मारीचेति । तातेत्युपलालनेन कार्यं वदिष्यन्पूर्वं वृत्तं स्मारयति ॥ ३।३६।१ ॥
जानीषे इति । भ्रात्रादयो मन्नियोगाज्जनस्थानं प्राप्य वसन्तीति त्वं जानीषे किलेत्यन्वयः ॥ ३।३६।२ ॥
लब्धलक्षा लब्धयुद्धोत्साहाः ॥ ३।३६।३ ॥
अथ तत्र स्थित्वा क्रियमाणं वृत्तं च जानीषे इत्याह अधिवासं चेति । मुनीन्बाधमाना बाधहेतवे हेतौ शानच् । अधिवासं च कुर्वन्ति मन्नियोगादिति शेषः । अधिवास उपद्रव इति कतकः । “रतिवासम्” इति पाठे रतिवासं रत्या प्रीत्या वासो यत्र कर्मणि तथा ॥ ३।३६।४,५ ॥
चतुर्दशसहस्राणि यानि सन्ति ते त्विदानीमित्यन्वयः । वसमाना वसन्तः रामेण संयुगे सङ्गता तेन सह समरमकार्षुरित्यर्थः । परमत्यर्थमायत्ताः संनद्धाः ॥ ३।३६।६,७ ॥
किञ्चिदपि परुषमनुक्त्वा शरैः शरमोक्षणव्यापारैर्व्यापारितं सञ्जातव्यापारं कृतम् ॥ ३।३६।८,९ ॥
अथ भगिनीवैरूप्यं निष्कारणं मन्यमानः क्रोधाद्दूषयति रामम् पित्रेत्यादिना । क्षीणजीवितः निरपराधं स्त्रीवैरूप्यकरणादेव तथात्वं मन्यते ॥ ३।३६।१० ॥
अत एवाशीलो ऽजितेन्द्रियश्च अस्थाने क्रोधात् ॥ ३।३६।११ ॥
सत्त्वं बलमेव केवलमाश्रित्य न तु धर्मम् ॥ ३।३६।१२१४ ॥
भ्रातृभिः कुम्भकर्णादिभिः । नाभिचिन्तये न गणयामि ॥ ३।३६।१५ ॥
उपायतः उपायेष्वित्यर्थः । तत्रैव हेतुगर्भं विशेषणम् महामायेत्यादि ॥ ३।३६।१६ ॥
मम साहाय्ये यत्कर्म त्वया कार्यं तत्कर्म शृण्वित्यन्वयः ॥ ३।३६।१७१९ ॥
अपाये ऽपगमे ॥ ३।३६।२० ॥
ततः सुखं क्लेशरहितं यथा भवति तथा विस्रब्धं यथा भवति तथा च प्रहरिष्यामि ॥ ३।३६।२१ ॥
रामकथां रामप्रसङ्गं श्रुत्वा मारीचस्रस्तो बभूव तेन त्रासेन च तस्य मुखं शुष्कमभवत् ॥ ३।३६।२२ ॥
चिन्तावशादनिमिषैरिव नेत्रैरुपलक्षित इति शेषः । मृतभूतो मृतप्रायः ॥ ३।३६।२३ ॥
आत्मनो हितमित्यार्षी षष्ठी ॥ ३।३६।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षट्त्रिंशः सर्गः ॥ ३।३६ ॥