो गजारोही हस्तिपको गजविषये यथा स्याद्यादृशव्यापारो गवेद्गजक्षतकरणव्यापारो भवेत्तथा । ऽविररादऽ इति पाठे ऽपि क्षतानि चकारेत्येवार्थः ॥ ३।५१।३४ ॥

अस्य विददार एन विददारेत्यर्थः । तादृशक्रियाणां बाहुल्यात्पुनरुक्तिः ॥ ३।५१।३५,३६ ॥

वैदेहीं संपरिष्वज्य ऽपतनेन पलायनभिया ॥ ३।५१।३७ ॥

तं तलप्रहारमतिक्रम्य सोढ्वा व्यपाहरद्युगपदृशापि तुण्डेन धृत्वा त्रोटितवान् ॥ ३।५१।३८ ॥

संछिन्नबाहोः कर्तितबाहोरपि तस्य बाहवः पुनः सहसा समभवन् । वल्मीकात्पन्नगा इव ॥ ३।५१।३९४१ ॥

व्यायच्छमानस्य व्यायामं पराक्रमं कुर्वाणस्य ॥ ३।५१।४२ ॥

अल्पजीवितो घटीमात्रावस्थानोचितप्राणः ॥ ३।५१।४३,४४ ॥

अग्निदावं दावाग्निं परनिपात आर्षः ॥ ३।५१।४५ ॥

संगृह्य बाहुभ्यामालिङ्ग्य ॥ ३।५१।४६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकपञ्चाशः सर्गः ॥ ३।५१ ॥