०३७ मारीचकृतरावणबोधः

तदिति ॥ ३।३७।१ ॥

प्रियवादिनः स्वामिहिताहितविचारमुपेक्ष्य राज्ञ आपातप्रियतया सन्तोषाय तत्कालमधुरवाक्यवक्तारः पुरुषाः सुलभाः । अपि तु अप्रियस्यापि तत्कालमप्रियतया प्रतीयमानस्यापि कालान्तरे पथ्यस्य वचसो वक्ता भृत्यस्तस्य च भोक्ता ऽहितवत्प्रतिभासमानमपीदं पथ्यमेवेति ग्रहीता राजा विवेकी दुर्लभः । अतो मयोच्यमानमापाततो ऽप्रियमिव भासमानमप्युदर्के परमहितं शृण्विति शेषः ॥ ३।३७।२ ॥

अबोधे हेतुः अयुक्तचारत्वमनियुक्तचारत्वम् ॥ ३।३७।३ ॥

एतदबोधकृतश्च तवानर्थो भावीत्याह अपीति । रक्षसां स्वस्तीत्यार्षम् । अपि स्वस्ति भवेदपि क्षेमं संपद्येतापि किम् । तव दुर्बुद्धिनिवृत्त्येति शेषः । तथा संक्रुद्धो रामो लोकमराक्षसं न कुर्यादपि किम् । एवमग्रे ऽपि बोध्यम् ॥ ३।३७।४६ ॥

पापमन्त्रितः पापैः सह कृतकर्तव्यार्थविचारः ॥ ३।३७।७ ॥

एवं महावीर्यत्वं रामे प्रतिपाद्य रावणोक्तदूषणानि निराचष्टे– न च पित्रेत्यादि ॥ ३।३७।८ ॥

तैक्ष्ण्याभावे हेतुः– सर्वभूतहिते रतत्वम् ॥ ३।३७।९ ॥

कैकेय्या वञ्चितं पितरं दृष्ट्वा तं सत्यवादिनं करिष्यमीति वनं स्वयमेव प्रव्रजितः, न तु किञ्चित्पापात्पित्रा प्रवासित इत्यर्थः ॥ ३।३७।१० ॥

कैकेय्याः प्रियस्य कामस्य मनोरथस्य पूरणार्थम् ॥ ३।३७।११ ॥

अनृतं न श्रुतं चैवानृतप्रसङ्गमपि न जानाति । तेन तत्कथनं दूरापास्तमित्यर्थः । एवं वक्तुं रामं दुर्गुणं वक्तुम् ॥ ३।३७।१२,१३ ॥

अथ सीतापहारस्याशक्यत्वमाह– कथं न्विति । स्वेन तेजसा पातिव्रत्यवैभवेन किं च तस्य रामस्य स्वेन तेजसा सहजप्रतापेनेत्यर्थः ॥ ३।३७।१४ ॥

शरार्चिषं शरज्वालं खड्गचापपदेन तद्धतशत्रवस्तद्रूपमिन्धनं यस्य ॥ ३।३७।१५ ॥

रामे ऽन्तकरूपकोपपादकविशेषणान्याह धनुरिति । धनुरेव व्यादितं व्यात्तमिति यावत् । दीप्तं ज्वालादीप्तमास्यं यस्य रामरूपान्तकस्य । ज्वालादीप्तत्वमेव शरार्चिषमित्यनेनोक्तम् ॥ ३।३७।१६ ॥

अत्यासादयितुमत्यन्तं प्राप्तुम् ॥ ३।३७।१७ ॥

अप्रमेयं हि तत्तेज इत्यनेनावाङ्मनसगोचरत्वं ध्वनितम् । यस्य सेत्यनेन तस्या अपि तत्त्वं सूचितम् ॥ ३।३७।१८ ॥

नरसिंहस्येत्यनेन हिरण्यकशिपुप्रभृतिहन्तायमेवेति सूचितम् । नित्यमनुव्रतेत्यनेन तस्यास्तच्छक्तित्वं सूचितम् ॥ ३।३७।१९ ॥

न सेति । रजस्तमःप्रधानेन । त्वादृशेनेत्यर्थः ॥ ३।३७।२० ॥

व्यर्थमिममुद्यमं कृत्वा ते न किमपि हितमित्यर्थः । तेन चेत्त्वं रणे दृष्टस्तदा तदन्तं तद्दर्शनावसानं तव जीवितमित्यर्थः ॥ ३।३७।२१ ॥

जीवितमिति । जीविताद्युद्दिश्य स त्वं विभीषणपुरोगमैर्धर्मिष्ठैर्मन्त्रयित्वा अनन्तरं निश्चयं कृत्वा दोषगुणबलाबलनिर्धारणविषयमात्मनो रामस्य च दोषगुणबलाबलं संप्रधार्य विचार्य तदनन्तरं स्वस्य रामस्य च बलं तत्त्वतो ज्ञात्वा निश्चित्य तव आत्मनो हितमिदमिति निश्चित्य यत्क्षमं तत्कर्तृमर्हसीत्यर्थः ॥ ३।३७।२२२४ ॥

सत्सचिवान्तर्गतस्य मम त्वेष निश्चय इत्याह अहं त्विति । इदं वक्ष्यमाणम् ॥ ३।३७।२५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकव्ये ऽरण्यकाण्डे सप्तत्रिंशः सर्गः ॥ ३।३७ ॥