०४० रावणकृतमारीचनिर्भर्त्सनम्

मारीचस्य मारीचेन क्षमं निवृत्तिसमर्थं युक्तं न्याय्यं कालोचितं च वाक्यमुक्त उपदिष्टो रावणो मुमूर्षुरौषधमिव तदुक्तं न प्रतिजग्राह ॥ ३।४०,१,२ ॥

शत्रोर्मानुषस्य स्तावकत्वात्क्रोधेनाह दुष्कुलेति । अयुक्तार्थं राजचित्तप्रतिकूलत्वादयुक्तार्थम् । निष्फलं तमोगुणाक्रान्ते मम हृदये तस्यानवकाशात् ॥ ३।४०।३ ॥

संयुगे पापशीलत्वादिगुणकस्य स्त्रीताटकाहन्तृत्वाद्रामस्य भार्याहरणविषये स्थितं मां तद्वाक्यैर्भेत्तुं निवर्तयितुं न शक्यमित्यर्थः । मामिति द्वितीया छान्दसत्वात् ॥ ३।४०।४ ॥

तत्र मूर्खत्वमुपपादयति– य इति । प्राकृतमसारम् । स्त्री कैकेयी । एकपदे द्राक् ॥ ३।४०।५ ॥

संयुगे खरहन्तुरित्यन्वयः ॥ ३।४०।६,७ ॥

अपि चापृष्टोत्तरप्रलापस्तवासंगत इत्याह दोषं गुणं वेति । कस्यचित्सन्दिग्धस्य कार्यस्य निश्चये निश्चयसिद्ध्यर्थमत्रानुष्ठिते को गुणः, को दोषः, क उपायः, को ऽपायः, इति यदि पृष्टं स्थात्तदा एवं वक्तुमर्हसि गुणदोषादिकमित्यर्थः । मया तु निश्चिते कार्ये केवलं साहाय्ये नियुज्यसे, अतो न ते जल्पः सङ्गत इति भावः ॥ ३।४०।८ ॥

पृष्टोत्तरमेव राजनि सचिवेन विनीतेन वाच्यमित्याह– संपृष्टेन त्विति । उद्यताञ्जलिनेत्यनेन विनीतता दर्शिता ॥ ३।४०।९ ॥

उपचारेण राजनीत्युक्तमर्गेण युक्तम् ॥ ३।४०।१० ॥

सावमर्दं तु राजपृष्टावमर्दसहितम् । अथवा यद्यप्यर्थे । यद्यपि हितं तथापि नाभिनन्देत । त्वं त्वपृष्ट एव ममाहितमवमर्दसहितं मानहीनं वदसीत्यनुचितमिति भावः ॥ ३।४०।११ ॥

ततो वक्तुरनिष्टमपीत्याह पञ्चेति । के पञ्चेत्यत्राह– अग्नेरिति ॥ ३।४०।१२ ॥

कानि रूपाणि तत्राह क्रमेण औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यम् । सौम्यं दयार्द्रचित्तत्वम् । दण्डं दुष्टनिग्रहम् । एवं च तादृशे वक्तरि तीक्ष्णदण्डपात इत्याशयः ॥ ३।४०।१३ ॥

धर्मं राजधर्मम् ॥ ३।४०।१४ ॥

अभ्यागतमतिथिमित्यनेन पूज्यत्वातिशयं सूचयति गुणदोषप्रश्ने किं मम हितमिति प्रश्ने वा ईदृशं वक्तुं युक्तम्, न चैतदेकमपि मया पृष्टमिति भावः ॥ ३।४०।१५ ॥

अपि च अपि तु मया त्वां प्रत्येतावदेवोक्तम् । किं तत्राह – अस्मिन्सीतापहाररूपे कृत्ये स भवान्मया नियुक्तः साहाय्यं कर्तुमर्हसीति ॥ ३।४०।१६ ॥

किं तन्मत्कर्तव्यं साहाय्यं तत्राह शृण्विति । साहाय्ये मम वचनाद्यत्कार्यं तत्कर्म शृण्विति संबन्धः ॥ ३।४०।१७१९ ॥

रामवाक्यानुरूपकं रामध्वनिसदृशध्वनियुक्तम् ॥ ३।४०।२०२३ ॥

शिवं मार्गं गच्छ सौम्यो भूत्वा प्रस्थितो भवेत्यर्थः । किं च शिवं मनोहरं मार्गं मृगरूपं गच्छ प्राप्नुहि ॥ ३।४०।२४,२५ ॥

अथ राजत्वात्स्ववाक्याकरणे दण्डमाह नो चेदिति । मद्वचनाननुष्ठाने मरणमेवानुष्ठाने तु जीवनं मत्तो बहुधनादिप्राप्तिश्च । एवं प्रार्थनया ऽकरणे बलान्मद्बलहेतुकमरणभयात्त्वं च करिष्यस्येव ॥ ३।४०।२६ ॥

रामात्पर्यायद्वये इव कदाचिज्जीवन संभाव्यत एव मद्वचनाकरणे तु सर्वथा ऽद्य मृत्युरेवेत्याह आसाद्येति । तं रामम् । संशयो न तु नाशनिश्चयः । एतन्मदुक्तवचनम् ॥ ३।४०।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे

चत्वारिंशः सर्गः ॥ ३।४० ॥