मृदुपूर्वं न्यायमवलम्ब्य मृदूक्तिपूर्वम् । परुषं परुषार्थकम् ॥ ३।२९।१ ॥
त्वत्कृतान्यायेनायं तव नाश इत्याह– गजेत्यादि । बले तिष्ठता बलविषयस्वामित्वेन तिष्ठता, ईदृशेन यद्दारुणं कर्म कृतं भवति तत्सर्वं लोकनिन्द्यं भवति ॥ ३।२९।२ ॥
एवंविधकर्मकर्तुर्नेह सुखमित्याह– उद्वेजनीय इति । उद्वेजक इत्यर्थः । नृशंसो घातुकः क्रूर एवंगुणक ईश्वरो ऽपि न तिष्ठति न चिरं तिष्ठति ॥ ३।२९।३ ॥
तदेवाह कर्मेत्यादि । सर्वजनो हन्ति अकृतापकारो ऽपि हन्ति स सर्ववध्य इति यावत् ॥ ३।२९।४ ॥
अप्राप्तप्राप्तीच्छा कामः, प्राप्ताधिकेच्छा लोभः । तस्य पापस्यान्तं स्वनाशरूपं परिपाकं पश्यति पापफलमनुभवतीत्यर्थः । करका वर्षोपलास्तानत्ति करकात्सा ब्राह्मणी रक्तपुच्छिकेव रक्तपुच्छिकायाः करका विषम् तन्निगरणमात्रेण तन्मृत्युरिति प्रसिद्धिः सा यथा स्वानर्थमपश्यन्ती तद्भुङ्क्ते भोजनोत्तरं तन्नाशं लोकः पश्यति एवं यः कर्मकरणकाले नाशकमिदमिति न बुध्यते तस्य तत्कर्मप्राप्तमन्तं नाशं लोको हृष्टः सन्पश्यतीत्यर्थ इति कतकः ॥ ३।२९।५ ॥
ततः किं तत्राह– वसत इति । किं नु फलमग्रे प्राप्स्यसि तन्न विद्म इति शेषः ॥ ३।२९।६ ॥
इदं तु प्रत्यक्षमित्याह– नेति । पापकर्माणः पूर्वपुण्येनैश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति ॥ ३।२९।७ ॥
काले पापानुभवकाले । घोरं दुःखरूपफलम् ॥ ३।२९।८,९ ॥
घोरं कर्मणः फलं भवतीति शेषः । अतो हेतोरहं राजा दुष्टनिग्रहाधिकारी । हे निशाचर रक्षसां प्राणान्हन्तुमासादितः ऋषिभिरिति शेषः, त्वयेति वा । “राज्ञा” इति पाठे राज्ञा दशरथेनासादितो नियुक्त इत्यर्थ इति तीर्थः ॥ ३।२९।१० ॥
अद्य मया मुक्ता बाणास्त्वद्वपुर्भित्त्वा भूमिं विदार्यातिपतिष्यन्ति भुवमतिक्रम्य पतिष्यन्ति पातालं गमिष्यन्तीति यावत् ॥ ३।२९।११ ॥
अत्र ऋष्यनुगमनं प्राणनाशमात्रेण अत एव निरयस्थमिति वक्ष्यति ॥ ३।२९।१२ ॥
निरयस्थमिति । ननु भगवता हतस्य मृतिसमये भगवद्दर्शनवतः कथं निरयस्थत्वमिति चेन्न, अत्युग्रस्य ब्रह्मवधकर्मणः फलस्यावश्यं भोक्तव्यत्वेनादौ भगवदिच्छयैव निरयभोगपूर्वमुत्तमपदप्राप्तेः सत्त्वेनादोषात् ॥ ३।२९।१३ ॥
कुलाधम कुलेनाधम ॥ ३।२९।१४१६ ॥
गर्विता अति न कथयन्तीत्यन्वयः ॥ ३।२९।१७ ॥
अकृतात्मानः कल्मषचित्ताः ॥ ३।२९।१८ ॥
कलुषं व्यपदिशन्कुलीनत्वं प्रकटयन्मृत्युकाले तत्तुल्ययुद्धकाले संप्राप्ते अप्रस्तवे ऽप्रस्तावे घञभाव आर्षः स्वस्तवरूपं वचनं को ऽभिधास्यति न को ऽपीत्यर्थः । “अहमासादितो राजा” इति रामोक्तेरिदमुक्तवान् ॥ ३।२९।१९ ॥
कत्थनेन प्राकृतेन ते त्वया सर्वथैवात्मनो लघुत्वं दर्शितम् । यथा सुवर्णतुल्यरूपेण पित्तलेन कुशाग्निना स्वर्णादिशोधनाग्निना तप्तेन यथा स्वस्य कृष्णवर्णत्वरूपं लाघवं दर्शितं भवति तद्वत्तापात्पूर्वं हि तत्र स्वर्णताबुद्धिः सा तापे यथा नश्यति तथा त्वया स्वास्मिन्स्थिता प्राक्शूरत्वबुद्धिः कत्थनेनापहृतेत्यर्थः । “तुषाग्निना” इति पाठान्तरम् ॥ ३।२९।२० ॥
अयमेव ते कत्थने हेतुरित्याह न त्विति । गदाधरं मां यतो न पश्यसि सारतो न जानासि अतो विकत्थसे इत्यन्वयः । धराधरमिति पर्वतविशेषणम् तेन कुलाचलसादृश्यबोधनम् ॥ ३।२९।२१ ॥
स्वकं सारं दर्शयति पर्याप्त इति । गदापाणिरिति गदाहस्त इत्यर्थः । तव त्रयाणां लोकानां चेत्यर्थः ॥ ३।२९।२२ ॥
यद्यपि त्वद्विषये कामं बहु वक्तव्यमस्ति, अथाप्यहं न वक्ष्यामि त्वद्वल्लघुत्वापत्तेः । हेत्वन्तरमप्याह अस्तमिति ॥ ३।२९।२३ ॥
यानि ते त्वया हतानि तेषां तत्संबन्धिस्त्रीपुत्रादीनामश्रुप्रमार्जनं करिष्यामि त्वद्विनाशात्त्वन्मरणात् ॥ ३।२९।२४ ॥
परमा अङ्गदाः कनकवलयानि यस्यास्तां प्रसिद्धां हस्तस्थां गदां चिक्षेप ॥ ३।२९।२५ ॥
भस्म कृत्वा स्वज्वालयेति शेषः । तत्समीपतो रामसमीपतः ॥ ३।२९।२६,२७ ॥
मन्त्रादिबलैर्विनिपातिता व्यालीव ॥ ३।२९।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनत्रिंशः सर्गः ॥ ३।२९ ॥