०४३ स्वर्णमृगग्रहणर्थं रामगमनम्

सा तमिति ॥ ३।४३।१ ॥

मृष्टहाटकं शुद्धं हेम तत्सदृशवर्णा । चक्रन्द आह्वाने क्रदिः । चक्रन्देति रोदनार्थेन भाव्यशुभमिति सूचितं कविना ॥ ३।४३।२,३ ॥

तावाहूतौ सीतयेति शेषः ॥ ३।४३।४,५ ॥

मृगयां चरन्तस्तां कुर्वन्तः । उपाधिना मृगरूपच्छलेन ॥ ३।४३।६ ॥

अस्य मायाविदो माया या श्रुता सा मृगरूपमिदं कृतम् मायैव मृगरूपेण परिणतेत्यर्थः । भानुमत्प्रकाशयुतं गन्धर्वपुरवदापातरमणीयम् ॥ ३।४३।७ ॥

नास्ति एवमुपादनकमृगासंभवात् ॥ ३।४३।८ ॥

काकुत्स्थं लक्ष्मणं प्रतिवार्य नायं राक्षसः, अपि तु चित्रमृगः । नैतद्ग्रहणविघ्नस्त्वया कार्य इत्युक्त्येत्यर्थः । छद्मना वञ्चनेन हृतचेतना सेव ॥ ३।४३।९ ॥

नो ऽस्माकम् । अयोध्यागमनोत्तरम् । तत्र सख्यभिप्रायेण बहुवचनम् ॥ ३।४३।१० ॥

सृमरचमरौ कृष्णशुक्लपुच्छौ ॥ ३।४३।११,१२ ॥

अन्यः सदृश एतत्सदृशो ऽन्य इत्यर्थः । तेजसा विचित्रगतिसामर्थ्येन । क्षमया सौम्यभावेन । दीप्त्या देहकान्त्या ॥ ३।४३।१३ ॥

शशिसंनिभत्वेनाह्लादकत्वम् ॥ ३।४३।१४ ॥

स्वरसंपद्धनिसमृद्धिः ॥ ३।४३।१५ ॥

तव ग्रहणं त्वत्कर्तृकग्रहणम् । जीवतो ग्रहणमाश्चर्यभूतं भवति यतो ऽतो विस्मयं जनयिष्यति ॥ ३।४३।१६,१८ ॥

हतो ऽपि यदि ते ग्रहणं प्राप्नोति तदापि मे प्रयोजनमित्याह अजिनमिति ॥ ३।४३।१९ ॥

शष्पबृस्यां बालतृणपरिकल्पिततापसासने विनीतायां प्रसारितायामस्य जाम्बूनदमयत्वच्युपासितुं त्वत्समीपे स्थातुमिच्छामि । यद्वा भगवदुपासनां कर्तुमित्यर्थः ॥ ३।४३।२० ॥

इदं कामेन स्वप्रयोजनेच्छया पतिनियोजनरूपं रौद्रम्, अत एव स्त्रीणामसदृशं कैकेयीवदिति मम निर्णीतं तथाप्यस्य सत्त्वस्य वपुषा मम विस्मयो जनित इति जातकौतुकनिवृत्त्यर्थमनुचितमपि करोतीति शेषः ॥ ३।४३।२१ ॥

“काञ्चनरूपेण” इति पाठे रूपेण मृगेण । “रूपं मृगे ऽपि विज्ञेयम्” इति हलायुधः । नक्षत्रसदृशनानाबिन्दूपलक्षितत्वात्तत्पथसदृशेन ॥ ३।४३।२२ ॥

राघवस्यापि संभावितासंभावितवस्तुतत्त्वनिरूपणकुशलमतेरपि मनो विस्मयमागतं प्राप्तं तदिव बभूव । भवितव्यतायाः प्राबल्यात् ॥ ३।४३।२३ ॥

तदेवाह लोभित इति ॥ ३।४३।२४ ॥

रूपेणालौकिकविचित्रस्वरूपेण श्रेष्ठः । सर्वश्रेष्ठरूपेण हेतुना । अद्यैष मृगो न भविष्यति न जिविष्यति जीवनमस्य न संभावितमित्यर्थः । प्रायेण मृगत्वमत्र न संभावितमित्यर्थ इति कतकः ॥ ३।४३।२५ ॥

नन्दन इत्युद्देशः कीर्तनं यस्य तत्र वने चैत्ररथसंश्रये तदाख्ये वने ऽपि न यो ऽस्य कश्चित्समो मृगः स पृथिव्यामस्ति इति कुतः संभाव्यते इत्यर्थः ॥ ३।४३।२६ ॥

तदेवाह प्रतिलोमेत्यादि । कनकबिन्दुभिः सहिता रोमराजय इत्यन्वयः ॥ ३।४३।२७ ॥

शतहृदा विद्युत् ॥ ३।४३।२८ ॥

“मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः” इति पाठे मसार इन्द्रनीलस्तस्य गल्वर्कश्चषकस्तदाकारास्य संपुट इत्यर्थ इति तीर्थः । अनिरूप्य इदमित्थमिति निरूपयितुमशक्यः । पाठान्तरे यस्येत्यादि ॥ ३।४३।२९,३० ॥

मांसहेतोरपि विहारार्थं च घ्नन्ति, किं पुनरेवंविधत्वग्लाभार्थमिति भावः ॥ ३।४३।३१ ॥

महावने राजभिरिति शेषः । व्यवसायेन मृगवधोद्यमेन । धनानि विचीयन्ते संगृह्यन्ते । ननु वने कुतो धनं तत्राह– धातव इति । मणिरत्नं सुवर्णं च येषु तादृशा धातवः । वज्रादिमणिसुवर्णादियुक्तास्ताम्रादिधातव इति यावत् ॥ ३।४३।३२ ॥

निचयवर्धनं कोशवर्धनं तद्वन्यं धनं नृ़णां सारमतिप्रशस्तं भवति । शुक्रं ब्रह्म “स पर्यगाच्छुक्रमकायमव्रणम्” इति श्रुतेः । एवं च शुक्रस्य ब्रह्मलोकं प्राप्तस्य तद्रूपमापन्नस्य मनसा चिन्तितं सर्वं सङ्कल्पमात्रसिद्धं सर्वं भोग्यवस्तु यथा सर्वस्मात्सारतरं तद्वत् ॥ ३।४३।३३ ॥

ननु तथापि विचार्य कर्तव्यं तत्राह– अर्थीति । अर्थ्यर्थापेक्षः पुमान्येनार्थकृत्येनार्थनिमित्तेन कर्तव्येन कर्मणा तत्सौन्दर्यादाक्षिप्तहृदयो ऽविचारयन्नेव व्रजति सत्संपादनार्थं तमेवार्थ्या अर्थसंपादनचतुरा अर्थशास्त्रज्ञा अर्थमर्थपदवाच्यमाहुः ॥ ३।४३।३४ ॥

अतो ऽविचारितैवात्र प्रवृत्तिरित्याह एतस्येति । अत्र विचारो न कर्तव्यः एतन्मूलेन महतो ऽर्थस्य सिद्धिरिति गूढतात्पर्यम् ॥ ३।४३।३५ ॥

अस्य परार्ध्यत्वमेव दर्शयति नेति । कदल्या इयं त्वक्कादली । मृदूच्चकर्बुरनीलाग्ररोमा मृगविशेषः कदली । प्रियकी मृदूच्चमसृणघनरोमयुक्तो मृगः प्रियकस्तस्येयं प्रियकी । प्रवेणी अ जविशेषसंबन्धिनी । आविकी अवित्वक् । प्रत्येकं नञुक्तिः सर्वथा सादृश्याभाववोधनाय । अनेनैतदीयत्वचा ॥ ३।४३।३६ ॥

यश्च नभश्चरो मृगो मृगशिरो नक्षत्ररूपः । तदेवाह तारामृगेति ॥ ३।४३।३७ ॥

अथ लक्ष्मणमतमङ्गीकृत्यापि प्रवृत्तिमाह यदि वेति । राक्षसमायैषा न मृग इति यथा मां वदसि । यदि वा तथैवैष भवेत्तथाप्यस्य वधो मया कर्तव्य एव राक्षसवधस्य प्रतिज्ञातत्वात् ॥ ३।४३।३८,३९ ॥

उत्थाय प्रादुर्भूयोत्प्लुत्य वा ॥ ३।४३।४० ॥

पुरस्तात्पूर्वमिह दण्डकारण्ये । “स्वगर्भो ऽश्वतरीमिव” इति । अश्वतरी स्वगर्भेण म्रियत इति प्रसिद्धिः । अश्वतरी गर्दभादश्वायामुत्पन्नेति तीर्थः । अश्वतरी कर्कटीति परे । वृश्चिक इति कतकः । अत्राद्यव्याख्यैव ज्यायसी । तस्या गर्भस्योदरपाटनं विना न निःसरणमिति सर्वजनप्रसिद्धेः ॥ ३।४३।४१,४२ ॥

समुत्थाने श्राद्धान्ते । तद्रूपं राक्षसं रूपम् । उत्स्मयित्वेषद्धसित्वा ॥ ३।४३।४३ ॥

अविगण्याविचार्य पापम् । तस्माद्द्विजपरिभवजपापेन । जरां जीर्णताम् ॥ ३।४३।४४ ॥

यो मारीचो मद्विधमतिमन्येतातिक्रामेत्तद्रक्षो ऽपि मारीचाख्यं वातापिरिव न भवेदेव न जीवेदेव ॥ ३।४३।४५ ॥

उक्तमेवार्थं पुनराह दार्ढ्याय भवेदिति । मा मां गतः प्राप्तो मारीचो ऽगस्त्येन वातापिरिव मया हतो भवेत् भविष्यतीत्यर्थः । संनद्धो धनुःकवचादियुक्तः । यन्त्रितो यत्नवान्व्यापारान्तरहीनः ॥ ३।४३।४६ ॥

अस्माकं यत्कृत्यमावश्यकं कर्तव्यं तदस्यामेतद्रक्षणविषय आयत्तं स्थितम् । तन्मुख्यकृत्ये त्वं सावधानस्तिष्ठ । स्वकर्तव्यमाह अहमिति । अत्र पूर्वश्लोकचतुर्थचरणश्लेषेणायन्त्रितो यन्त्रणया हीनो ऽतियत्नरहितः सीतां रक्ष । अस्माकं कृत्यमवतारग्रहणप्रयोजनं तदस्यामायत्तमनयैव साधनीयमित्यपि सूचितम् ॥ ३।४३।४७ ॥

यावद्गच्छामि गमिष्यामीत्यर्थः । आनयितुमानेतुम् । तत्र हेतुः– पश्येति ॥ ३।४३।४८ ॥

प्रधानया सर्वोत्तमया न भविष्यति न जीविष्यति । अनेन जीवतो ग्रहणमसुशकमिति दर्शितम् । ते त्वया सीतया सहेति शेषः । अनया प्रेरिते कर्तव्ये चेत्यप्यर्थः ॥ ३।४३।४९ ॥

यावदिति । तावदप्रमत्तेन भाव्यमित्यन्वयः ॥ ३।४३।५० ॥

प्रदक्षिणेन समर्थेन । सर्वतः सर्वदिग्वर्तिरक्षोसुरेभ्यः ॥ ३।४३।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ३।४३ ॥