०५० जटायुकृतरावणनिरोधः

तं शब्दं जटायो पश्य मामिति शब्दम् । अवसुप्तो भोजनोत्तरं दिवैव गाढसुप्तो ऽपि शुश्रुवे । ततस्तेन शब्देन प्रबुद्धो रावणं निरैक्षत ॥ ३।५०।१,२ ॥

दशग्रीवेति संबुद्धिः । अहं सत्यसंश्रवः सत्यप्रतिज्ञाः, सीतारक्षणे ऽहं सहाय इत्युक्तत्वादिति भावः । नाम्ना जटायुरिति प्रसिद्धेः, अतो मत्समक्षमीदृशं कर्म कर्तुं नार्हासि । भ्रातरिति सामप्रयोगः, यद्येवं न त्यक्ष्यसि तदा सत्यप्रतिज्ञत्वान्मया सह युद्धं भावीति दण्डप्रयोगश्च व्यङ्ग्यः ॥ ३।५०।३ ॥

राजेति । सर्वस्य लोकस्य राजत्वेन तवापि राजेति ध्वनितम् ॥ ३।५०।४ ॥

धर्मपत्नीत्यनेनैतद्धरणे महापापं सूचितम् ॥ ३।५०।५ ॥

कथं राजेति शेषः । धर्मे प्रजापालनरूपे ॥ ३।५०।६ ॥

राजदारा इति तद्धरणस्य गुरुतल्पसमत्वादिति भावः ॥ ३।५०।७ ॥

अस्य पुरुषस्य परः स्वेतरः प्राणी यत्कर्म विगर्हयेत्, न तत्समाचरेत्स्वदारवत्परदाराश्च विमर्शनात्परस्पर्शाद्रक्ष्याः ॥ ३।५०।८ ॥

शास्त्रेष्वनागतं शास्त्रेष्वनवगतं परमसूक्ष्मत्वाच्छास्त्रतो ऽनवगतमप्यर्थं वा राजानमनुसृत्य व्यवस्यन्ति । शास्त्रे ऽस्फुटमपि राज्ञ आचरणं दृष्ट्वा प्रजा आचरन्ति तस्माद्राज्ञो ऽधर्मप्रवृत्तिरनुचितेति तात्पर्यम् । ऽन व्यवस्यन्ति राजानःऽ इति पाठे शास्त्रेष्वनागतं तत्राप्रतिपादितं धर्मं राजानो न व्यवस्यन्ति नेच्छन्तीत्यर्थः । तस्माच्छास्त्रानुसारिधर्मे एव मतिं कुर्यादित्याशयः ॥ ३।५०।९ ॥

तथा राज्ञा द्वव्याणामुत्तमवस्तूनामुत्तमो निधिः । ऽतथा धर्मश्च कामश्चऽ इति पाठे प्रजानामिति राजेति च शेषः । द्रव्याणामिति प्राग्वदेव । यतो धनादिकं राजमूलम् अतो राजा प्रजानां धर्मादिरूप इत्यर्थः । शुभं कामम् ॥ ३।५०।१० ॥

एवंभूतराजधर्महीने त्वयि कथमैश्वर्यागम इत्याहपापेति । दुष्कृती स्वायोग्यं देवयानमिव ॥ ३।५०।११ ॥

नन्वैश्वर्येण पुण्यमपि मय्यनुमीयतां तत्राह–कामेति । यः पुमान्कामस्वभावो भवति सो ऽसौ तं स्वभावं प्रमार्जितुं न शक्यः । तन्मार्जनं हि “धर्मेण पापमपनुदति” इति श्रुतेर्धर्मेण स्यान्न च तस्मिन्नस्तीत्याहनहीति । यस्माद्दुष्टात्मनामालय आर्यं पूज्यं पुण्यं चिरं चिरकालेनापि नावसति ॥ ३।५०।१२ ॥

यदा रामः यस्माद्राम इत्यर्थः ॥ ३।५०।१३ ॥

अनपरादो ऽसिद्धः खरादिवधादित्यशङ्क्याहयदीति । अनपराधे हेतुःपूर्वमतिवृत्तो ऽतिक्रन्तोचितवृत्तः ॥ ३।५०।१४ ॥

गमिष्यसीत्यत्र काकुः न जीवन् गमिष्यसीत्यर्थः ॥ ३।५०।१५ ॥

त्वा त्वां घोरेण चक्षुषा मा दहेत् । राम इति शेषः । इन्द्रशनिरिन्द्रप्रयुक्तं वज्रम् ॥ ३।५०।१६,१७ ॥

भारो भारवद्द्रव्यम् । अनामयं रोगानुत्पादकम् ॥ ३।५०।१८ ॥

यत्कर्मं कृत्वा धर्मः कीर्तिः पारलैकिकी पुण्यातिशयजा बलाद्यैश्वर्यातिशयजं यशस्तन्न भवेन्नोत्पद्येत् पूर्वार्जितं च धर्मादि न भवेन्नश्येत् । किं च येन शरीरस्य खेदस्तत्कर्म कस्त्वद्भिन्नः समाचरेत् न को ऽपीत्यर्थः ॥ ३।५०।१९ ॥

षष्टिवर्षसहस्राणि गतानीत्यर्थः । राज्यम् पक्षिराज्यमित्यर्थः । पितृपैतामहं पितृपितामहेभ्य आगतमित्यर्थः ॥ ३।५०।२० ॥

मे वैदेहीं दशरथमित्रत्वान्मम स्नुषां वैदेहीमादाय न कुशली गमिष्यसीत्यर्थः ॥ ३।५०।२१ ॥

मम पश्यतः मां पश्यन्तमनादृत्येत्यर्थः । न्यायसंयुक्तैवैशेषिकाद्युक्ततर्काभासयुक्तैर्हेतुभिर्हैत्वाभासैर्ध्रुवां सनातनीं धर्मब्रह्मपरां वेदश्रुतिम् । छान्दसो दीर्घः । तच्छास्त्राध्येता यथा पूर्वापरमीमांसान्यायविदो ऽग्रे हर्तुमन्यथा कर्तुं न शक्नोति तद्वदित्यर्थः ॥ ३।५०।२२ ॥

मुहूर्तं रामागमनपर्यन्तम् ॥ ३।५०।२३ ॥

संयुगे रामेणेति शेषः । न वधिष्यति अपि तु वधिष्यतीत्यर्थः । अनेन रामस्येश्वरत्वं व्यङ्ग्यम् ॥ ३।५०।२४ ॥

नश्यसे पलायसि । न संशयः इत्यन्वयः ॥ ३।५०।२५ ॥

जीवमानस्य जीवतः । नयिष्यसि नेष्यसि ॥ ३।५०।२६,२७ ॥

यथाप्राणम् यथाबलमित्यर्थः ॥ ३।५०।२८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चाशः सर्गः ॥ ३।५० ॥