रात्रिञ्चरप्रभो रावणाद्यद्भयमधुनैव निन्द्यमरणरूपं तस्माद्गच्छावेत्यब्रवीत् । त्वमहं चेत्यर्थः ॥ ३।४२।१ ॥
तथा वदन्नेव निजदुःखमप्याह दृष्टश्चाहमिति । पुनर्यदाद्य ते न दृष्टो भविष्यामि तदोच्यमानविशेषणेन रामेण जीवितं निहतं नष्टमेव । चकारात्तव च जीवितं नष्टम् ॥ ३।४२।२ ॥
यमदण्डहतस्य ते ऽसौ रामः प्रतिरूपो यमदण्डप्रतिरूपो वर्तते ॥ ३।४२।३ ॥
अथाशक्यपरिहारमनर्थं शोचति किं त्विति ॥ ३।४२।४ ॥
तेन वचनेन गच्छामीति वचनेन । सुसंश्लिष्टं गाढम् ॥ ३।४२।५ ॥
मच्छन्दवशवर्तिनः मदभिप्रायवशवर्तिनः शौटीर्यं वाय तद्युक्तम् एतद्वचो योग्यमिति शेषः । इदानीं मारीचो ऽसि स्वप्रकृतिं प्राप्तो ऽसि । पूर्वमन्यो हि राक्षसस्तदाविष्ट इति शेषः ॥ ३।४२।६ ॥
खग आकाशगामी रथः ॥ ३।४२।७ ॥
शून्ये रामलक्ष्मणरहिते समये ॥ ३।४२।८,९ ॥
आश्रममण्डलान्मारिचाश्रममण्डलादित्यर्थः । पत्तननगरयोरराजधानीराजधानीत्वेन भेदः । पत्तनशब्दो ऽर्धर्चादिः ॥ ३।४२।१०१५ ॥
मणिप्रवरशृङ्गाग्र इन्द्रनीलरत्नाकारशृङ्गाग्रः । मणिशब्दः केवल इन्द्रनीले इति कविसमय इति कतकः । क्वचित्सिता क्वचिदसिता मुखस्याकृतिः शोभा यस्य सः । यदेवाह रक्तपद्मोत्पलेति । उत्पलं नीलोत्पलम् । इन्द्रनीलवदुत्पलवच्छ्रवः श्रवणं यस्य सः ॥ ३।४२।१६ ॥
मधूकपुष्पसदृशपार्श्वद्वयः । कञ्जं पद्मं तत्किञ्जल्कसदृशवर्णः ॥ ३।४२।१७ ॥
सुसंहतः श्लिष्टसन्धिबन्धः ॥ ३।४२।१८,१९ ॥
प्रज्वलयन्प्रदीपयन् ॥ ३।४२।२० ॥
शाद्वलानि विचरन्भक्षयन्गच्छते गच्छति ॥ ३।४२।२१ ॥
चित्रमिति क्रियाविशेषणम् । विटपीनामिति दीर्घ आर्षश्छन्दोनुरोधात् । “भक्त्वादन्” इति पाठ आर्षो ऽनुनासिकलोपः ॥ ३।४२।२२ ॥
कदलीगृहं कदलीवाटिकाम् । कर्णिकारांस्तद्वनं च गत्वा त्यक्त्वा सीतासन्दर्शनमपेक्ष्येतस्ततो मन्दगतिं समाश्रयन्विचचार विरराज च ॥ ३।४२।२३२५ ॥
मृगयूथानि गच्छति, तत्पृष्ठतो गच्छतीत्यर्थः ॥ ३।४२।२६,२७ ॥
विनिष्पतन् प्रागल्भ्येन कुर्वन्नित्यर्थः ॥ ३।४२।२८ ॥
विद्रवन्ति अमृगत्वनिश्चयादिति शेषः ॥ ३।४२।२९ ॥
मृगवधे रतो ऽपि भावस्य राक्षसस्य सञ्छादनार्थं संस्पृशन्नपि मृगान्न भक्षयति ॥ ३।४२।३० ॥
अपचयो ग्रहणम् । अत्राशोकचूतकुसुमानामपचयोक्त्त्या शिशिरान्तकालो ऽयम् । “गन्धवान्सुरभिर्मांसो जातपुष्पफलद्रमुः” इति, “सन्तापयति सौमित्रे शूरश्चैत्रवनानिलः, इति च पम्पातीरे रामोक्तेश्च । किञ्चाग्रे द्वादशमासोत्तरं यद्येषा मां नाङ्गीकरोति तदैनां हन्मीति रावणप्रतिज्ञा । ततो हनुमद्दर्शनकाले च तं प्रति सीतावाक्यम् “वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम, इति सङ्गच्छते । माघशुक्लाष्टम्यां हरणे हि मार्गशुक्लाष्टम्यां ततो ऽर्वागेव वा दशमसमाप्त्या तस्य वर्तमानत्वोक्तिरसंगतैव स्यात् । तच्छुक्लपक्षान्ते हनुमतस्तद्दर्शनात् ॥ ३।४२।३१ ॥
अनर्हा वनवासस्येत्यनेन नगरवासः सूचितः ॥ ३।४२।३२ ॥
रूप्यं रजतम्, धातवो गैरिकाद्याः, तत्सदृशरोमयुक्तम् ॥ ३।४२।३३३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥ ३।४२ ॥