तत इति ॥ ३।३४।१४ ॥
किंरूप इत्यस्योत्तरम् दीर्घबाहुरित्यादि ॥ ३।३४।५ ॥
कश्च राम इत्यस्योत्तरम् दशरथात्मजः । कनकाङ्गदं कनकवलयभूषितं चापम् ॥ ३।३४।६९ ॥
खरश्च सहदूषणो हत इत्यर्थः ॥ ३।३४।१० ॥
किमर्थं दण्डकारण्यं प्रविष्ट इत्यस्योत्तरम् ऋषीणामित्यादि ॥ ३।३४।११ ॥
पूर्वतनं स्ववृत्तं गोपायन्त्याह एकेति । परिभूय नासाकर्णहीनां कृत्वा ॥ ३।३४।१२,१३ ॥
रामस्य दक्षिणो बाहुरित्यनेन सर्वतत्कार्यधुरन्धरत्वम् । बहिश्चरः प्राण इत्यनेन निरतिशयप्रेमास्पदत्वं सूच्यते ॥ ३।३४।१४१८ ॥
यस्य सीता भार्या यं हृष्टा परिष्वजेत्स एव सर्वेषु कालेषु लोकेषु च पुरन्दरादप्यभ्यधिकं जीवेत् । तस्या लक्ष्म्यवतारत्वादिति व्यङ्ग्यम् ॥ ३।३४।१९,२० ॥
तवानेतुमुद्यताहमिति मृषावचो रावणसन्तोषार्थम् ॥ ३।३४।२१,२२ ॥
भार्यात्वे भार्यात्वेन सम्पादने ॥ ३।३४।२३,२४ ॥
एषां रामादीनामशक्तिं तेषां राज्याद्यभावाच्चकारात्तव शक्तिं च विज्ञाय सीता तव भार्यात्वे क्रियताम्, भार्यात्वे तद्व्यवहारे यथा विषयो भवति तथा क्रियताम् यत्यतामित्यर्थः ॥ ३।३४।२५ ॥
अद्य कृत्यमेतत्कालोचितकृत्यं कर्तुं योग्यं तत्प्रतिपत्तुं निश्चित्य ज्ञात्वा प्रवर्तयितुमर्हसीत्यर्थः ॥ ३।३४।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३।३४ ॥