पुनः स्वानुभवसिद्धं रामवृत्तमाह एवमिति । तदा विश्वामित्रयज्ञरक्षणसमये तेन कथञ्चिन्मुक्तो ऽस्मि । इदानीं प्रौढावस्थायामपि यद्वृत्तं मद्विषयं यदुत्तरं यत्सर्वलोकोत्तरं तदतिरिक्तासाध्यं तच्छृणुष्व शृण्विति यावत् ॥ ३।३९।१ ॥
पूर्वं तथा कृतः प्राणसङ्कटं प्रापितो ऽप्यहमनिर्विण्णो ऽप्राप्ततद्विषयप्रवृत्तिवैराग्यः । ताभ्यां मृगरूपाभ्यां सहितो ऽहमपि मृगरूपः सन्प्रविष्ट इत्यन्वयः ॥ ३।३९।२ ॥
तदेवाह दीप्तेति ॥ ३।३९।३५ ॥
वनगोचरानृषीनन्यजीवांश्च ॥ ३।३९।६ ॥
आसादयं प्राप्तवान् । तापसं धर्मं तापससंबन्धिधर्ममाश्रितम् ॥ ३।३९।७९ ॥
अकृतप्रज्ञो ऽकृतविचारः । तं प्रहारं पूर्वं रामदत्तप्रहारम् ॥ ३।३९।१०,११ ॥
संनतपर्वणः अदीर्घत्वमार्षम् ॥ ३।३९।१२ ॥
शठो गूढविप्रियकारी । दृष्टभयः रामादिति शेषः । समुत्क्रान्तः पलायितः ॥ ३।३९।१३ ॥
प्रव्राजितः परिव्राजितः कृतसकलदुर्वृत्तपरित्यागः । युक्तो योगाभ्यासरतः, अत एव तापसस्तपोनिष्ठः । समाहितः स्थिरान्तःकरणः ॥ ३।३९।१४१६ ॥
रहिते रामरहिते ऽपि वने उद्भमामिभीतो भवामीव । चेतनः सुषुप्तौ नष्टचैतन्यो ऽपि तद्दर्शनवशाल्लब्धचैतन्यः प्रलपामीत्यर्थः ॥ ३।३९।१७ ॥
रकारादीनीति । एवं च साक्षाद्दर्शने यस्त्रासः स वक्तुमशक्य इति भावः । तन्नामैकदेशसत्तावदपि नाम भयजनकम्, किं वक्तव्यं संपूर्णतन्नाम्नो भयजनकत्वमिति ।
“स्थाने हृषीकेश तव प्रकीर्त्या” इति गीताश्लोकार्थो ऽत्र व्यङ्ग्य ॥ ३।३९।१८,१९ ॥
तस्माद्रामेण रणे युध्यस्वैतदुचितम्, न तु तद्दारापहार उचितः सर्वकुलनाशकत्वात् । युद्धे एकस्यैव नाशादिति भावः । मुख्यपक्षमाह क्षमां वेति । यदि मां जीवन्तं द्रष्टुमिच्छसि तदा रामकथा न कार्या । तत्कथाया रक्षस्तेजोपहारकत्वादुभयोरपि तेजोनाशे मरणादप्यधिका दुःखावस्थेति भावः ॥ ३।३९।२० ॥
साधवो ऽकृतपरापचाराः । युक्ता योगवन्तः । अनुष्ठिता इति कर्तरि निष्ठा ॥ ३।३९।२१ ॥
परापराधेन तवापराधेनेत्यर्थः । विनशेयं विनशिष्यामि । अतः हे राक्षस यत्ते क्षमं रणः क्षमो वा तत्त्वमेव क्रुरु । अहं तु त्वां नानुयामि । त्वद्बुद्धिं नानुगच्छामीत्यर्थः ॥ ३।३९।२२ ॥
तत्र हेतुमाह– रामश्च हीति । तेजः पराक्रमः । सत्त्वं बुद्धिबलम् । बलं शारीरम् । हि यतो महातेजस्त्वादिगुणै रामः प्रसिद्धः, अत ईदृशो रामो राक्षसलोकस्यान्तकरो हि निश्चयेन भवेदित्यपि संभाव्यते, अतो नानुयामि त्वद्बुद्धिं सकलराक्षसकुलनाशभियेति भावः ॥ ३।३९।२३ ॥
खरादिनाशस्य तत्कृतान्यायमूलत्वात्तत्र क्षमैव युक्तेत्याह– यदीति । सीताहननप्रयत्नदोषनिरूपितशूर्पणखाहेतोरतिवृत्तस्तूष्णीमवस्थितेन रामेण यदि शूर्पणखावाक्यजनितरोषात्स्वयं योद्धुं गतो रामेण हतस्तदा को रामस्य व्यतिक्रमो ऽन्यायस्तत्त्वमेव ब्रूहि ॥ ३।३९।२४ ॥
सिद्धान्तमाह– इदमिति । यथोच्यमानं परमार्थत उच्यमानं यदि नाभिपत्स्यसे नाङ्गीकरिष्यसि तदा रणे हतः सबान्धवस्त्वं जीवितं त्यक्ष्यसि इति मया अद्यैव निश्चीयते ॥ ३।३९।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३।३९ ॥