त्वरमाण इति । खरसङ्ग्रामात्पलायितः शूर्पणखागमनात्पूर्वमेव लङ्कां प्रविश्येत्यर्थः । संपूर्णं दण्डकारण्यं जनस्थानपदवाच्यम् अतो गोदावरीतीराद्गतो ऽपि जनस्थानाद्गत इत्युक्तः ॥ ३।३१।१ ॥
खरश्चेति । चेन दूषणत्रिशिरसोः संग्रहः । कथंचिदहमागतः केवलं प्रेक्षकतया स्थितत्वाद्रामबाणाविषयीकृततयेत्याशयः ॥ ३।३१।२,३ ॥
भीमं सर्वलोकभयदं जनस्थानम् । परासुनेति क्रोधान्मुमूर्षुणेत्यर्थे प्रयुक्तम् । गतिं स्थितिम् ॥ ३।३१।४६ ॥
निहन्तुं भङ्क्तुम् । आदित्यपावकौ उभावपि युगपदिति शेषः ॥ ३।३१।७ ॥
सन्दिग्धया सन्दिग्धाक्षरया । अभयमिति छेदः ॥ ३।३१।८,९ ॥
“वराङ्गरूपोपेतो यः सिंहसंहननो हि सः” इति कोशः ॥ ३।३१।१० ॥
अतुल्यं केनापि तुलानर्हं बलं विक्रमश्च यस्य सः । स दूषणः खरश्च हत इत्यन्वयः ॥ ३।३१।११ ॥
नागेन्द्रः सर्पश्रेष्ठः ॥ ३।३१।१२ ॥
स रामः सर्वामरसहितेन्द्रेण जनस्थानं कच्चिदुपागत इत्यन्वयः ॥ ३।३१।१३,१४ ॥
परं धर्ममतिशयितं शौर्यम् ॥ ३।३१।१५ ॥
राकाशशिनिभानन इति । राका पूर्णिमा । “पूर्णे राका निशाकरे” इत्यमरः । पूर्णनिशाकरवदन इत्यर्थः ॥ ३।३१।१६ ॥
राजवरः राजराज इति यावत् ॥ ३।३१।१७ ॥
महात्मानो देवाः । नैवागता इति शेषः । रामेण तु न तु लक्ष्मणेनापीत्यर्थः ॥ ३।३१।१८ ॥
भयात्पलायनाय येन मार्गेण गच्छन्ति राक्षसास्तेन तेन मार्गेणागत्याग्रतः स्थितमेव रामं पश्यन्ति । अनेनानन्ताकारताप्रदर्शनेन रामस्यापरिच्छिन्नशक्तित्वं च सूचितम् ॥ ३।३१।१९२१ ॥
बलं पराभिभवसामर्थ्यम् । पौरुषं महापुरुषकर्म । वृत्तं चरितम् । यथा यादृशं तत्सर्वं शृण्वित्यर्थः ॥ ३।३१।२२ ॥
कुपितः कुपितो ऽन्तक इव संहारे प्रवृत्तो रामः पराक्रमेण ततो निवर्तयितुमसाध्यः । ब्रह्मादिभिरपीति शेषः, परिहरेत्परावर्तयेत्, अनेन कृष्णबलभद्रावतारस्यापि सूचनम् ॥ ३।३१।२३ ॥
नभो ऽप्यवसादयेत्तारारहितं कुर्यात्, त्रिविक्रमावतार इव । महीमभ्युद्धरेत्, यज्ञवराह इव । शक्यर्थे एते लिङः ॥ ३।३१।२४ ॥
वेलां मर्यादामाप्लावयेत् प्रलयकाल इव । समुद्रस्य वेगं विधमेत् । समुद्रे सेतुबन्धनसामर्थ्यं दर्शितम् । वायुमित्युपलक्षणं भूतपञ्चकस्य ॥ ३।३१।२५ ॥
संहृत्य पुनः स्रष्टुं शक्तः । अत्र पुनरपिशब्दाभ्यां सर्वसृष्टिसंहाराणां तदधीनत्वमुक्तम् । अनेन जगत्स्थितिसंहारकर्तृत्वमस्य व्यङ्ग्यम् । अकम्पनस्यापि भगवत्प्रसादादेवं ज्ञानम् ॥ ३।३१।२६ ॥
लोकेन समूहेन सहितेनापीति शेषः ॥ ३।३१।२७ ॥
अपिना त्वयापि । एतेनेन्द्रजिन्निर्जितेन्द्रादिसाहाय्ये ऽपि तस्य जयो ऽसुकर इति ध्वनितम् । ममेति मुखादिति शेषः ॥ ३।३१।२८ ॥
श्यामा यौवनमध्यस्था ॥ ३।३१।२९ ॥
कुतो भवेत् तुल्येति शेषः ॥ ३।३१।३० ॥
तं रामं प्रमथ्य केनाप्युपायेनोच्चाट्येतीति यावत् । तस्य भार्यामपहर बलात्कारेण हर ॥ ३।३१।३१ ॥
अरोचयतेष्टत्वेन ज्ञातवान् चिन्तयित्वा रामस्य सीतया सहानवस्थानोपायम् ॥ ३।३१।३२ ॥
कल्यं प्रातः मान्तमव्ययम् । हृष्ट इति अकम्पनवाक्यं श्रुत्वा त्रेतामुखे श्रीरामो ऽवतरिष्यतीति सनत्कुमारवाक्यस्मरणाद्धृष्टः । तदेतदुत्तररामायणे स्पष्टम् । तत्र हि सनत्कुमारं प्रति विष्णुहस्तमृतानां का गतिरिति रावणेन पृष्टे तेन हतानां तल्लोकप्राप्तिरिति सनत्कुमारवचः श्रुत्वा “एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रतापवान् । त्वया सह विरोधे ऽप्सुश्चिन्तयामास राघव ॥ एतदर्थं महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता रामं महावने ॥ " इत्युक्तमिति तीर्थः । उत्तमस्त्रीलाभो भविष्यतीति हृष्ट इत्यर्थ उचितः । श्रुतस्यापि तस्यार्थस्य नामसत्वेन विस्मरणात् । ते पद्ये तु न यथाश्रुतार्थे वक्ष्यमाणविष्णुपुराणविरोधात् । किं तु श्रीरामस्य स्वमृत्योरवतारं श्रुत्वा त्वया सह मृत्युविघातकविरोधेच्छुस्तां हृतवान् । तद्वियोगे तव मरणमित्याशयेनेति तयोरर्थ इत्यन्ये । वस्तुतस्त्वेतेषां श्लोकानां तद्वतां सर्गाणां च प्रक्षिप्तत्वान्न ते प्रमाणभूताः । अत एव ते सर्गाः कतकादिभिस्तीर्थेन च न व्याख्याताः। एतेन “एतदर्थं महाबाहो रावणेन दुरात्मना । विज्ञायापहृता सीता त्वत्तो मरणकाङ्क्षया ॥
" इति तत्र पाठो दृश्यते तत्र च त्वदुक्तार्थासंभव इत्यपास्तम् ॥ ३।३१।३३,३४ ॥
चञ्चूर्यमाणो भृशं चरन् । जलदसदृशं गगनं चन्द्रसदृशो रथः ॥ ३।३१।३५ ॥
मारीचाश्रमम् । पूर्वं रामनिरस्तस्य दुःखात्तपःप्रवृत्तेरेवमुक्तिः । ताटकेयं ताटकापत्यम् ॥ ३।३१।३६ ॥
अर्थोपहितया किं प्रयोजनमत्रागमनमिति प्रयोजनयुक्तया ॥ ३।३१।३७ ॥
कच्चित्सुकुशलमिति सामान्यप्रश्नः । लोकानां राक्षसलोकानाम् आशङ्के भयमिति शेषः । नाधिजाने क्षेममिति शेषः । यतस्त्वमेकाकी तूर्णमागतः ॥ ३।३१।३८,३९ ॥
आरक्षः सभाजस्थानं जनस्थानाख्यम् । आरक्षो ऽन्तपालः खरादिरत्यर्थ इत्यन्ये ॥ ३।३१।४०,४१ ॥
सा सीता केनाख्याता हर्तव्यत्वेन कथिता । येन कथिता स मित्ररूपस्ते शत्रुः । त्वया दानादिना नन्दितः को न नन्दति । “निन्दितः” इति पाठे निन्दितो ऽवमानितः कस्त्वां न नन्दति न सन्तुष्यति । क्रुध्यतीति यावत् । त्वया तिरस्कृतस्तावकमैश्वर्यमसहमानः संस्त्वया सह कृत्रिममित्रभावं प्राप्तः संस्तवेदृशीं बुद्धिमुपदिशतीति भावः ॥ ३।३१।४२ ॥
सीतामिहानयेति को ब्रवीति तं ब्रवीहि । ईडार्षः । शृङ्गमोन्नत्यम् ॥ ३।३१।४३ ॥
स च शत्रुरसंशयमित्यत्र हेतुमाह आशीविषेत्यादि च । यस्मात्त्वया प्रयोज्येनाशीविषमुखाद्दंष्ट्रामुद्धर्तुमुद्धारयितुमिच्छति ॥ ३।३१।४४ ॥
केन शत्रुणानेन कर्मणा एतत्कर्मोपदेशेन कापथं नाशमार्गमिति यावत् । प्रहृतम् वृथैव दुःखमुत्पादितमित्यर्थः ॥ ३।३१।४५ ॥
राघवरूपौ गन्धहस्ती । यस्य गन्धं समाघ्रायान्ये गजाः पलायन्ते स गन्धहस्ती मत्तगज उदीक्षितुमपीह देशे काले न युक्तः, किं पुनर्योद्धुमित्यर्थः । विशुद्धवंशे ऽभिजनो ऽभिजननमेवाग्रहस्तः शुण्डाग्रं यस्य । तेजः प्रताप एव मदो यस्य सः । संस्थितौ समीचीनावस्थानौ दोषौ बाहू एव विषाणे दन्तौ यस्य ॥ ३।३१।४६ ॥
रणान्तःस्थितिरूपा रणमध्यावस्थानरूपाः सन्धयो बालाश्च यस्य । विदग्धरक्षसां रणचतुराणां राक्षसमृगाणां हन्ता । शररूपैरङ्गैः पूर्णः ॥ ३।३१।४७ ॥
चाप एवापहारः प्राणिप्राणापहारको ग्राहो यस्मिन् । भुजयोः शरग्रहणसन्धानमोक्षविषयो वेग एव पङ्को यस्मिन्दुस्तरत्वात्तत्र । शरा एवोर्मिमालास्तरङ्गा यस्मिन् । सुमहानाहव एव ओघो जलं यस्य तस्मिन् । राम एव पातालं पातालप्रविष्टमहार्णवस्तस्य मुखे वडवामुखरूपे । प्रस्कन्दितुं पतितुम् ॥ ३।३१।४८५० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकत्रिंशः सर्गः ॥ ३।३१ ॥