तत इति “शूर्पं शोणितभाजनम्” । “नख विदूषणे” इति धातुः । शूर्पेण शोणितभाजनेन यज्ञादि सत्क्रियां नखयति विदूषयतीति शूर्पणखेति तीर्थः । शूर्पाकारनखवतीत्यर्थे सञ्ज्ञायां शूर्पणखा, अन्यत्र शूर्पणकीति परे । रोमहर्षणं शूर्पणखावाक्यस्य कामविकारजनकतया रोमाञ्चकरत्वं सचिवेभ्यस्तद्वाक्यस्य प्रतिपाद्यं कार्यं बुद्धा तत्संमतिपूर्वकं तत्कर्तव्यत्वेन निर्धार्य तानभ्यनुज्ञाय दत्ताभ्यनुज्ञान्कृत्वा जगाम । मारीचाश्रममिति शेषः ॥ ३।३५।१ ॥
तत्कार्यं सीतापहाररूपम् । अन्तश्चित्ते अनुगम्योद्दिश्य दोषाणां गुणानां च स्वरूपं यथावदुपलभ्य सीतापहारे एतावन्तो गणा इति निश्चित्य बलाबलं यथावत्संप्रधार्य इत्येव कर्तव्यमित्यात्मनः स्वस्य निश्चयं कृत्वा अकम्पनशूर्पणखाभ्यामुक्तत्वात्सीताहरणमवश्यं कर्तव्यमिति निश्चित्य यानशालां जगाम ॥ ३।३५।२,३ ॥
दुष्टे कर्मणि प्रवृत्तौ वृद्धादिनिरोधशङ्कया प्रच्छन्नं गूढम् ॥ ३।३५।४,५ ॥
देवयोनिभेदाः पिशाचाः, वदनभागे तत्सदृशैरित्यर्थः ॥ ३।३५।६ ॥
नदनदीपतिः समुद्रः तं तीर्त्वा ययौ ॥ ३।३५।७९ ॥
विद्युत्स्थाने आभरणानि, मेघस्थाने रावणः, बलाकास्थाने छत्रम् ॥ ३।३५।१० ॥
शैलसहितसागरानूपं तत्कूलम् तस्यैव वर्णनं नानापुष्पैरित्यादिना ॥ ३।३५।११,१२ ॥
कदल्यटविः कदलीवनं तेन शोभावत् ॥ ३।३५।१३ ॥
अत्यन्तमतिशयेन पर्णवातादिरूपो नियत आहारो येषां तैः ॥ ३।३५।१४ ॥
अजो ब्रह्मा तत्पुत्रैर्वैखानसैरयोनिजैः प्रसिद्धैः । माषैर्माषसञ्ज्ञकैः ॥ ३।३५।१५,१६ ॥
अमृताशिभिरमृतभोजनैः ॥ ३।३५।१७ ॥
प्लवा मण्डूकाः । वैदूर्यप्रस्तरं वैदूर्यसदृशश्यामप्रस्तरम् । सागरतेजसा सागरोर्मिवैभवेन स्निग्धं सान्द्रं शीतलम् ॥ ३।३५।१८,१९ ॥
अभिसंपतन्गच्छन्मार्गवशाद्विमानानि गन्धर्वाप्यसरसश्च ददर्श ॥ ३।३५।२० ॥
निर्यासरूपरसयुक्तमूलानां चन्दनानामित्यर्थः । यद्वा निर्यासरसस्य मूलानामुपादानकारणानां गुग्गुलादिवृक्षाणां चन्दनानां च वनानि पश्यन् ॥ ३।३५।२१ ॥
जात्यानामुत्तमानाम् । तक्कोला सुगन्धफला वृक्षविशेषास्तेषां वनानि पश्यन् ॥ ३।३५।२२,२३ ॥
शैलानि शिलासमूहान् ॥ ३।३५।२४ ॥
प्रस्रवाणि निर्झराः ॥ ३।३५।२५ ॥
समं समभूतलं देशम् ॥ ३।३५।२६ ॥
तत्र समुद्रानूपे ॥ ३।३५।२७ ॥
यस्य दिव्यवटस्य । प्रसङ्गात्तन्माहात्म्यं कविराह यस्येति षड्भिः श्लोकैः । गरुडो ऽमृताहरणप्रस्तावे भक्षार्थं महाकायं गजं कच्छपं चादाय क्वचित्स्थित्वा भक्षणाय यस्य शाखां जगाम, गत्वा च यस्य शाखां भारेण बभञ्ज । तस्या भग्नशाखाया अधो वैखानसाद्या अनेके ऋषयः समागता बभूवुः । तेषां शाखापातेन नाशो मा भूदिति तां शाखां तौ गजकच्छपौ च महाबलत्वादादायान्यत्र जगाम । तदा गच्छन्नेव तौ शाखां चैकपादेन धृत्वान्तरिक्ष एव तदामिषं गजकच्छपरूपं भक्षयित्वा तया शाखया प्रक्षिप्तया निषादविषयं निषाददेशं हत्वा मुनींश्च वधान्मोक्षयित्वा प्रहर्षं लेभे ॥ ३।३५।२८३३ ॥
स तेनैव हर्षेणामिषभक्षणनिषादनाशनमुनिरक्षणजसन्तोषेण ॥ ३।३५।३४ ॥
अयोजालान्यायःशृङ्खलनिर्मितजालानि रत्नमयगेहोपरि पक्षिप्रवेशपरिहारा बद्धानि बलान्निर्मथ्य छित्त्वा रत्नमयगृहं च भित्त्वा गुप्तममृतं महेन्द्रभवनादाजहार ॥ ३।३५।३५ ॥
सुपर्णेन कृतं भग्नैकमहाशाखात्वरूपं लक्षणं यस्य तम् ॥ ३।३५।३६३८ ॥
सर्वकामैरभिलषितसर्वभोग्यवस्तुभिरर्चितो बभूवेति शेषः ॥ ३।३५।३९,४० ॥
पूजोत्तरं कुशलं पृच्छति कच्चिदिति ॥ ३।३५।४१ ॥
इदमग्निमसर्ववक्ष्यमाणम् ॥ ३।३५।४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥ ३।३५ ॥