०३० खरवधः

भित्त्वेति ॥ ३।३०।१ ॥

लब्धावसरो भगवांस्त्वयैव कत्थनं कृतमित्याह एतदिति । शक्तिहीनतरः शक्त्या हीनतरः ॥ ३।३०।२ ॥

अभिधाने केवलं प्रगल्भस्य तवानया शत्रुवधो भवत्येवेत्ययं यः प्रत्ययो विश्वासस्तस्य स्वनाशेन घातिका ॥ ३।३०।३६ ॥

स्रस्तं स्थानादत एव भूमौ न्यस्तं भुजद्वयं येन सः । गां भूवम् ॥ ३।३०।७ ॥

प्रवृद्धनिद्रे प्रवृद्धदीर्घनिद्रे । शरण्याः सुखवासभूताः । शरण्यानां तपोमहिम्ना सर्वजनशरण्यानाम् ॥ ३।३०।८ ॥

हतस्थाने हतराक्षसवासे ॥ ३।३०।९ ॥

विप्रसरिष्यन्ति मद्भयेन जनस्थानात्पलायिष्यन्तीत्यर्थः ॥ ३।३०।१० ॥

शोकरसज्ञाः शोकस्थायिकरसज्ञाः । निरर्थिका निःशेषतो नष्टो ऽर्थः कामादिपुरुषार्थो यासां ताः । अनुरूपकुलास्त्वत्सदृशदुर्वृत्तत्वादिगुणवत्कुलाः । ईदृशः पापकर्मा ॥ ३।३०।११ ॥

अस्यैव विवरणम् नृशंसेत्यादि शङ्कितैस्त्वद्भटेभ्यः । यद्यपि भगवत ईदृशेषु क्षुद्रेष्वेवं वादो ऽनुचितः, तथापि निरयस्थमिति स्वोक्तिं सत्यां कर्तुं मरणकाले क्रोधजनकतमोगुणोद्रेकस्य तामसगुणगतिसंपादकस्योद्भवायेति बोध्यम् ॥ ३।३०।१२,१३ ॥

ततो हि अवलिप्तत्वादेव । मृत्युवश्यो ऽपि वाच्यावाच्यं न जानीषे ॥ ३।३०।१४ ॥

परिक्षेपो बन्धः । निरस्तषडिन्द्रियाः सान्तःकरणचक्षुरादिपञ्चेन्द्रियैर्निरस्ता विनाशितस्वातन्त्र्याः । मृत्युकाले स्पुरितभगवद्रूपः । श्लेषेण स्वाविनयं क्षमापयति च । कालेति । अतस्त्वया मदुक्तयः क्षन्तव्या इति व्यङ्ग्यमित्यन्ये तेषां निरयस्थमिति भगवदुक्तेरसङ्गतिः स्पष्टैव ॥ ३।३०।१५ ॥

भृकुटिं संनिरुध्य संनिबध्य ॥ ३।३०।१६ ॥

प्रहरणमायुधं तदर्थे सर्वतः प्रसृतमिति शेषः । तादृशसालमवलोकयन्नित्यर्थः । दशनच्छदमधरम्, सन्दष्टदशनच्छदं यथा भवति तथा ॥ ३।३०।१७ ॥

समुत्क्षिप्य भ्रमयित्वा ? हतो मारितः ॥ ३।३०।१८,१९ ॥

जातस्वेदः रोषादिति शेषः, न तु श्रमादिति । अयं रोषो ऽपि भगवतारोपित एव नटवन्न तु वास्तवो मानुषत्वस्थिरीकरणायेति बोध्यम् । रक्तवर्णे ऽन्तभागे ऽपाङ्गभागे लोचने यस्य सः । सहस्रेणानन्तेन ॥ ३।३०।२० ॥

बाणान्तराद्बाणक्षतविवरात्प्रस्रवणस्य प्रस्रवणाख्यस्य परिस्रवः प्रवाहः ॥ ३।३०।२१ ॥

विकलः परवशः कृतः न तु मृत इत्यर्थः । तदेवाह मत्त इति ॥ ३।३०।२२ ॥

आपतन्तं बाणक्षेपावकाशो यथा न भवति तथोपर्यापतन्तं खरं दृष्ट्वा ऽत्यासत्तौ धनुर्व्यापारो न स्यादिति स्वशरीरे तद्रुधिरपातभिया च द्वित्रीणि पदानि त्वरितपदन्यासो बाणं सन्दधदेव पृष्ठतो ऽपासर्पत् । अनेन महाबलत्वं खरस्योक्तं नह्यन्यथा रामधनुश्छेदो ऽनन्ततद्बाणसहनं वा सुशकम् । अत एवाग्रे तद्वधाय विशिष्य स्वशक्तिरूपवैष्णवबाणग्रहणम् ॥ ३।३०।२३ ॥

ब्रह्मदण्डमिव ब्रह्मास्त्रमिवामेघम् ॥ ३।३०।२४ ॥

मघवता दत्तमगस्त्यद्वारा ॥ ३।३०।२५ ॥

धनुरायम्य विमुक्तः स खरस्योरस्यपतदित्यन्वयः ॥ ३।३०।२६ ॥

श्वेतारण्ये यथान्धकः । अन्धकासुरश्वेतारण्ये रुद्रेण हत इति पुराणप्रसिद्धम् । रुद्रेणेवेति इवशब्दो वाक्यालङ्कारे । “श्वेतारण्ये यथान्तकः” इति प्रचुरः पाठः । तत्र कावेरीतीरवर्तिनि श्वेतारण्ये मार्कण्डेयचिरजीवित्वायान्तकसंहारो रुद्रेण कृत इति तन्माहात्म्ये प्रसिद्धिः । कौर्मे तूत्तरखण्डे श्वेतस्य राजर्षेः परमशैवस्य कालञ्जरे पर्वते तपस्यभिरतस्य मारणायागतस्यान्तकस्य शिवेन वामपादप्रहारेण संहारः कृत इति षट्त्रिंशो ऽध्याये उक्तम् ॥ ३।३०।२७ ॥

वज्रेण वृत्र इव फेनेन तदाच्छादितवज्रेण नमुचिरिव । न शुष्केण नार्देणेति ब्रह्मणा तस्मै वरदानात् । अशनिहतो बलो वा वाशब्द इवार्थे बल इव । एवं च अन्तकादिवधस्य रुद्रेन्द्रातिरिक्तासाध्यत्ववत्खरवधस्य रामातिरिक्तासाध्यत्वं प्रकाशितं कविना ॥ ३।३०।२८,२९ ॥

अर्धाधिकमुहूर्तेन किञ्चिदूनघटिकात्रयेण ॥ ३।३०।३०३२ ॥

राजर्षयो नहुषाद्याः । परमर्षयो भृग्वाद्याः ॥ ३।३०।३३ ॥

सभाज्य पूजयित्वा । एतदर्थे रक्षसां वधायैतद्देशवासनियोजनार्थम् । क्षणं स्थित्वा रामं प्रस्थाप्य भवद्भिर्बह्मलोकाय प्रस्थातव्यमित्युक्त्वा शरभङ्गं प्रतीन्द्रो गत इत्याशयः ॥ ३।३०।३४३६ ॥

एतस्मिन्नन्तरे देवानाम् ऋषीणां च निर्गमनसमये ॥ ३।३०।३७४० ॥

हर्षातिशयात्पुनरालिङ्गनम् । इदं युद्धं प्रायः शिशिरार्धे ॥ ३।३०।४१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रिंशः सर्गः ॥ ३।३० ॥