एवमिति । परुषम् क्रोधावेशेन वर्णानां चर्वणेनैवोच्चारणाच्छ्रुतिकट्वक्षरमित्यर्थः । संरब्धः क्रुद्धः ॥ ३।४८।१ ॥
सापत्नः शिवाद्यणम् । “सापत्ने” इति पाठे मातृसपत्नीपुत्रत्वे प्रसिद्ध इत्यर्थः । भ्रातेत्यत्र च “साक्षात्” इति तदा पाठः । एतेन कुलप्राशस्त्यमुक्तम् ॥ ३।४८।२,३ ॥
वैमात्रः प्राग्वत् । “द्वैमात्रः” इति पाठे द्वितीया माता द्विमाता । तदपत्यमित्यर्थे “मातुरुत्” इत्युत्वाभाव आर्षः । अस्य द्विशब्दस्य द्विपूरणार्थत्वे ऽपि सङ्ख्यार्थत्वाभावान्नोत्वमित्यन्ये । कारणान्तरे निमित्तविशेषे । द्वन्द्वं द्वन्द्वयुद्धम् आसादितः प्रापितः ॥ ३।४८।४ ॥
स्वमधिष्ठानं स्वां पुरीं लङ्काम् । कैलासाश्रयणं प्रबलाश्रयणबुद्ध्या ॥ ३।४८।५ ॥
येन पुष्पकेण । वीर्यादावर्जितमाच्छिद्य गृहीतम् । मयेति शेषः ॥ ३।४८।६,७ ॥
तीव्रांशुरपि मम भयाच्छिशिरांशुः संपद्यते ॥ ३।४८।८ ॥
यत्र चरामि येन मार्गेण गच्छामीति यावत् । यत्र च तिष्ठामि तत्र भवन्तीत्यन्वयः ॥ ३।४८।९ ॥
समुद्रस्य पारे मम लङ्का नाम पुरीत्यन्वयः ॥ ३।४८।१० ॥
प्राकारस्य पाण्डुरत्वं सुधालेपाद्राजतत्वाद्वा । हेम्नः कक्ष्या अवच्छदा यस्यां सा । तारेण पुरद्वारम् ॥ ३।४८।११,१२ ॥
मानुषीणां नारीणां न स्मरिष्यसि । शेषे षष्ठी । मन्नगरे दिव्यनारीसमागमादिति भावः । युगपन्मानुषदिव्यभोगस्तत्रान्यत्र तूभयं युगपद्दुर्लभमिति भावः ॥ ३।४८।१३ ॥
गतायुष एकादशसहस्रसङ्ख्यया मितायुषः । खरादिवधजक्रोधेन मया वधाद्वा तत्त्वम् ॥ ३।४८।१४ ॥
यो रामो मन्दवीर्य इति ज्ञात्वा ज्येष्ठो ऽपि राज्ये प्रियं भरतं स्थापयित्वा वनं प्रस्थापितः ॥ ३।४८।१५ ॥
तेन गतचेतसा किं करिष्यसीत्यन्वयः । भ्रष्टराज्यत्वाच्चेतोहीनत्वम् । तापसेन तपस्विना तापसश्रेष्ठतपस्विना । यद्वा तापसेन शोच्यत्वेन । तपस्विना ऽशूरेण ॥ ३।४८।१६ ॥
“रक्ष रक्षणे” रक्ष पालय ॥ ३।४८।१७ ॥
उर्वशी पुरूरवसं चरणेनाभिहत्य यथा पश्चात्तापं गतेति पुराणेषु प्रसिद्धम् । तथा पश्चात्तापं गमिष्यसि ॥ ३।४८।१८ ॥
अङ्गुल्या न समो ऽङ्गुलीबलेनापि तुल्यो न । अनेन मया नीतां पुना राम आनयिष्यतीति न शङ्क्यमिति भावः । संप्राप्तम् मामिति शेषः ॥ ३।४८।१९,२० ॥
रहिते रामरहिते आश्रमे स्थिति शेषः । ईदृशवंश्यस्येदृशं कृत्यमनुचितमिति मिथ्यैवान्यवंशं स्ववंशत्वेन कथयसीति व्यङ्ग्यम् ॥ ३।४८।२१ ॥
एवंभूतस्य राज्ञः प्रजानां सर्वथा नाशः । मम नयने सर्वजीवितच्छेद एवेति भावः ॥ ३।४८।२२,२३ ॥
अप्रतिरूपरूपामनुपमसौन्दर्याम् । मोक्षः मृत्योरिति शेषः । अतिमलिनान्तःकरणत्वान्मोक्षो ज्ञानैकप्राप्यस्तव नास्त्येवेति भावः ॥ ३।४८।२४ ॥
अत्र सर्गे रावणोक्तौ– “सप्तसप्तकवेत्ताहमष्टाष्टकविभूषितः । पञ्चपञ्चकतत्त्वज्ञो रावणो ऽहं भजस्व माम् । इति श्लोकः क्वचित्पठ्यते । तमेवं व्याचक्षते– सप्तसप्तकं षडङ्गसहितवेदोपवेदसहितचतुर्दशविद्यारूपं तद्वेत्ता । अष्टाष्टकविभूषितश्चतुःषष्टिकलाभूषितः । पञ्चपञ्चकतत्त्वज्ञः पञ्चविंशतितत्त्वज्ञः पञ्चविंशतितत्त्वस्वारूपवेत्ता । नित्यानित्यवस्तुविवेकवानिति यावत् इति । स कतकाद्यव्याख्यातत्वात्प्रक्षिप्त इति ज्ञायते । आद्यपादे ऽर्थासंगतिरपि । परपादपर्यालोचनया तृतीयपादोक्तज्ञानवत ईदृशे कर्मणि प्रवृत्तिरप्यनुचितेति भाति ॥ ३।४८।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ३।४८ ॥