०३८ रामगुणवर्णनम्

अथ स्वानुभवसिद्धं रामबलमाह– कदाचिदित्यादि । अहमपीति संबन्धः ॥ ३।३८।१,२ ॥

मद्वित्रस्तः मत्तो वित्रस्त इत्यर्थः ॥ ३।३८।३ ॥

पर्वकाले यागकाले ॥ ३।३८।४,५ ॥

पञ्चदशवर्षो ऽपि तथा दशरथेनानूदितो ऽप्यत्यन्तबाल्यद्योतनायातिबालेनापीदृशं कृतं किमधुना वाच्यमिति रावणस्यात्यन्तभयाय मारीचेन तथा दशरथेनोक्त इत्यूनद्वादशवर्ष इत्युक्तम् । “ऊनषोडशवर्षो ऽयम्” इति पाठान्तरम् ॥ ३।३८।६८ ॥

यद्यपि भवान्देवानामपि सहायकृदासीत् अन्यच्च तव त्वया कृतं कर्म त्रिलोकविदितं त्रिषु लोकेषु विदितं तथापि रामादन्यद्बलं तस्य रक्षसो न पर्याप्तम्, अतः कामं तव बलं यदस्ति तदत्रैव तिष्ठतु तदुपयोगाभावात् अत एष बालो ऽपि यतस्तन्निग्रहसमर्थो ऽतो देय एवेति शेषः ॥ ३।३८।९१२ ॥

उपस्थितो रामस्तद्रक्षणार्थं समीपं प्राप्तः सन् ॥ ३।३८।१३ ॥

अजातव्यञ्जनः श्मश्र्वादिपुंस्त्वचिह्नप्रादुर्भावहीन इत्यर्थः । एकवस्त्रधरो ब्रह्मचर्ये स्थितः । शिखी काकपक्षधरः । कनकमालयोपलक्षितः ॥ ३।३८।१४,१५ ॥

आजगामेत्युत्तमपुरुषः । अत्र पारोक्ष्यार्थकलिटा दैवपारवश्यादेवाहमागतो न तु तदागमनं मम प्रत्यक्षमिति ध्वनयति, यद्वा बहुकालिकत्वेन विस्मृतत्वाद्वा तत्त्वारोपः । आर्षो वा लिट् । आश्रमान्तरमाश्रममध्यम् । दत्तवरो ब्रह्मदत्तदेवावध्यत्ववरः ॥ ३।३८।१६ ॥

प्रविष्टो ऽहं तेन न दृष्ट इत्यन्वयः ॥ ३।३८।१७,१८ ॥

शतयोजने तटात्तत्पर्यन्तदेशस्थिते समुद्रे क्षिप्तः ॥ ३।३८।१९ ॥

नेच्छता निच्छता । एतच्च रक्षणं केवलं कृपाजन्यमिति मारीचाशयः । भाविकार्यार्थमिति वस्तुतत्त्वम् ॥ ३।३८।२०,२१ ॥

ये मे सहाया अपरे गतास्तं निपातिता इत्यन्वयः ॥ ३।३८।२२,२३ ॥

अनर्थं मरणरूपमाहरिष्यसि यत्नात्संपादयिष्यसि ॥ ३।३८।२४,२५ ॥

सङ्गदोषाद्रक्षःकुलमात्रस्य नाशः प्राप्नोतीत्याह– अकुर्वन्तो ऽपीति । परपापैः परेषां पापात्मनां पापैर्निमित्तैः । नागह्रदे सर्पयुक्तहृदे सर्पनिग्रहाय प्रविष्टेन राजप्रेरितधीवरादिना गरुडेन वा यथाप्रसङ्गान्मत्स्था नश्यन्ति तद्वत् ॥ ३।३८।२६,२७ ॥

हृतदारान्परिहृतदारान् त्यक्तदारानिति यावत् ॥ ३।३८।२८,२९ ॥

तव परिग्रहे ऽन्तःपुरे प्रमदानां सहस्राणि, अतस्तास्वेव रमस्व नान्यत्र मनो धेहीत्यर्थः ॥ ३।३८।३०३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३।३८ ॥