तत इति ॥ ३।३२।१ ॥
महानादान्ननाद शोकादिति शेषः ॥ ३।३२।२४ ॥
रुक्मवेदिं प्राप्तं हिरण्येष्टकचितां वेदिं प्राप्तम् । प्राज्यं भूर्याज्यहोमवन्तम् अत एव ज्वलन्तम् ॥ ३।३२।५,६ ॥
विमर्दो युद्धम् । वज्राशनिकृतव्रणामित्यनेन तदवध्यत्वमुक्तम् । ऐरावतदन्ताग्रैरुत्कृष्टं विलेखनं तेन जातो यः किणस्तदङ्कितवक्षसम् ॥ ३।३२।७ ॥
परिच्छदश्छत्रचामरालङ्करणादीनि ॥ ३।३२।८ ॥
वैदूर्यं श्यामरक्तम् श्याममित्यन्ये । स्वशरीरनद्धवैदूर्यकान्तिसदृशशरीरकान्तिमित्यर्थः । “स्निग्धवैदूर्य” इति पाठो बहुलम् ॥ ३।३२।९,१० ॥
क्षोभणं क्षोभकर्तारम् ॥ ३।३२।११,१२ ॥
परदाराभिमर्शनं विवृणोति पुरीमिति ॥ ३।३२।१३,१४ ॥
नलिनीं चैत्ररथवनमध्यवर्तिनीं सरसीम् ॥ ३।३२।१५ ॥
उत्तिष्ठन्तावुदयन्तौ ॥ ३।३२।१६,१७ ॥
उपजहारोपहारत्वेन दत्तवान् ॥ ३।३२।१८ ॥
यस्य सङ्ग्रामे मृत्युतो ऽभयम् । मनुष्यातिरिक्ततो मरणभयहीन इत्यर्थः । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिरभिष्टुतम् ॥ ३।३२।१९ ॥
सोमं हविर्धानेषु सोमाभषवशालासूपहन्ति नाशयति । प्राप्तान्दक्षिणाकालं प्राप्तान्यज्ञान्हरति तम् ॥ ३।३२।२० ॥
सर्वभूतानां रावणमाक्रोशशब्दकारिणम् ॥ ३।३२।२१ ॥
राक्षसी शूर्पणखा ॥ ३।३२।२२ ॥
काले प्रलयकाले पौलस्त्या राक्षसाः ॥ ३।३२।२३,२४ ॥
उपगम्याब्रवीदित्युक्तं तस्य विवरणम्– तमिति । प्रदर्शयित्वा स्वकं वैरुप्यमिति शेषः । भयं राक्षसवधेन रामजम् । लोभस्तत्सौन्दर्यात्तद्विषयस्ताभ्यां मोहिता । अभीतं यथा भवति तथा सर्वलोकेषु चरति तच्छीला ॥ ३।३२।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्वात्रिंशः सर्गः ॥ ३।३२ ॥