०४१ मारीचोपदेशः

राजवद्राजयोग्यं रावणेनाज्ञप्तो रामलक्ष्मणप्रतारणरूपं कार्यं प्रतिकूलमन्यथा वधं करिष्यामीत्येवं प्रतिकूलवाक्यसहितं यथाज्ञप्तो मृत्येर्निःशङ्को मारीचः परुषं शब्दतो ऽर्थतश्च वाक्यमब्रवीत् ॥ ३।४१।१ ॥

विनाशो विनाशोपायः ॥ ३।४१।२ ॥

सुखिना त्वया सहावस्थानमिति शेषः ॥ ३।४१।३ ॥

तथोपदेष्टारस्त्वत्तो हीनवीर्यास्तव शत्रवः ये त्वां त्वत्तो बलवत्तरेण शत्रुणोपरुद्धं विनश्यन्तं द्रष्टुमिच्छन्ति ॥ ३।४१।४ ॥

स्वकृतेन स्वनिर्मितविनाशोपायेन ॥ ३।४१।५ ॥

ये त्वामेवं कुपथमारूढं न निगृह्णन्ति न वारयन्त्यमात्यास्ते वध्या वधयोग्याः कुतस्त्वया न वध्यन्त इत्यर्थः ॥ ३।४१।६ ॥

तत्र नीतिशास्त्रमाह अमात्यैरिति ॥ ३।४१।७ ॥

कुतस्तैरेवमनुष्ठेयं तत्राह– धर्ममिति ॥ ३।४१।८ ॥

विपर्यये स्वामिवैगुण्ये । तत्र न केवलं तेषामेव व्यसनप्राप्तिः, किं तु सर्वजनानाम् । तदाह– इतरे जना इति । अपीति शेषः ॥ ३।४१।९,१० ॥

तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन स्वप्रकृतीनामिति शेषः ॥ ३।४१।११ ॥

तीक्ष्णमन्त्रास्तीक्ष्णोपायप्रयोक्तारस्तेन तन्मन्त्रग्राहिणा राज्ञा सह भुज्यन्ते स्वसमतया स्थाप्यन्ते । मन्दो मन्दबुद्धिः सारथिर्येषां ते रथा यथा विषमे सारथिभिः सह नश्यन्ति तथा ते राजानो मन्त्रिभिः सह नश्यन्ति ॥ ३।४१।१२ ॥

युक्तधर्ममनुष्ठिता युक्तधर्मानुष्ठातारः । साधवो नीतिमार्गनिष्ठाः । सपरिच्छदाः सपरिजनाः ॥ ३।४१।१३ ॥

तीक्ष्णदण्डेन प्रजानां प्रतिकूलेन रक्ष्यमाणाः प्रजा न वर्धन्ते गोमायुना मृगघातकजीवेन रक्ष्यमाणा मृगा इव ॥ ३।४१।१४ ॥

ककशः क्रूरबुद्धिः कठिनश्च ॥ ३।४१।१५ ॥

तदिदं त्वत्तो मरणरूपं घोरं काकतालीयमाकस्मिकं मया ऽ ऽसादितं यद्यपि तथापि तत्प्रति न मया शोकः क्रियते “जातस्य हि ध्रुवो मृत्युः” इति न्यायात् । तथापि त्वं ससैन्यो विनशिष्यसि यद्यत्रार्थे त्वं मया शोचनीयो ऽसि ॥ ३।४१।१६ ॥

ननु मम मरणं कथं निश्चितं तत्राह– मामिति । मां निहत्य रामस्त्वां सबान्धवमचिराद्वधिष्यति । तस्मादुभयथापि मरणं निश्चितं त्वत्तो वा रामाद्वा । तत्रानेन वधेन कृतकृत्यो ऽस्मि । यन्मृधे रणे ऽरिणा हतो म्रिये । राजतो बलान्मरणापेक्षया रणे शत्रुतो मृत्योः स्वर्गदत्वादाद्यमृत्योरपमृत्युत्वेन दुर्मरणत्वेन शास्त्रे उक्ते राज्ञा मारितस्य शौचोदकदानाद्यभावश्रवणाद्रामतो मरणेन कृतकृत्यो ऽहमिति व्यङ्ग्यम् । ईदृशं ज्ञानं चास्य तपसा योगेन च शुद्धचित्तत्वादिति बोध्यम् ॥ ३।४१।१७ ॥

आत्मानं रावणम् । सबान्धवमात्मानमित्यन्वयः ॥ ३।४१।१८ ॥

कदाचिद्यदि मया जीवता सहैव सीतामानयिष्यसि तदा पश्चादपि सर्ववधो निश्चित इत्यर्थः ॥ ३।४१।१९ ॥

न मृष्यसे प्रतिकूलबुद्ध्या न परिगृह्णासीत्यर्थः । परेतकल्पा मृतप्रायाः ॥ ३।४१।२० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकचत्वारिंशः सर्गः ॥ ३।४१ ॥