रावणेन त्विति । आत्मानं जिहीर्षुणा परिव्राजकरूपेण रावणेन पृष्टा वैदेही आत्मना स्वयमेवात्मानं शशंस ॥ ३।४७।१ ॥
ननु पूजामात्रं कर्तव्यं किं प्रतिवचनेनेत्याह ब्राह्मणश्चेति । एष अनुक्त इत्यार्षो ऽसन्धिः । अनुक्तो ऽनुक्तप्रतिवचनः ॥ ३।४७।२,३ ॥
सर्वकामसमृद्धिनी । व्रीह्यादित्वादिनिः ॥ ३।४७।४ ॥
राजमन्त्रिभी राज्ञो राज्यनिर्वाहकैर्मन्त्रिभिरित्यर्थः ॥ ३।४७।५ ॥
संभ्रियमाणे । संपाद्यमानसंभारे इत्यर्थः । भर्तारं दशरथम् ममार्या मम पूज्या श्वश्रूः । “अनार्या” इति क्वचित्पाठः ॥ ३।४७।६ ॥
मे श्वशुरं सुकृतेन परिगृह्य वररूपेण सुकृतेन वशीकृत्य । यद्वा धर्मेण शापयित्वेत्यर्थः । मम भर्तुः प्रव्राजनं भरतस्याभिषेचनमिति द्वौ वरावयाचत ॥ ३।४७।७९ ॥
अन्वर्थैरनुगतार्थैः सप्रयोजनैरुपभोगक्षमैरर्थैरयाचत । सर्वाण्युत्तमवस्तूनि तुभ्यं दास्यामि रामाभिषेचने विघ्नं मा कुर्विति याच्यमाना न याच्ञां चकार नाङ्गीकृतवती । वयसा पञ्चविंशकः । वननिर्गमनकाल इति शेषः । नन्विदमयुक्तम् । “ऊनषोडशवर्षो ऽयम्” इति विश्वामित्रं प्रति दशरथोक्तेः । “उषित्वा द्वादश समाः” इत्यत्रोक्तेश्चेति चेन्न । अल्पान्तरत्वात् । अतितरुणावस्थायामपि राज्यं त्यक्तवानित्यर्थे तात्पर्येणास्थया तथोक्तेः । यद्वातिक्रान्तपञ्चविंशक इत्यर्थः । मम भर्ता वयसा महातेजाः । अतितरुण इत्यर्थः । पञ्चविंशकः साङ्ख्यसिद्धं पञ्चविंशं तत्त्वं चैतन्यं सो ऽयमेव । एतच्चैतन्येनैव जगद्व्याप्तं न ततो ऽधिकं किञ्चिदस्तीति सूचयितुं तथोक्तिरिति तत्त्वम् ॥ ३।४७।१० ॥
तथा मम जन्मतो वनप्रवेशसमये ऽतीतानीत्यर्थः । गण्यत इत्यार्षमेकत्वम् । मम पञ्चतन्मात्रपञ्चमहाभूतपञ्चेन्द्रियाहङ्कारबुद्धिमनोरूपाण्यष्टादश वर्षाणि पर्वाणि जन्मनि कार्ये गण्यन्त इति तन्मूलीभूता प्रकृतिरहमिति सूचितम् ॥ ३।४७।११ ॥
कामार्तः कैकेयीकामार्तः ॥ ३।४७।१२१५ ॥
अनृतान्मोचय । तद्दत्तवरानुपालनेनेति शेषः ॥ ३।४७।१६,१७ ॥
वैमात्रः । शुभ्रादिषु विमातृशब्दपाठे ऽप्यार्षो ऽण् । असहोदरो भ्रातेत्यर्थः । विभिन्नाया मातुरपत्यं वैमात्रः ॥ ३।४७।१८२० ॥
कैकेय्याः कृते तन्निमित्तम् ॥ ३।४७।२१ ॥
यदि वस्तुं शक्यं तर्हि मुहूर्तं समाश्वस । विश्रमं कुर्वित्यर्थः ॥ ३।४७।२२ ॥
हत्वा आदायेतिच्छेदः । आदनमादस्तदर्थमित्यर्थः ॥ ३।४७।२३ ॥
गोत्रमार्षम् । कुलं प्रसिद्धवंश्यकृतम् । यद्वा गोत्रं पितृकुलम् । कुलं मातुः ॥ ३।४७।२४२६ ॥
दृष्ट्वा पूर्वं श्रुत्वा । अद्य दृष्ट्वा चेत्यर्थः ॥ ३।४७।२७२९ ॥
वनेषूपवनेषु ॥ ३।४७।३० ॥
पञ्चेत्यादि । रक्षोयोनौ तमोगुणप्रधानायां जातत्वादुद्रिक्ततमसा भगवन्मायया ज्ञानाच्छादनादेवमुक्तिः । सर्वथा तत्त्वज्ञो रावणः कथमेवं वदेदिति तु श्रद्धाजाड्यमेव । तत्त्वज्ञचिह्नानुपलम्भात् । सीतारामौ सर्वेश्वरावित्येतन्मात्रज्ञानं रावणस्यास्त्येवेत्यपि श्रद्धाजाड्यमेव । विष्णुपुराणादिविरोधात् । तथा चोक्तं विष्णुपुराणे– “मैत्रेय उवाच– हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगानप्राप्यानमरैरपि ॥ न लयं तत्र तेनैव निहतः स कथं पुनः । संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृतां वर । कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ पराशर उवाच– दैत्येश्वरस्य तु वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणापूर्वां तनुं गृह्णन्तां नृसिंहरूपमाविष्कृतम् । तत्र हिरण्यकशिपोर्विष्णुरयमित्येवं न मनस्यभूत् । निरतिशयपुण्यजातसंभूतमेतत्सत्त्वमिति रजउद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततो ऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे भोगसंपदमवाप । नातस्तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालम्बनीकृते मनसस्तत्र लयम् । दशाननत्वे ऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसो दाशरथिरूपधारिणस्तद्रूपदर्शनमेवासीत् । नायमच्युत इत्यासक्तिर्विपद्यतो ऽन्तःकरणस्य मानुषबुद्धिरेव केवलमभूत् । विपद्यत इति विपद्यतो ऽपीत्यर्थः । तस्मिन्नपि समये विष्णुत्वबुद्धिर्नासीदिति भावः । पुनरच्युतविनिपातनमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुलजन्माव्याहतं चैश्वर्यं शिशुपालत्वे चावाप । तत्र त्वखिलान्येव भगवन्नामकारणान्यभवन् । नामानि गोविन्दादीनि कारणानि गवां रक्षणादिनीत्यर्थः । ततश्च तत्कारणकृतानां तेषामशेषाणामेवाच्युतनाम्नामनवरतमनेकजन्मसंवर्धितविद्वेषानुबन्धिचित्तो निनिन्दन्सन्तर्जनादिषूच्चारणमकरोत् । तच्च रूपमुत्फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधार्यमलकिरीटकेयूरकटकोपशोभितमुदारपीवरचतुर्बाहुशङ्खचक्रगदाधरमतिप्रौढवैरानुभवादटनभोजनस्नानासनशयनादिष्ववस्थान्तरेषु नैवापययावस्यात्मचेतसः । ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदये धारयन्नात्मवधाय भगवदस्त्रचक्रांशुमालोज्ज्वलमक्षय्यतेजःस्वरूपं परमब्रह्मस्वरूपमपगतरागद्वेषादिदोषं भगवन्तमद्राक्षीत् । तावच्च भगवच्चक्रेणाशु व्यापादितः । तेन तत्स्मरणदग्धाखिलाघसञ्चयो भगवतैवान्तमुपनीतस्तस्मिन्नेव लयमुपययौ । एतत्तवाभिहितम् । भगवानिह कीर्तितः संस्पृतश्च द्वेषानुबन्धेनाप्यखिलसुरासुरादिदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमन्तमिति । लोकदृष्ट्या तु सीतासादृश्यात्सीताबुद्ध्या हरणाच्चाततायित्वसंपत्त्या तद्वधे भगवतः प्रवृत्तिः । एवं चेदृशोक्तीनां यद्वातद्वाप्रकारेणान्यथा योजनप्रयासस्तीर्थादीनां विफल एव । विष्णुपुराणोक्तरीत्यैव भागवत उक्तम्– “एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्” इति । एते इत्यनेन पूर्वोक्ता अवतारा ऋष्यादयश्च परामृश्यन्ते पुंसः परमेश्वरस्य । तत्रावतारा अंशा ऋष्यादयः कलाः । यद्यपि कृष्णो ऽप्यंश एव । तत्रैव दशमे “तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः” इत्याद्युक्तेः । “उज्जहारात्मनः केशौ सितकृष्णौ महामुने इति विष्णुपुराणाद्युक्तेः । द्वितीये भागवते ऽप्येवमेव । भारते ऽप्येवमेव । एतेन तत्रांशेनावतीर्णस्येत्यादिदशमस्थश्लोकव्याख्यानमपास्तम् । तथापि तत्तत्कारणकृतनाम्नां तत्र लाभाद्बहुशो ज्ञानकार्यनाटनाच्च शङ्खचक्रादीनां प्रत्यक्षतो दर्शनाच्च स्वयं भगवानित्युक्तिः । नैतावता रामाद्यवताराणां ततो न्यूनत्त्वमिति भ्रमः कार्यः । श्रीधरो ऽपि मत्स्याद्यवताराणां सर्वज्ञत्त्वसर्वशक्तिमत्त्वे ऽपि यावदुपयोगमेव ज्ञानशक्त्याविष्कारः । अज्ञानाविष्कारश्च बहुशः । कृष्णे त्वन्त्यो ऽल्पः । यथाभिमन्युमरणे नाहं तत्र संनिहित आसमतस्तस्य मरणमिति । यथा द्रौपद्याः सभायां नयनकाले नाहं द्वारकायां संनिहितः किंतु सौभवधार्थं गतो ऽतो भवतामयं क्लेश इति । सौभवधे च मायिकं मृतवसुदेवशरीरं दृष्ट्वा । मोह इत्याद्यज्ञाननाट्यमल्पम् । रामावतारे ऽपि ज्ञानाविष्कारस्तत्र तत्र दर्शितो दर्शयिष्यते च । अवताराश्चेमे विराज एवांशाः । भागवते प्रथमे तृतीये ऽध्याये– “जगृहे पौरुषं रूपं भगवान्महदादिभिः । संभूतं षोडशकलमादौ लोकसिसृक्षया ॥ " इत्यादिना वैराजं रूपमुक्त्वा “एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥
" इत्युक्तेः । एतदुक्तं वैराजं निधानं कार्यावसाने प्रवेशस्थानम् । बीजमुद्गमकारणम् अव्ययं स्वयं चिरस्थायि । न केवलमवताराणामेव बीजं किं तु सर्वेषामित्याह– यस्येति । यद्यपि विराट् जीव एव तथापि तदन्तर्यामिणस्तथोपासनायैवमुक्तम् । सितकृष्णकेशोद्धारेण च तेषां मूर्धन्यत्वेन मुख्यत्वात्तद्वन्मुख्ययोः प्रधानयोर्मदंशयोस्तत्वज्ञयोस्तद्वणयोर्वैकुण्ठस्थभूतलस्थयोर्विष्णुशेषयोरवतार इति सूचितम् । अत एवान्ते कृष्णं प्रति देवदूतेन त्वां विना स्वर्गो न शोभते ऽतस्त्वमागच्छेति निवेदितमिति स्पष्टं पुराणेषु । अत्र रामं प्रत्यपि तथैवोक्तम् । अंशत्वं चैषामौपाधिकम् । मायायाः सांशत्वादित्यलम् ॥ ३।४७।३१ ॥
रावणेति । कुपिता कुपितेव ॥ ३।४७।३२ ॥
पर्वतसमुद्रोपमाभ्यां धैर्यगाम्भीर्ये दर्शिते ॥ ३।४७।३३ ॥
न्यग्रोधपरिमण्डलं तत्सदृशपरिणाहं तद्वत्सर्वाश्रयं च राममुद्दिश्यानुसरणमेव व्रतं यस्याः सा ॥ ३।४७।३४ ॥
सिंहस्य विक्रान्तं पदक्षेपस्तद्वत्पदनिक्षेपेण सगर्वगमनशीलम् । सिंहसङ्काशं पराक्रमे इति भावः । नृसिंहमित्यस्य हिरण्यकशिपुहन्तृत्वं व्यङ्ग्यम् ॥ ३।४७।३५ ॥
राजा चासौ वत्सः “श्रेष्ठराजस्तम्” यद्वा दशरथपुत्रम् ॥ ३।४७।३६ ॥
यथादित्यप्रभादित्यात्पृथक्कृत्य केनापि स्प्रष्टुमशक्या, तथाह शक्तिशक्तिमतोरवियोगादिति गूढम् ॥ ३।४७।३७ ॥
काञ्चनवृक्षदर्शनं मुमूर्षुलक्षणम् । मन्दं क्षीणमायुरादि भजति स मन्दभाक् ॥ ३।४७।३८ ॥
क्षुधितस्य सिंहस्य सर्पस्य वदनाद्दंष्ट्राग्रहणेच्छासदृशी मदिच्छा । एषु सर्वत्र निदर्शनालङ्कारः ॥ ३।४७।३९,४० ॥
लेढि लेक्षि ॥ ३।४७।४१४४ ॥
स्यन्दनिका क्षुद्रनदी । सुराग्र्यममृतम् । सौवरिकमारनालं काञ्जिकम् ॥ ३।४७।४५ ॥
काञ्चनसीसरूपलोहयोरित्यर्थः । हस्ती गजः । बिडालो मार्जारः ॥ ३।४७।४६ ॥
मद्गुर्जलकाकः ॥ ३।४७।४७ ॥
जरां जीर्णावस्थां सुखोदर्काम् । मक्षिकया ऽवगीर्णं भुक्तभाज्यं यथा तां नाशयति तद्वत् ॥ ३।४७।४८ ॥
इतीवेत्येवम् । सुदुष्टमत्यन्तदुःखजनकं तत्पूर्वोक्तं वाक्यम् । वातोद्धता महावातप्रकम्प्यमाना ॥ ३।४७।४९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ३।४७ ॥