त्सरुः खड्गमुष्टिः ॥ ३।४४।१ ॥
मध्ये स्थलत्रये विनतं त्रिविनतम् । आत्मविभूषणम् चापस्य वीरालङ्कारत्वात् । आत्मविभूषणमित्यनेनागस्त्यदत्तं वैष्णवमिति सूचितम् । कलापौ तूणीरौ ॥ ३।४४।२ ॥
वन्यराजो वन्यानां मृगाणां राजा विचित्रमृगत्वात् । पुनः सन्दर्शने दृष्टिविषये ॥ ३।४४।३ ॥
रूपेण स्वरूपेणाग्रतो द्योतयन्तं द्योतमानमिव स्थितम् ॥ ३।४४।४ ॥
अतिवृत्तमतिक्रान्तम् । कदाचन लोभयानं हस्तप्राप्तमिव दृश्यमानम् ॥ ३।४४।५ ॥
शङ्कितम् इषुपातादिति शेषः । वनोद्देशेषु क्वचिद्दृश्यमानं क्वचिददृश्यमानम् ॥ ३।४४।६ ॥
छिन्नाभ्रसंवीतचन्द्रसादृश्योपपादकमुत्तरार्धम् ॥ ३।४४।७ ॥
दर्शनादर्शनेनेति द्वन्द्वैकवद्भावः । स मृगतां गतो मारीचः अस्याश्रमस्य दूरं गत इत्यर्थः ॥ ३।४४।८ ॥
तेन दर्शनादर्शनेन विलोभ्य मोहयता मारीचेन मोहितो वञ्चितो विवशस्त्वग्लोभपरवश इव सुतरां छायामाश्रित्यावतस्थे ॥ ३।४४।९ ॥
उन्मादयमास बहुदूरधावनेन चित्तविभ्रमं चकार ॥ ३।४४।१०१२ ॥
भूयः कुपित इत्यन्वयः ॥ ३।४४।१३,१४ ॥
ब्रह्मविनिर्मितमस्त्रं ब्रह्मास्त्रं ब्रह्मदत्तबाणं च । मृगरूपसदृशरूपस्य मायाकृतरूपे यक्षवत्प्रविश्य स्थितस्य ॥ ३।४४।१५ ॥
मारीचस्यैव हृदयम्, न तु तत्कृतमायामृगाकारमात्रस्य । तालमात्रमुत्प्लुत्य । शरवेगकृतवेधादिति शेषः ॥ ३।४४।१६,१७ ॥
तद्वचनं रावणवचनम् । दध्यौ ध्यानं कृतवान् । केन मत्कृतेनोपायेन सीता लक्ष्मणं प्रस्थापयेत्तां च शून्ये रावणो हरेदिति दध्यौ ॥ ३।४४।१८ ॥
प्राप्तकालमाज्ञाय रावणोक्तमुपायमेव युक्तं मत्वा ॥ ३।४४।१९ ॥
मर्मणि प्राणस्थाने । रक्षस इदं राक्षसरूपमास्थितः । पूर्वोक्तं शब्दं चक्र इत्यन्वयः ॥ ३।४४।२० ॥
सुमह्यकायो महाशरीरम् ॥ ३।४४।२१,२२ ॥
लक्ष्मणवच एवाह मारीचस्य त्विति ॥ ३।४४।२३ ॥
सीता कथं भवेत् । किमधैर्यं नाटयित्वा लक्ष्मणं प्रेषयेदुत धीरा भवेदित्यर्थः ॥ ३।४४।२४ ॥
कामवस्थाम् अधैर्यादिति शेषः । हृष्टतनूरुहस्त्रासादिव रोमाञ्चिततनुः । वस्तुत एतन्मूलेन सर्वकार्यनिष्पत्तिरिति हर्षाद्रोमाञ्चिततनुः ॥ ३।४४।२५ ॥
तत्र नटवद्भगवान्मनुष्यरूपत्वाद्भवशोकादिमत्त्वं नाटयतीति कविरपि सर्वलोकवेद्यं तथैवाह तत्र रामं भयमिति । तात्त्विकमर्थं तु हृष्टतनूरुह इति हृष्टपदेन प्रागेव ध्वनितवान् ॥ ३।४४।२६ ॥
पृषतं मृगम् । जनस्थानमभिमुखं जनस्थानवर्तिनिजाश्रमाभिमुखम् ॥ ३।४४।२७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ३।४४ ॥