हस्ते हस्तं समाहन्य समाहत्येत्यर्थः, विनिष्पीड्येति यावत् । महिषादयस्त्रियैव हतास्तथा कदाचिदेषा हरणसमये क्रौर्यं कुर्यादिति शङ्क्या क्रूरस्वीयमहद्रूपाङ्गीकारः । यद्वा कपटेनापि शान्तस्वभावयतिवेषधारणात्तद्वेषस्वाभाव्येन हरणे स्वस्य प्रतिबद्धतां दृष्ट्वा स्वरूपग्रहणम् । मम रावणस्याप्ययं वेषः क्रौर्यप्रतिबन्धक इत्यतश्च हस्ते हस्ताघात इत्यतश्च बोध्यम् ॥ ३।४९।१ ॥
न श्रुतौ अग्रे वक्ष्यमाणाविति शेषः ॥ ३।४९।२ ॥
तानेवाह– उद्वहेयमित्यादि । आपिबेयमिति ॥ ३।४९।३ ॥
कामेन चित्तजेन रूपेण च उन्मत्ते इत्यर्थः ॥ ३।४९।४ ॥
हरिपर्यन्ते श्यामप्रान्ते ॥ ३।४९।५ ॥
सौम्यं भिक्षुरूपं तीक्ष्णरूपं प्रशस्ततीक्ष्णं रूपं मृत्युतुल्यरूपं भेजे ॥ ३।४९।६,७ ॥
परिव्राजकच्छद्म कपटपरिव्राजकरूपम् ॥ ३।४९।८,९ ॥
भास्करस्य प्रभामिव तस्या अपि पर्यन्ते श्यामरूपतायाश्छान्दोग्य उक्तिः ॥ ३।४९।१०१२ ॥
मानुषो भावो मनुष्यरामविषयको भावः स्नेहबन्धः ॥ ३।४९।१३,१४ ॥
प्रियवादिनीम् रावणादन्यत्रेति शेषः ॥ ३।४९।१५ ॥
काममोहितो जग्राहेत्यत्यन्तानौचित्ये दृष्टान्तः । बुधः खे रोहिणीमिव । खे आकाशे शून्ये च । रौहिणेयो बुधो रोहिणीं स्वमातरं यदि कामाद्गृह्णीयात्तदा तत्सदृशमिदं घोरं यद्यर्थोक्तौ च कल्पनमित्यतिशयोक्तिरत्र व्यङ्ग्या । सीतया सद्यो मरणपर्यवसायिशापादानं तु समूलनाशनस्य वेदवत्यंशेन प्रतिज्ञातस्य निर्बाहाय ऋषीणां देवानामग्रे रामप्रतिज्ञातस्य च निर्वाहाय ॥ ३।४९।१६ ॥
वामेनेति । अननुरक्ततया शापदानभिया । स्ववामाङ्गासनत्वनिवारणायैवं ग्रहणमित्याहुः ॥ ३।४९।१७१९ ॥
परुषैरितः परं रामप्रत्याशा त्याज्येत्येवमादिभिः । अङ्केन हस्तान्तरैरित्यर्थः ॥ ३।४९।२० ॥
अतिचुक्रोशेत्यादि तच्छायाया अपि मनुष्यभावनाट्यम् ॥ ३।४९।२१ ॥
अकामां विरागिणीम् । विचेष्टमानां तत आत्मानं मोचयितुम् ॥ ३।४९।२२ ॥
मत्तेवातिदुःखवशादुन्मत्तेव तथा भ्रान्तचित्तातुरा शोकातुरा यथा क्रोशति तथा चुक्रोश । अत्रेवयथाभ्यां सर्वचेष्टानां नाट्यत्वं सूचितम् ॥ ३।४९।२३२५ ॥
ननु नामेति प्रसिद्धौ । विनेता शिक्षकः । न शाधि प्राप्तकालं शासनं न करोषि । हिर्वाक्यालङ्कारे । शोकातुरत्वाद्वा ऽधिकपदं न दोषाय ॥ ३।४९।२६ ॥
स्वयमेव तत्र हेतुमुन्नयति नन्विति । अविनीतस्य पुरुषस्याविनयरूपकर्मणः फलं सद्यो न दृश्यते । यतस्तत्र कालो ऽप्यङ्गीभवति सहकारिकारणं भवति । पक्तिः पाकः ॥ ३।४९।२७ ॥
अधुना स्वेष्टं शापमाह त्वमिति । व्यसनं पुत्रपौत्रादिनाशरूपम् ॥ ३।४९।२८ ॥
सकामा तु जातेति शेषः । यत इत्यादिः ॥ ३।४९।२९ ॥
हरतीति शंसध्वमिति संबन्धः ॥ ३।४९।३०३३ ॥
ते सीतेत्यन्वयः ॥ ३।४९।३४ ॥
अमुत्रापि परलोके ऽपि गता वैवस्वतहृतामपि मां विदित्वा पराक्रम्य पराक्रमं कृत्वा नेष्यत्येव, अतो यूयं शंसतेत्यन्वयः ॥ ३।४९।३५ ॥
गृध्रं जटायुषम् ॥ ३।४९।३६३८ ॥
“तुभ्यम्” इति पाठे त्वयेत्यर्थे आपि तत् । न शक्य इत्यत्र हेतुः सत्त्ववानित्यादि ॥ ३।४९।३९,४० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥ ३।४९ ॥