तत इति ॥ ३।३३।१ ॥
कामभोगेषु प्रमत्तो ऽतिशयप्रसक्तः । निरङ्कुशः सन्बोद्धव्यं नावबुध्यस इत्यन्वयः ॥ ३।३३।२ ॥
हेयोपादेयराजगुणानाह रावणस्य गुणहीनत्वं वक्तुम् सक्तमिति । ग्राम्यभोगः स्त्र्यादिभोगः । तदेवाह कामवृत्तमिति । कामचेष्टापरम् लुब्धं भोगलोलुपम् । श्मशानाग्निमिव अस्पृश्यत्वेन सादृश्यम् ॥ ३।३३।३ ॥
तैः कार्यैरननुष्ठितैः ॥ ३।३३।४ ॥
अयुक्तचारमनियोजितचारम् । दुर्दर्शमुचिते काले प्रजाभ्यो दर्शनदानरहितम् । अस्वाधीनं स्त्रयादिपरतन्त्रम् ॥ ३।३३।५ ॥
विषयं देशम् । अस्वाधीनं स्वभिन्नाधीनम् । पूर्वं स्वाधीनं देशं पश्चात्परायत्तं ये न रक्षन्ति स्वाधीनीकारणेनेति शेषः, ते न प्रकाशन्ते सागरे मग्ना गिरय इव ॥ ३।३३।६ ॥
आत्मवद्भिर्वशीकृतान्तर्बहिरिन्द्रियैः विगृह्य विरुध्य ॥ ३।३३।७,८ ॥
प्राकृतै राजव्यवहारानर्हदासीदासजनैः ॥ ३।३३।९,१० ॥
स्वजनं स्वस्य जना यस्मिंतत् ॥ ३।३३।११,१२ ॥
कृतं क्षेमं येषु ते कृतक्षेमाः ॥ ३।३३।१३,१४ ॥
तीक्ष्णं स्वामात्यादिविषये तैक्ष्ण्यादिगुणविशिष्टम् । शठो गूढविप्रियकारी तादृशं राजानं सर्वभूतानि भृत्यामात्यादिसर्वप्रजा नाभिधावन्ति तद्रक्षणाय न प्रवर्तते ॥ ३।३३।१५ ॥
अग्राह्यं स्वीयैरनुपसर्प्यम् । आत्मसंभावितमात्मना स्वेनैव सभावितं बहुमानं प्राप्तम् । अक्रोधनमस्थाने क्रोधवन्तम् ॥ ३।३३।१६ ॥
नानुतिष्ठति यस्यामात्यादिस्वजनो ऽपीत्याकर्षः, स राज्याच्च्युतो भवेदित्यन्वयः ॥ ३।३३।१७१९ ॥
सर्वज्ञः स्वपरसर्ववृतान्तज्ञः ॥ ३।३३।२० ॥
प्रसुप्तो वा प्रसुप्तो ऽपि । व्यक्तक्रोधप्रसादः फलदानेन ॥ ३।३३।२१ ॥
अविदितः येन त्वया न ज्ञात इत्यर्थः ॥ ३।३३।२२ ॥
परेषामवमन्ता केवलमवमन्तैव न तु तन्नाशविषयबुद्धिः, न चिरात्क्षिप्रं विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः ॥ ३।३३।२३ ॥
धनेनाक्षयकोशेन, दर्पेण राजत्वाहङ्कारेण, बलेन प्राणबलेन चतुरङ्गबलेन च चिन्तयामास । मारीचः कलहं निवारयति, एषा कलहार्थं प्रोत्साहयति, किमत्र कर्तव्यमिति विचारयामासेत्यर्थः ॥ ३।३३।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३।३३ ॥