०४५ सीतादुर्वचनात्-लक्ष्मणनिर्गमनम्

अथ सीता रामविषयशोकनाटनेन लक्ष्मणमुद्वासयति– आर्तेति । भर्तुः स्वरेण सदृशं स्वरम् भर्तुः स्वर इत्येव ज्ञात्वेत्यर्थः ॥ ३।४५।१ ॥

क्रोशतो रामस्य ॥ ३।४५।२,३ ॥

आज्ञाय शासनम् । “अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया” इत्युक्तमनुचिन्त्येत्यर्थः ॥ ३।४५।४ ॥

क्षुभिता क्षुभितेव । शत्रुवच्छत्रुयोग्यवृत्तः ॥ ३।४५।५ ॥

तदेवाह– यस्त्वमिति । नाभिपद्यसे न प्राप्तो भवसि । मत्कृते मत्परिग्रहार्थम् ॥ ३।४५।६,७ ॥

विस्रब्धं विश्वस्तं यथा तथा । “विश्रब्धः” इति पाठान्तरम् । त्वद्रक्षणं विहाय कथं गच्छामीत्यत्राह किं हीति । यो रामः प्रधानं यस्य स यत्प्रधानस्त्वमिहागतस्तस्मिन्रामे संशयमापन्ने सति मया तिष्ठन्त्या त्वद्रक्षणेन जीवन्त्या किं कर्तव्यं भवेत् तदभावे मरणमेव श्रेयः, तद्येन केनापि भवतु रक्षसा वान्येन जन्तुना वा स्वतो वह्निप्रवेशादिना वेति भावः । अत्रायं ध्वनिः राक्षससंहारप्रधानकार्यकरणायागतस्य तव त्वद्भ्रातुर्वा तस्मिन्कार्ये इह मदवस्थित्या संशयमापन्ने इह जीवन्त्या मया किं कार्यं भवेत् । सर्वत्रोत्त्पत्तिस्थितिसंहारेषु तव भ्रातुरहमेव सहकारिणी प्रकृतश्च संहारो ऽत्र मत्स्थित्या न निवर्तत इति ॥ ३।४५।८,९ ॥

एवं बोधिततत्त्वो ऽपि मानुष्यनाटनेन लोकव्यवाहारानुसाराल्लक्ष्मणो ऽवददित्याह– अब्रवीदिति ॥ ३।४५।१०,११ ॥

न स विद्येत नश्येदेवेत्यर्थः ॥ ३।४५।१२ ॥

न स विद्येतेत्युक्तम्, तत्र स कस्तत्राह– यो राममिति ॥ ३।४५।१३ ॥

बलवतामिन्द्रादीनामपि बलैस्तस्य बलमनिवार्यमधृष्यम् ॥ ३।४५।१४ ॥

तव त्वया ॥ ३।४५।१५ ॥

स स्वरो व्यक्तं स्पष्टं तस्य रामस्य न भवति । दैवतः अशरीरदेवतासंबन्धी कश्चित्स्वर इत्यपि नेत्यर्थः । तदापि शङ्का युक्ता न त्वेवमपीत्यर्थः ॥ ३।४५।१६ ॥

किं तर्हि गन्धर्वनगरप्रख्या तद्वन्मिथ्या तस्य रक्षसो मायैव वञ्चनार्थं तत्कृतो ऽयं स्वर इत्यर्थः । त्वं न्यासरूपतया मयि निक्षिप्तासि, अतस्त्वां त्यक्तुं नोत्सहे इत्युत्तरेणान्वयः ॥ ३।४५।१७,१८ ॥

खरस्य निधने रामेण कृते सति जनस्थानवधं जनस्थानवर्तिस्वपरिकररक्षोवधं प्रतिलक्ष्य कृतवैर इत्यन्वयः । व्याहरन्त्यस्मद्व्यामोहनार्थम्, अतस्त्वां त्यक्तुं नोत्सहे ॥ ३।४५।१९ ॥

हिंसैव साधुजनपीडैव विहारो येषां ते तथा । इदं पूर्वान्वयि । अतस्त्वं रामस्य क्लेशं न चिन्तयेतुमर्हसि ॥ ३।४५।२० ॥

अनार्यकरुणारम्भ, अनार्यया कुत्सितया करुणया रामव्यसने ऽपि मद्विषयारम्भो मद्रक्षणारम्भो यस्य तत्संबोधनम् ॥ ३।४५।२१ ॥

ते रामव्यसनप्रियत्वेन । अत्र रामव्यसनं रामस्य प्रतिज्ञातार्थस्य सर्वरक्षोवधरूपस्य हानिस्तत्प्रियत्वेनेति गूढं तात्पर्यम् । अत एषा मद्विषया करुणानायां कुत्सिता । प्रधानकार्यविरोधित्वादिति बोध्यम् ॥ ३।४५।२२ ॥

अथ पुनर्नटवदाह नैवेत्यादि । सपत्नेषु ज्ञातित्वात् ॥ ३।४५।२३ ॥

सुदुष्टः सुतरां दुष्टहृदयः ॥ ३।४५।२४ ॥

तन्न सिध्यति मत्परिग्रहरूपम् ॥ ३।४५।२५ ॥

उपसंश्रित्योपयुज्य ॥ ३।४५।२६२८ ॥

अप्रतिरूपमत्यन्तानुचितम् ॥ ३।४५।२९ ॥

तीक्ष्णाः क्रूराः भेदकराः । “कुञो हेतुः” इति टः । सुतभ्रातृपित्रादेरिति शेषः ॥ ३।४५।३० ॥

वनेचराः देवा इति शेषः ॥ ३।४५।३१ ॥

यत्परुषमुक्तस्तदुपशृण्वन्त्विति योजना । यद्यस्मान्मामेवं वागगोचरदुर्भाववन्तं विशङ्कसे तत एव दोषादद्य विनश्यन्तीमासन्नविनाशां विपरीतमतिं त्वा त्वां धिगित्यर्थः । अत्र नशेर्नाशेच्छार्थः तेन राक्षसकुलस्य नाशेच्छावतीं त्वां धिक् । यतो यदर्थं मामेवं विशङ्कसे वदसि इति गूढम् । यद्वा विनश्यन्तीं शक्तितया प्रतिक्षणं परिणामरूपेण विनश्यन्तीं त्वां धिक् । यन्मां त्वदस्पृष्टं त्वदाक्रमणायोग्यमेवं विशङ्कसे । त्वदाक्रान्तेषु किलैवं संभावनेति ॥ ३।४५।३२ ॥

पुनर्वेषानुसारेणाह– स्त्रीत्वदिति । स्त्रीत्वाद्दुष्टस्वभावेन क्रौर्येण युता त्वं गुरुवाक्ये ज्येष्ठनियोगे स्थितं मामेवं ब्रूषे इति शेषः । अतो यव काकुत्स्थस्तव गच्छामि गमिष्ये ते स्वस्त्यस्तु । सर्वत इति शेषः ॥ ३।४५।३३ ॥

यानि घोराणि निमित्तानि मे प्रादुर्भवन्ति तस्त्वत्पीढां शङ्कमानो ऽहं रामेण सह पुनरागतस्त्वां पश्येयम् । एतदपि संभवेदित्यर्थः ॥ ३।४५।३४ ॥

किमनेन सामान्यपुरुषप्रसङ्गः शङ्क्य इति मन्यमाना स्वादार्ढ्यं प्रकाशयति– लक्ष्मणेनेति ॥ ३।४५।३५ ॥

आबन्धिष्ये । रज्ज्वा कण्ठमिति शेषः । विषमे भृग्वादिविषमे स्थित्वा । ततः प्रपातेनेति शेषः ॥ ३।४५।३६ ॥

सर्वथा कर्तव्यमर्थमाह– प्रवेक्ष्यामि हुताशनम् । अत एवात्र वाशब्दानुक्तिः । अनेन साक्षाद्रावणगृहं न गमिष्यामि, किं त्वहं स्वरूपेणाग्रौ स्थित्वा माययैव तद्धस्तं गमिष्यामीति ध्वनितम् । तदुक्तं कूर्मपुराणे– “रामस्य सुभगां भार्यां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालनोदितः ॥ गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्तुं मनश्चक्रे तापसः किल कामिनीम् । विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।” तद्भावं लङ्कायामेव हृदि कृतम् तापसो भूत्वा हरिष्यामीति भावमित्यर्थः । “जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ प्रपद्ये पावकं देवं साक्षिणं विश्वतोमुखम् । आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् ॥ " इत्याद्यष्टश्लोकानुक्त्वा “इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्तीं मनसा तस्थौ राममुन्मीलितेक्षणा । अथावसथ्याद्भगवान्हव्यवाहो महेश्वरः ।

आविरासीत्सुदीप्तात्मा तेजसा निर्दहन्निव ॥ सृष्ट्वा मायामयीं सीतां स रावणवधेच्छया । सीतामादाय रामेष्टां पावको ऽन्तरधीयत ॥ कृत्वा तु रावणवधं रामो लक्ष्मणसंयुतः । समादायाभवत्सीतां शङ्काकुलितमानसः ॥ सा प्रत्ययाय भूतानां सीता मायामयी पुनः । विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम् ॥ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत्सीतां पावको ऽसौ सुरप्रियः ॥ एतत्पतिव्रतानां वै माहात्म्यं कथितं मया । स्त्रीणां सर्वाधिशमनं प्रायश्चित्तमिदं स्मृतम् ॥ " इत्युत्तरखण्डे चतुस्त्रिंशेऽध्याये अनेन स्त्रीणां जातिभ्रंशकरापदि अग्निप्रवेशो न दोषाय सर्वप्रायश्चित्तं चेति ध्वनितम् । कदाप्यन्यं पुरुषं न स्पृशे इत्यन्वयः । अत्र पत्यसांनिध्य इति शेषः । तेन विराधस्पर्शेऽपि न हानिः तदा पतिसंनिधानात् । किं च साक्षाद्भगवतीस्पर्शे रावणो विराधवत्तत्क्षणादेव म्रियेत, एवं च सर्वराक्षसवधो न स्यादिति मायासीतारचना । किं चास्य कार्यं हनुमत्पुच्छाग्निना लङ्कादाहः । अन्यथा रावणवशेन लोकपालाग्निना कथं तन्नगरदाहः स्यात् । एतच्छक्तिप्रवेशे न तु तत्कार्यसामर्थ्यं तस्येति मन्तव्यम् । किञ्चैवं प्रतिज्ञाय रावणस्पर्शे जगन्मातुः प्रतिज्ञाभङ्गः स्यात् ॥

३।४५।३७ ॥

आश्रुत्य लक्ष्मणं प्रति प्रतिज्ञाय दुःखात्सकलकरणतापादिव । उदरं प्रजघानेत्यनेन सर्वरक्षोमरणं विना न मे उदरपूर्तिरिति सूचितम् । अन्यथा शोके वक्षआघातस्यैव स्त्रीषु प्रसिद्धधा सङ्गतिः स्यात् ॥ ३।४५।३८ ॥

विमनाः सौमित्रिस्तां रुदन्तीमार्तस्येव कृतरूपामालोक्य लोकानुसारत आश्वासयामास । सा च तं न किञ्चिदुवाच । आश्वासनव्याजेन गमनविलम्बं करोतीति कोपेनेति शेषः ॥ ३।४५।३९ ॥

अभिवाद्य मनसेति शेषः । किञ्चिदभिप्रणम्येति कायिकः स उक्तः । अत्र किञ्चिदित्यनेन कोपः सूचितः । यद्यपि कोपे ऽपि यथोचितव्यवहारत्यागो लक्ष्मणस्यानुचितस्तथापि प्रतिज्ञोत्तरं तथैव स्वच्छायां सन्दर्श्य तस्या अग्निप्रवेशोद्यमेन छायाबुद्ध्या किञ्चित्प्राञ्जलित्वं किञ्चिदेव नमनमित्यनेन सूचितम् । कथमेनां रामेण विना त्यक्ष्यामीति बहुशो ऽवेक्षमाणो ऽग्निं प्रविष्टा न वेति च वीक्षमाणः ॥ ३।४५।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ३।४५ ॥